तत इति ॥ ५।४२।१ ॥
प्रतिपेदिरे प्राप्तानि ॥ ५।४२।२ ॥
गतायां निद्रायाम् । वनभङ्गध्वनिनेत्यर्थः ॥ ५।४२।३,४ ॥
जनकात्मजां पप्रच्छुः । तस्या निर्निद्रतयावस्थानं मत्वेति भावः ॥ ५।४२।५ ॥
त्वयानेन कथं संवादः कृत इति च पप्रच्छुः । यद्यपि ता निद्रिता वनभङ्गध्वनिना जागरिता इति संवादज्ञानस्यैवाभावात्तत्कथं प्रश्नो निरवसरः, तथापि निद्रामध्ये किञ्चिज्जागरेणेषत्संवादश्रवणे ऽपि देवमायया पुनर्निद्रेति तत्प्रश्नोपपत्तिरित्याहुः । सीतायास्तद्दर्शने ऽपि निर्भयप्रसन्नमुखतयावस्थानदर्शनादयं कश्चिदेतत्परिचित एतद्वृत्तान्तज्ञानार्थमेव प्रायेणागत इति संभाव्यानया संवादकरणं च संभाव्य तत्प्रश्ननिर्वाह इति कतकः ॥ ५।४२।६ ॥
अथ विशिष्य संवादं पृच्छति– संवादमिति ॥ ५।४२।७ ॥
का गतिरुपायः ॥ ५।४२।८ ॥
युष्माकमेवैतत्स्वरूपाज्ञानमुचितमित्यत्र न्यायमाह– अहिरेवेति ॥ ५।४२।९,१० ॥
वैदेह्या वचनमज्ञानप्रतिपादकम् । अनेनात्मत्राणादौ मृषावादो न दोषायेति ध्वनितम् । काश्चिद्विद्रुताः, काश्चिद्दृढं स्थिता एव, काश्चिद्रावणाय निवेदितुं गताः ॥ ५।४२।११,१२ ॥
सीतया कृतसंवादत्वज्ञानं यथा तथोक्तम् ॥ ५।४२।१३ ॥
न निवेदयितुमिच्छति । प्रायेणेयं तं जानातीति तासामाशयः ॥ ५।४२।१४,१५ ॥
प्रमृष्टं नाशितम् ॥ ५।४२।१६ ॥
उद्देशः प्रदेशः ॥ ५।४२।१७ ॥
कः श्रम इति । महावनं भग्नवतस्तस्य श्रमो ऽसंभावित इत्यर्थः । अतः सा जानक्येव तेनाभिरक्षिता तदाश्रयवृक्षाभङ्गेनेति शेषः ॥ ५।४२।१८ ॥
तस्यैवार्थस्य स्थिरीकरणाय पुनः प्रतिपादनम्– चार्विति । तेनाभिरक्षितः । सीतारक्षणार्थमिति शेषः ॥ ५।४२।१९ ॥
आज्ञातुमाज्ञापयितुम् । सीता संभाषितेत्यनेन सापराधग्रहत्वं बोधितम् ॥ ५।४२।२० ॥
तद्भाषणस्यापराधत्वमुपपादयति– मन इति । त्यक्तजीवितस्त्यक्तजीविताशः । राजपरिग्रहभाषणं पुंसो ऽपराध इति भावः ॥ ५।४२।२१ ॥
संवर्तिते विवर्तिते ईक्षणे नेत्रे येन सः ॥ ५।४२।२२२४ ॥
अशीतेः साहस्रम् स्वार्थे ऽण् । कूटो ऽयस्कारः कूटसदृशाग्र आयुधविशेषः ॥ ५।४२।२५,२६ ॥
अवस्थितं युद्धाय संनद्धम् ॥ ५।४२।२७ ॥
काञ्चनाङ्गदैः काञ्चनपट्टबन्धैः ॥ ५।४२।२८,२९ ॥
क्षितावाविध्य । लाङ्गूलमिति स्वभावोक्तिरलङ्कारः ॥ ५।४२।३०,३१ ॥
अनुनादिना प्रतिध्वनिमता ॥ ५।४२।३२ ॥
जयति सर्वोत्कर्षेण वर्तते ॥ ५।४२।३३,३४ ॥
प्रतिबलं प्रतिस्पर्धार्हबलवत् ॥ ५।४२।३५ ॥
मिषतामित्यनादरे षष्ठी ॥ ५।४२।३६ ॥
संनादशब्देनास्फोटशब्दजप्रतिध्वनिना सिंहनादेन च ॥ ५।४२।३७ ॥
स्वामिनो रामस्य सन्देशेन नामग्रहणेन कस्यायं भट इति सन्देहरहिताः । किं च स्वामिसन्देशेन रावणाज्ञयातिघोरेणाप्यनेन योद्धव्यमेवेति निश्चयात्पक्षान्तरशङ्कारहिताः प्रहरणैरायुधैरभिपेतुः प्राहरन्नित्यर्थः ॥ ५।४२।३८ ॥
तोरणाश्रितं तोरणसमीपे स्थापितम् ॥ ५।४२।३९ ॥
स प्रसिद्धो विनतासुतः पन्नगमादायेव स हनूमांस्तं परिघमादायेति योजना ॥ ५।४२।४० ॥
परिगृह्य परिघमिति शेषः ॥ ५।४२।४१,४२ ॥
कतिचिद्धतावशेषा द्वित्राः ॥ ५।४२।४३ ॥
प्रहस्तपुत्रो जम्बुमाली ॥ ५।४२।४४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ ५।४२ ॥