०४३ हनुमता लङ्कादहनचिन्तनम्

अथ रावणसन्दिष्टसेनान्तरागमनात्पूर्वं तूष्णीं स्थित्वा न किञ्चित्प्रयोजनमिति विचार्य प्रासादभङ्गादि चिकीर्षति– तत इति । ध्यानं विचारः । चैत्यप्रासादो रक्षःकुलदेवताप्रासादः ॥ ५।४३।१ ॥

एवं प्रमदवनवत् ॥ ५।४३।२ ॥

प्रासादमुत्प्लुत्यारुरोह ॥ ५।४३।३,४ ॥

संप्रधृष्य भङ्क्त्वा । पारियात्रः पर्वतविशेषः । औन्नत्यं साधारणो धर्मः ॥ ५।४३।५ ॥

धृष्टं निर्भयम् ॥ ५।४३।६ ॥

विहङ्गाश्चैत्यपालाश्च मोहिताः पेतुः ॥ ५।४३।७१२ ॥

शतं ययुः । अनेके इत्यर्थः ॥ ५।४३।१३१५ ॥

परिक्षिप्येत्यंशे तोयस्यावर्त इवेति दृष्टान्तः ॥ ५।४३।१६ ॥

महान्मारुतात्मज इत्यन्वयः ॥ ५।४३।१७ ॥

उत्पाटयित्वा तं शतधारं स्तम्भं भ्रामयामास । तत्र च भ्राम्यमाणे स्तम्भान्तरेण घट्टनवशादग्निः समभवत्तेन प्रासादश्चाप्यदह्यत ॥ ५।४३।१८ ॥

ततः स राक्षसशतं हत्वा दह्यमानं प्रासादं दृष्ट्वा चान्तरिक्षे स्थित इदं वचो ऽब्रवीत् ॥ ५।४३।१९,२० ॥

एतदुक्तिप्रयोजनं च राक्षसहृदयपीडा ॥ ५।४३।२१,२२ ॥

ओघबला ओघसङ्ख्यातगजबलाः ॥ ५।४३।२३२५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ५।४३ ॥