प्रमापितान्मारितान् । समरोद्धतोन्मुखं समारोद्धतश्चासौ समरायोन्मुखश्च तमक्षं समक्षमवस्थितमक्षाख्यं कुमारं निशम्य दृष्ट्वा प्रसमैक्षत । दृष्ट्या युद्धार्थमाज्ञापयामासेत्यर्थः ॥ ५।४७।१ ॥
तदेवाह– स इति । सदसि यज्ञशालायां द्विजातिमुख्यैर्हविषोदीरितः प्रेरितः पावक इव समुत्पपात ॥ ५।४७।२ ॥
महान्स इत्यन्वयः । जाम्बूनदजालेन तत्समूहेन सन्ततं व्याप्तम् ॥ ५।४७।३ ॥
उक्तमेवार्थं विशिष्याह– तत इति । तपःसङ्ग्रहस्य तपोनुष्ठानस्य सञ्चयेन समृद्ध्या ऽर्जितम् ॥ ५।४७।४ ॥
अत एव व्योमचरमसङ्गचारिणम् पर्वतादिष्वपीति भावः । समाहितं सज्जम् । तूण इषुधिः । अष्टसु दिक्ष्वसिभिः सह निबद्धा बन्धुरा रथफलका यस्मिंस्तम् । यथाक्रमं यथास्थानमावेशितं शक्तितोमरं यस्मिंस्तम् ॥ ५।४७।५ ॥
प्रतिपूर्णवस्तुना युद्धपरिकरवस्तुना । शशिसूर्यवर्चसा तद्रश्मिवर्चसा । हेमदामसहितेन वस्तुना विराजमानम् ॥ ५।४७।६ ॥
तोरणस्थितं तोरणाश्रयम् आसीनमुपविष्टम् ॥ ५।४७।७ ॥
हरीक्षणः सिंहवत्क्रूरदृष्टिः । युगान्तकालाग्निवत्प्रजाश्रये ऽवस्थितं हरिं समासाद्य तमेवैक्षत विस्मितं च तं जातसंभ्रमं च बालो ऽयं मां योद्धुमिच्छतीति विस्मयः रावणपुत्रत्वाच्च तत्र जातादरत्वम् ॥ ५।४७।८ ॥
अभिवर्धत तेजसा ऽभ्यवर्धतेत्यर्थः ॥ ५।४७।९ ॥
स्थिरः स्थितः सः प्रसमीक्ष्य विक्रमं सन्दर्शनीयपराक्रमम् । संयति रणे दुःखं निवारणं यस्य तं त्रिभिः शरैः प्रचोदयामास युद्धाय प्रेरयामास ॥ ५।४७।१०,११ ॥
निष्कमुरोभूषणम् । आशुपराक्रमः । तीक्ष्णपौरुष इति यावत् । समागमो युद्धम् । संभ्रमप्रदो भयप्रदः ॥ ५।४७।१२ ॥
भूमिर्भूमिस्थप्राणिजातं ररास । वीर्यप्रवृत्तं संयुगम् । वीक्ष्येति शेषः ॥ ५।४७।१३ ॥
समाधिर्लक्ष्यदर्शनम्, संयोगः शरसन्धानम्, विमोक्षः संहितस्य त्यागः, तेषां तत्त्ववीत् । अताडयदपातयत् ॥ ५।४७।१४ ॥
असृग्दिग्धश्चासौ विवृत्तनेत्रश्च । “विवृत्तलोचनः” इति पाठे अवसरोचितचक्षुरित्यर्थः । नवोदितादित्यसंनिभः । रक्तवर्ण इत्यर्थः । शरांशुमान्स्वमस्तकस्थशररूपांशुमान् । अंशुमालाधृत्सूर्य इव व्यराजत ॥ ५।४७।१५ ॥
आपूर्यत व्यवर्धत ॥ ५।४७।१६ ॥
मन्दराग्रस्थत्वेन मध्यन्दिनस्थत्वं लक्ष्यते ॥ ५।४७।१७ ॥
बाणासनमेव शक्रकार्मुकं यस्य सः ॥ ५।४७।१८ ॥
तेजआदि सायकान्ताः प्रवृद्धा यस्य ॥ ५।४७।१९ ॥
तृणैरावृतं महाकूपं गजपातनार्थकृतगर्तम् ॥ ५।४७।२० ॥
घननादनिःस्वनो मेघशब्दसदृशशब्दः । समुत्सहेन समुत्साहेन ह्रस्व आर्षः । भुजयोरूर्वोर्विक्षेपणेन घोरं दर्शनं यस्य सः ॥ ५।४७।२१ ॥
समभिद्रवदभ्यद्रवत् ॥ ५।४७।२२ ॥
शरान्विमोक्षयन्व्यर्थीकुर्वन् । तदुपायः– शरान्तर इति ॥ ५।४७।२३,२४ ॥
एवं शरान्व्यर्थीकुर्वतो ऽपि भूजान्तरभेदरूपकर्मविशेषतत्त्वज्ञः पराक्रमविशेषेण चिन्तयामास ॥ ५।४७।२५ ॥
चिन्ताप्रकारः– अबालवदिति । सर्वाहवकर्मशालिनः सर्वप्रकाराहवकर्मशालिनः । अत्रास्मिन्काले ऽस्य प्रमापणे मे मतिर्न जायते । “प्रमापणे मारुतिरत्र जायते” इति पाठे “अयं जनः” इतिवत्स्वस्यैव हनुमता मारुतिरिति निर्देशः ॥ ५।४७।२६ ॥
समाहितो ऽवहितः । अतिसहो ऽतिरणक्लेशसहः । कर्मगुणोदयाद्रणकर्मणो गुणोदयोत्कर्षस्य दर्शनाद्धेतोः पूजित इत्यर्थः ॥ ५।४७।२७ ॥
पराक्रमविषयोत्साहेन विवृद्धं मानसं यस्य तादृशः सन्मां समीक्षते, न तु कातर्येणेत्यर्थः । प्रमुखो वीरमुख्यः ॥ ५।४७।२८ ॥
उपेक्षितो ऽयं न नाभिभवेत् । अभिभवेदेवेत्यर्थः । स्वकर्मयोगं स्वस्य कर्मणि योगं ज्ञानबलविशेषावस्थानलक्षणमुपायम् ॥ ५।४७।२९,३० ॥
विवर्तने नानाविधमण्डलगमने । समाहिताञ्शिक्षितान्वायुसेविते पथि स्थितः स्थितांश्च ॥ ५।४७।३१ ॥
नीडं रथ्यधिष्ठानस्थानम् ॥ ५।४७।३२ ॥
मरुतामालयं स्वर्गमुत्पतन्नृषिरिव ॥ ५।४७।३३ ॥
पतत्त्रीति । गरुडवायुसिद्धसेविते तं समेत्य तं पादयोर्जग्राहेत्यन्वयः ॥ ५।४७।३४ ॥
समाविद्ध्य भ्रामयित्वा । गृह्य इव । असन्धिल्यपावार्षौ । गृहीत्वेवेत्यर्थः ॥ ५।४७।३५,३६ ॥
चक्रचरैर्ज्योतिश्चक्रचरैर्ग्रहादिभिः समेत्य समागतैर्जातविस्मयैर्निरीक्षित इत्यन्वयः ॥ ५।४७।३७ ॥
वज्रिसुतोपमं जयन्ततुल्यम् । कृतक्षणः पुनर्युद्धे कृतोत्साहः ॥ ५।४७।३८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ५।४७ ॥