०४८ हनुमद्-इन्द्रजिद्युद्धम्

मनः समाधाय पुत्रनाशखिन्नमपि चेतो धीरतया ऽप्रकाशितभयं प्रतिष्ठाप्य ॥ ५।४८।१ ॥

पितामहाराधनेन सञ्चितास्त्रः प्राप्तब्रह्मास्त्रो ऽसीत्यर्थः ॥ ५।४८।२ ॥

सुरेश्वरसमाश्रिता अपि रणे स्थातुं न शेकुः ॥ ५।४८।३ ॥

कश्चित्त्वदन्यो न गतश्रमो न । सर्वे प्राप्तश्रमा इत्यर्थः । भुजवीर्याभिगुप्तस्तपसा ऽभिरक्षितो देशकालप्रधानश्च मत्या सत्तमः प्रशस्ततरश्च त्वमेवेत्यन्वयः ॥ ५।४८।४ ॥

समरेषु कर्तव्यानां कर्मणां मध्ये ऽशक्यं नास्ति । “कर्मणा” इत्येव पाठः सांप्रदायिक इति कतकः । मतिपूर्वमन्त्रणे शास्त्रानुरूपबुद्धिपूर्वकर्तव्यराजकार्यविचारे ते ऽकार्यं नास्ति कार्यासाधकविचारो नास्तीत्यर्थः । त्रिषु सङ्ग्रहेषु त्रिष्वपि लोकेषु । भोक्तृभिः कर्मणा सङ्गृह्यन्त इति सङ्ग्रहा लोकास्तेषु । ते ऽस्त्रबलं सहजं च बलं यो न वेद स कश्चिदपि नास्ति । सर्वप्रसिद्धबलद्वयबलवानित्यर्थः ॥ ५।४८।५ ॥

ममानुरूपं मत्सदृशम् । रणावमर्दे युद्धसङ्घर्षे । त्वां समासाद्य प्राप्य मे मनो जयविषये निश्चितार्थं सच्छ्रमं विषादं न गच्छति । त्वद्बलं स्मृत्वा श्वसिमीत्यर्थः ॥ ५।४८।६ ॥

प्रकृतमाह– निहता इति ॥ ५।४८।७ ॥

हे अरिनिषूदन त्वयि मे यः सार उत्कर्षबुद्धिः स तेषु नत्वेवेत्यन्वयः । यद्वा मे सारः सर्वजगज्जयसामर्थ्यं स त्वय्येव त्वत्साहाय्यनिमित्त एव, न तु तेषु । न तु तत्साहाय्यनिमित्तक इत्यर्थः ॥ ५।४८।८,९ ॥

गते युद्धाय निर्गते त्वयि संनिकृष्टे सति बलावमर्दैरनेकबलप्रमथनैर्हेतुभिः शान्तशत्रुरुपशान्तबलः शत्रुर्यथा शाम्यति क्षीणो भवति तथा ऽ ऽत्मबलं परबलं च समीक्ष्यारभस्व । “बलावमर्दैः” इति “शान्तशत्रुः” इति च पाठे इति कतकः । “बलावमर्द” इति “शान्तशत्रो” इति च पठित्वा हे ऽस्त्रभृतां वरिष्ठ त्वयि युद्धाय गते संनिकृष्टे हनूमत्समीपं प्राप्ते, बलावमर्दः सेनानाशो यथा शाम्यति न भवति तथा ऽ ऽरभस्वेत्यर्थ इति तीर्थः ॥ ५।४८।१० ॥

अथ तत्र सेनादिपरिग्रहो व्यर्थ इत्याह न वीरेति । हे वीर सेना न ग्राह्याः । यतस्ता गणशः शङ्घशः श्च्यवन्ति पलायन्ते नश्यन्ति च । तथा विशालसारमतितैण्यकाठिन्यवत्, अत एव वज्रं तत्तुल्यमायुधजालमादायापि न प्रयोजनं गणशः प्रयुक्तस्य तस्यापि प्रच्यवादेव । गणशो च्यवन्तीत्यत्रोत्वमार्षम् । कुतस्तत्राह– नेति । मरुतोपत्यस्य मारुतस्य गतेः सामर्थ्यस्य प्रमाणं परिच्छेद एतावद्बलं निग्रहीतुं शक्त इति परिच्छेदो नास्ति, अतो लोके निखिलमपि बलं तस्याकिञ्चित्करमित्यर्थः । किं चाग्निकल्पो ऽग्नितुल्यो ऽसौ करणेन शस्त्रादिरूपेण हन्तुं न शक्यः । “जयत्यतिबलो रामः” इत्येतद्घोषणसमये । “हनूमाञ्छत्रुसैन्यानां निहन्ता मारुतात्मजः” इत्युक्तेरिह रावणस्य मारुतस्येत्युक्तिर्नासमञ्जसा । पराकमातिशयदर्शनादुत्प्रेक्षामात्रेण तु किञ्चिद्भूतमिति प्रागुक्तम् । केचित्तु गणाञ्शोचयतीति गणशोग्घनूमांस्तस्मिन्सेना नावन्ति, ततो न रक्षन्तीत्यर्थं इति वदन्ति, तत्रावतेस्त्रायतिसमानार्थत्वात्पञ्चमीप्राप्तौ सप्तम्यार्षी । तवोत्ववत् । एवं विशालसारमित्यत्र विश अलसारमिति च्छेदं कुर्वन्ति, अलसारं कुण्ठसारं वज्रं तत्तुल्यमप्यायुधमादाय न विशरणं न प्रविशेति च व्याचक्षते अलतेर्धातोः पर्याप्त्यर्थत्वेन पर्याप्तसारमिति व्याख्यातुं योग्यम् । कुण्ठेत्यर्थस्य ततो ऽलाभात् ॥ ५।४८।११ ॥

किं बलावष्टम्भेन गन्तव्यमिति शङ्कायां तत्सविशेषमुपदिशति– तमिति । तं मदुक्तमर्थमेवमेव प्रसमीक्ष्यैवमेव तत्त्वमिति निश्चित्य, स्वकर्मसाम्यात्स्वेनैव कर्मणः प्रकृतकार्यस्य साम्यात्सिद्धेः संपादनीयत्वात्त्वं समाहितात्मा समाहितचित्तो भूत्वा ऽस्य विषये दिव्यं धनुषो वीर्यं दिव्यास्त्रमोक्षसामर्थ्यं स्मरन्निश्चिन्वन्व्रज, गत्वा चाक्षतं परकीयप्रहारहीनं यथा भवति तथा शत्रुपराभवकर्मारभस्व ॥ ५।४८।१२ ॥

हे मतिश्रेष्ठ प्रशस्तबुद्धे अहं त्वामतिप्रियं पुत्रमीदृशे सङ्कटे प्रेषयामि इयं प्रेषणा नोचिता खलु, अथापीयं मती राजधर्माणामस्माकं तथा क्षत्रस्य क्षत्रियस्य च मतैव शास्त्रतः संमतैव ॥ ५।४८।१३ ॥

अथ राज्ञः क्षत्रियस्य च कृत्यमाह नानेति । नानाशास्त्रेषु धर्मार्थनीत्यदिशास्त्रेषु सङ्ग्रामे च वैशारद्यम् । संपाद्यमिति शेषः । यस्य रणे विजयः काम्यो भवति तेनोक्तं नानाशास्त्रमवश्यं बोद्धव्यमेवेत्यर्थः । यद्वा परस्य नानाशास्त्रेषु यद्वैशारद्यमस्ति तद्योद्धावश्यमेव बोद्धव्यम्, बुद्धापि रणे स्वस्य विजयः प्रार्थ्य एवाहं जेष्याम्येवेति बुद्ध्या युद्धमारभ्यमेव, न तु तादृशशत्रोरपि निवर्तितव्यमित्यर्थः । केचित्तु– “नानाशास्त्रैः” इति “योद्धव्यम्” इति च पठित्वा नानाशास्त्रकरणकसङ्ग्रामे वैशारद्यं सामर्थ्यं तवास्ति, अतस्त्वया ऽवश्यं योद्धव्यमेव, रणे जयश्च प्रार्थनीय एवेति व्याचक्षते ॥ ५।४८।१४ ॥

दक्षसुता देवाः । प्रदक्षिणं चकार । भर्तारं राजानं रावणम् । रणायातित्वरेणातित्वरया गन्तुं कृतबुद्धिः ॥ ५।४८।१५ ॥

स्वगणैरन्यैः सभास्थै राक्षसैः । युद्धे उद्धतश्चासौ कृतोत्साहश्च संप्रपद्यत संप्रापद्यत ॥ ५।४८।१६ ॥

पर्वणीति । वर्धमान इति शेषः ॥ ५।४८।१७ ॥

पक्षिराजोपमैरन्योन्यतुल्यवेगैश्च । व्यालैः सर्पैः ॥ ५।४८।१८२० ॥

शितशल्यांस्तीक्ष्णाग्रान् ॥ ५।४८।२१ ॥

संयति तद्विषये जातहर्षे । दिशश्चेत्युत्पातवर्णनम् रौद्रा मृगाः क्रोष्टृप्रभृतयः ॥ ५।४८।२२ ॥

चक्रचरा ग्रहाः परमप्रहृष्टा विनेदुरिति शुभनिमित्तम् ॥ ५।४८।२३ ॥

इन्द्रध्वजमिन्द्राकारचिह्नवद्धजम् ॥ ५।४८।२४ ॥

तडिदूर्जितनिःस्वनं तडिन्निभमूर्जितस्वनं च ॥ ५।४८।२५,२६ ॥

व्यहनद्वञ्चितवान् ॥ ५।४८।२७ ॥

सुपत्रिणः कङ्कादिपक्षयुक्तान् सुसन्ततानविरतान् ॥ ५।४८।२८,२९ ॥

अभिलक्ष्यस्याभिमतलक्ष्यस्य लक्ष्यसङ्ग्रहम् लक्ष्यत्वेन सङ्ग्रहणम् मोक्षयन्मोघीकुर्वन् व्यर्थीकुर्वन्निति यावत् । शराणामन्तरेषु व्यावर्तत परिवर्तते स्मेत्यर्थः ॥ ५।४८।३० ॥

अभिवर्तताभ्यवर्तत ततः शरमोक्षसमये पुनरुत्पपात ॥ ५।४८।३१,३२ ॥

निर्विषहौ दुःसहवेगौ ॥ ५।४८।३३ ॥

अमोघेषु शरेषु संपतत्स्वपि लक्ष्ये लक्ष्यभूते हनूमति विहन्यमाने शरेभ्यः स्वयमेवमुच्यमाने शरैरभिद्यमाने सतीत्यर्थः । हन्तेर्गत्यर्थात्कर्मकर्तरि शानच् । समाधिसंयोगेन ध्यानकारणेन तत्स्वरूपज्ञानाय समाहितात्मैकाग्रचित्तः ॥ ५।४८।३४ ॥

ततो ध्यानानन्तरमवध्यो ऽयमिति ध्यानेन ज्ञात्वा निग्रहार्थं बन्धनार्थं बन्धनमुद्दिश्य कथं निगच्छेत्कथं निश्चेष्टो भवेदिति मतिं विचारं चकार ॥ ५।४८।३५,३६ ॥

ब्रह्मास्त्रेणाप्यवध्यतां ज्ञात्वा तदस्त्रेण तं निजग्राह बबन्ध ॥ ५।४८।३७,३८ ॥

स हनुमान्स्वस्य तदस्त्रबन्धं ब्रह्मास्त्रबन्धं कृतं बुद्धापि प्रभोर्ब्रह्मणः प्रभावाद्वरदानाद्विगताल्पवेगो विगतो ऽप्राप्तो ऽल्पो ऽपि वेगः पीडा येन तादृशः अभीतचित्त इति यावत् । आत्मनः पितामहानुग्रहं मुहूर्तमात्रेण मदस्त्रनिरोधमुक्तिरित्येवंरूपम् ॥ ५।४८।३९ ॥

उक्तमेवार्थं स्पष्टयति– तत इति । स्वायंभुवैः स्वयंभूदैवत्यैरनेकविधैर्मन्त्रैरभिमन्त्रितं तत्सिद्धं भवति तादृशं ब्रह्मास्त्रं तत्कृतनिरोधं बुद्धा पितामहाल्लब्धं वररूपं दानं प्रागुक्तरूपं चिन्तयामास ॥ ५।४८।४० ॥

लोकगुरोः प्रभावान्मे हनूमतो ऽस्यास्त्रबन्धस्य विमोक्षणे शक्तिर्नास्तीत्येवं ध्यानेन ज्ञात्वा, एवमनुभूयमानप्रकारेण ममानेन विहित आत्मयोनेरस्त्रबन्धो मयानुवर्तितव्य एव मुहूर्तमात्रं सोढव्य एव ॥ ५।४८।४१ ॥

विमोक्षशक्तिं मुहूर्तानन्तरभाविनीं तां चिन्तयित्वा मुहूर्तमात्रं पितामहाज्ञामनुवर्तते स्म ॥ ५।४८।४२ ॥

भयं न जायते । तत्र हेतुः– पितामहेत्यादि । आदित्यग्रासप्रवृत्तिसमय एव त्रयानुग्रहः प्रागुक्तः ॥ ५।४८।४३ ॥

मे महद्गुणदर्शनमस्तीति शेषः । राक्षसेन्द्रेण संवाद इति ॥ ५।४८।४४ ॥

निश्चितार्थः उक्तरीत्येति भावः । समीक्ष्यकारी विचारपूर्वकं कार्यकर्ता । अभिगतैरभिसृत्य गतैः परैः प्रसह्य बलाद्गृहीत्वा परिभर्त्स्यमानः सन्ननाद । पीडित इवेति भावः ॥ ५।४८।४५ ॥

शणवल्कैस्तज्जन्यरज्जुभिः सहितै रज्जुरूपेण कृतैर्द्रुमचीरैर्द्रुमवल्कलैः ॥ ५।४८।४६ ॥

कौतूहलान्मां द्रष्टुं व्यवस्येदिति निश्चितार्थो निश्चितकार्यतत्त्वः सन्स्वस्य तत्संभाषणापेक्षित्वाद्बन्धादिकं रोचयमास ॥ ५।४८।४७ ॥

अस्त्रबन्धमोक्षो ऽपि तदैवाजायत इत्याह– स इति । वल्केन वल्कलेन तज्जन्यरज्ज्वैव बद्धः । अस्त्रेण तु विमुक्तः । कुतस्तत्राह अस्त्रबन्धो मन्त्रबन्धो ऽन्यं बन्धं नानुवर्तते इतरबन्धेन सह न तिष्ठति तस्मिन्सति मन्त्रबन्धो नश्यतीत्यर्थः ॥ ५।४८।४८ ॥

इममर्थमिन्द्रजिदपि ज्ञातवानित्याह– अथेति । अस्त्रेण विमुक्तं विचार्य ज्ञात्वान्येन बद्धो ऽपि हनूमानस्त्रमनुवर्तते ऽस्त्रेण बद्ध इव वर्तत इत्यपि विचार्य चिन्तां जगामेति संबन्धः । “नान्येन बन्धे ह्यनुवर्तते ऽस्त्रम्” इति पाठे चिन्तास्वरूपमिदम् । राक्षसैः स्वकृतबन्धनवशात्खेदं जगामेत्यर्थः ॥ ५।४८।४९ ॥

चिन्तामाह– अहो इति । पाठान्तरे चिन्तान्तरमिदम् । मया कृतं महत्कर्म निरर्थं कृतं राक्षसैः, यतस्तैर्मन्त्रगतिर्न विमृष्टा न विचारिता । अन्यबन्धे मन्त्रबन्धो नश्यतीति न ज्ञातमित्यर्थः । पुनरस्त्रं तदेव प्रयोज्यं तत्राह अस्त्रे ब्राह्मे विहते पुनरन्यदस्त्रं तदस्त्रप्रयोगान्तरं न प्रवर्तते, अतः सर्वे वयं संशयिताः संशयितजया एव । मुक्तो ऽयं सर्वानपि हन्यादिति भावः ॥ ५।४८।५० ॥

अस्त्रविमोक्षं राहुमोक्षवदपरोक्षतया ज्ञातवानपि हनूमान्न तथा ज्ञापयतीत्याह– अस्त्रेणेति । अवबुध्यते अन्तर्भावितण्यर्थतया नावबोधयति स्म अस्त्रमोक्षं न प्रकाशयति स्मेत्यर्थः । तैर्बन्धैर्लौकिकबन्धैः, अत एव कृष्यमाणत्वादिगुणको राक्षसेन्द्रसमीपं प्राकृष्यत ॥ ५।४८।५१५४ ॥

कस्य सुत इति शेषः । को ऽभ्युपाश्रयः कस्याश्रयेणैवं निर्भय इत्यर्थः ॥ ५।४८।५५ ॥

यत्र रावणः स्थितस्तत्रत्या राक्षसा एवमब्रुवन्नित्यर्थः ॥ ५।४८।५६ ॥

परिचारवृद्धान् वृद्धान्परिचारकानित्यर्थः ॥ ५।४८।५७५९ ॥

वक्ष्यमाणसङ्क्षेपः– अथेति । मन्त्रीन् मन्त्रिण इत्यर्थः ॥ ५।४८।६० ॥

कार्यं कर्तव्यमर्थस्तत्प्रयोजनं च । समाहारद्वन्द्वः अर्थस्य मूलमुक्तप्रयोजनप्रवर्तकम् । उत्तराशयस्तु दूत्यं कृत्यम्, प्रेरकः सुग्रीव इति ॥ ५।४८।६१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ५।४८ ॥