०४५ हनुमता प्रहस्तसुतवधः

सप्तार्चिवर्चसो ऽग्नितुल्यतेजसः । आर्षो रेफलोपः ॥ ५।४५।१ ॥

महद्बलं महती सेना परीवारो येषाम् । कृतास्त्रास्त्रेत्यार्षः सन्धिः । कृतास्त्राः शिक्षितास्त्रा अस्त्रविदां श्रेष्ठाः । परस्परजयैषिणो ऽहमहमिकया स्वस्वोत्कर्षापेक्षिणः ॥ ५।४५।२ ॥

ध्वजवद्भिर्विशिष्टध्वजदण्डयुक्तैः, पताकिभिः प्रशस्तपताकावद्भिर्महारथैर्निर्युयुरिति संबन्धः ॥ ५।४५।३,४ ॥

शोकसंभ्रान्ताः । निश्चितमरणबुद्ध्येति शेषः ॥ ५।४५।५ ॥

परस्परसङ्घर्षाः अहमेवाग्रे इति परस्परमभिमानात् । तोरणस्थमवस्थितम् । तत्र स्थितं निश्चलमित्यर्थः ॥ ५।४५।६ ॥

सृजन्तो विसृजन्तः ॥ ५।४५।७ ॥

संवृताकारः । अदृश्य इति यावत् ॥ ५।४५।८ ॥

वञ्चयामास स्वस्पर्शरहितांश्चकार । तत्रोपायः– आशुचर इति । स्थिरलक्ष्यं हि सुवेधं भवति । रथवेगांश्च वञ्चयामास ॥ ५।४५।९ ॥

“धनुर्मद्भिः” इति पाठे आर्ष रुत्वम् । धनुष्मद्भिरैन्द्रधनुर्युक्तैः ॥ ५।४५।१०१३ ॥

भयार्दितं सद्दश दिशो दुद्रावेति शेषः ॥ ५।४५।१४ ॥

नीडं रथस्थं रथ्याधिष्ठानस्थानम् ॥ ५।४५।१५ ॥

स्रवन्त्यो नद्यः । ननाद प्रतिध्वनिना रक्षोराक्षसीध्वनिना च ॥ ५।४५।१६,१७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ५।४५ ॥