अथ जम्बुमाल्यागमनं तद्वधश्च– सन्दिष्ट इति ॥ ५।४४।१,२ ॥
धनुर्विस्फारयाणो विस्फारयमाणः विस्फारो ज्याघोषः ॥ ५।४४।३ ॥
समपूर्यत दिगादिसमुदायापेक्षमेकवचनम् ॥ ५।४४।४ ॥
जहर्ष स्वबलानुरूपशत्रुप्राप्त्या ॥ ५।४४।५ ॥
तोरणविटङ्कस्तोरणस्तम्भयोरुपरितिर्यक्प्रतिष्ठापितकपोतपालिकादारु ॥ ५।४४।६ ॥
कर्ण्यङ्कुशाकाराग्रशरविशेषः ॥ ५।४४।७ ॥
अम्बुजं रक्ताम्बुजम् ॥ ५।४४।८ ॥
तत्तस्य रक्तम् । स्वत इति शेषः । रक्तेन क्षतजेन रञ्जितं मुखमाकाशे काञ्चनबिन्दुभी रक्ताशोकपुष्परसबिन्दुभिः सिक्तं महापद्मं महत्तरं रक्तपद्ममिवेत्यभूतोपमेयम् । अशोकः काञ्चनाह्वयः ॥ ५।४४।९,१० ॥
ताडयामास बिभेद ॥ ५।४४।११ ॥
विपन्नं व्यर्थीकृतम् ॥ ५।४४।१२१६ ॥
नाश्वा रथेन खरयुक्तेनेत्युक्तेरश्वशब्देनात्र स्वरा उच्यन्ते ॥ ५।४४।१७२० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ५।४४ ॥