संवृताकारो निगृहीतान्तर्गतभयः । उत्तमां मतिं धैर्यविषयाम् ॥ ५।४६।१,२ ॥
हनूमद्ग्रहणे सन्दिदेश । व्यग्रान्सर्वत्र कार्ये त्वरावतः ॥ ५।४६।३ ॥
यात गच्छत ॥ ५।४६।४ ॥
यत्तैः सावसानैः । किं चात्र देशकालविरोधि कर्म न कार्यमित्याह– देशकालाविरोधितं तदविरुद्धम् । तदुचितमिति यावत् । समाधेयं कार्यम् ॥ ५।४६।५ ॥
यत्तैर्भाव्यमित्यत्र हेतुमाह– नहीति । तस्य कर्मणां तं प्रति तर्कयंस्तं कपिं न मन्ये । किं तर्हि मन्यसे तत्राह– सर्वथेति ॥ ५।४६।६,७ ॥
महतो भूतस्येह कः प्रसङ्गस्तत्राह– भवेदिति । सनागेति नागादिसहिता देवादय इत्यर्थः ॥ ५।४६।८ ॥
प्रहितैः सर्वैर्युष्माभिः सह मया विनिर्जिताः, अतस्तैरवश्यं नो ऽस्माकं किञ्चिद्व्यलीकमप्रियं विधातव्यं विधातुं प्राप्तकालम् ॥ ५।४६।९ ॥
तस्मात्तदेव तत्सृष्टभूतमेव परिगृह्यतां बद्ध्वानीयताम् ॥ ५।४६।१० ॥
सवाजिरथेत्यादिपुनर्वचनं स्थैर्यार्थम् ॥ ५।४६।११ ॥
सर्वथा महद्भूतमित्यत्र हेतुं निश्चायकमाह– दृष्टा इति ॥ ५।४६।१२ ॥
ननु त्वद्दृष्टान्यतम एवायम्, नेत्याह– नैवेति । यथास्य भीमा गतिः समुद्रप्लवनरूपा तथा तेषां नैव । यथा चास्य तेजआदि तथा तेषां न ॥ ५।४६।१३ ॥
रूपपरिकल्पनं यथेप्सितरूपपरिग्रहः ॥ ५।४६।१४ ॥
प्रयत्नमित्यार्षं क्लीबत्वम् । कामम् । यद्यपीत्यर्थः ॥ ५।४६।१५ ॥
नयज्ञेन नीतिज्ञेन । आत्मा स्वदेहः । युद्धसिद्धिर्युद्धे जयः ॥ ५।४६।१६१९ ॥
सत्त्वं चित्तम् ॥ ५।४६।२० ॥
दिक्षु सर्वास्ववस्थिताः । द्राक्तत्समीपमागन्तुं चकिता इति भावः ॥ ५।४६।२१ ॥
तीक्ष्णा मर्मच्छिदः, पीतमुखाः फलभागे स्वर्णरूषिताः । उत्पलपत्राभा एव, न तु तत्पीडार्हा इत्यर्थः ॥ ५।४६।२२ ॥
स्वयं नदन् । तेन नादेन दिशो नादयन्नित्यर्थः । उत्पपात तोरणादिति शेषः ॥ ५।४६।२३ ॥
अभिपेदे प्राप्तः ॥ ५।४६।२४ ॥
कपिर्व्योम्नि स्थित्वा तं स्वनादेन हुङ्कारादिरूपेण वारयामासापयोदान्ते जलदातृवर्षाकालान्ते ॥ ५।४६।२५,२६ ॥
रथे निपपातेत्यन्वयः ॥ ५।४६।२७२९ ॥
ताभ्यां कर्तृभ्यां मुद्गराभ्यां करणाभ्यामभिहतः ॥ ५।४६।३० ॥
निहत्य वज्रवक्षस्त्वाद्व्यर्थीकृत्य ॥ ५।४६।३१३३ ॥
एकतो ऽवस्थितावित्यन्वयः । परस्परसाहाय्यबुद्ध्यैकदेशे स्थितावित्यर्थः ॥ ५।४६।३४,३५ ॥
विक्षतैर्गात्रैरुपलक्षितः ॥ ५।४६।३६४० ॥
ध्वजिनीपतीन्सेनापतीन् । पिरगृह्याश्रित्य स्थित इति शेषः । कृतक्षणो लब्धावसरः ॥ ५।४६।४१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ५।४६ ॥