०४१ हनुमता रावणदर्शनचिन्तनम्

तस्माद्देशादपाक्रम्य सीतासमीपात्किञ्चिद्दूरं गत्वा ॥ ५।४१।१ ॥

चिन्तयामासेत्युक्तां चिन्तां दर्शयति– अल्पशेषमिति । इयं सीता दृष्टेतीदं प्रधानकार्यं निष्पन्नमिति आनुषङ्गिकं परबलदर्शनमवशिष्टमित्यल्पशेषत्वम् । इह कार्ये परबलज्ञानलक्षणे त्रीनुपायान्सामादीनतिक्रम्य चतुर्थो दण्ड एव साधनत्वेन दृश्यते ॥ ५।४१।२ ॥

तत्र युक्तिमाह– नेति । ऋजुषु साम फलाय न शूरेषु तदाह– रक्षःस्विति । बलदर्पिता भेदसाध्या न । भेद उपायः । बलवन्तो हि कुतो ऽप्यनिष्टं न गणयन्तीत्यर्थः ॥ ५।४१।३ ॥

अस्य कार्यस्य परबलाशयपरिज्ञानरूपस्य सर्वातिशायिपराक्रमवतो मम पराजय एव नास्तीत्याशयेनाह– पराक्रमादृते इति । विनिश्चयो निश्चितोपायः । स्वबलप्रकाशने प्रयोजनान्तरमप्यस्तीत्याह– हतेति । अद्य हताः प्रवीराः श्रेष्ठा येषां ते राक्षसा यद्यस्मादिह भाविनि रणे मार्दवमेकेनैवैवं पराक्रमः कृतस्तादृशैरनेकैः कथमस्माकं जयाशेति रणप्रवृत्तिराहित्यं प्राप्नुयुः, अतः पराक्रमात्परबलस्य मनोभङ्गरूपं कार्यं सिद्ध्यतीत्याशयः ॥ ५।४१।४ ॥

ननु स्वामिसन्दिष्टकार्यातिरिक्तकार्यकरणे दोषः, स्वामिना हि “अभिगम्य तु वैदेहीं निलयं रावणस्य च इत्येतावदेव सन्दिष्टमित्याशङ्क्य सन्दिष्टकार्याविरोधेन स्वामिहितं कार्यान्तरसाधनं दूतस्यालङ्कार इत्याह– कार्ये इति । कार्ये प्रधानकार्ये निर्वृत्ते । स कार्यं कर्तुमर्हति, न तु सन्दिष्टमात्रस्य कथञ्चित्साधक इत्याशयः ॥ ५।४१।५ ॥

उक्तमेव विवृणोति– नहीति । यस्तु स्वल्पस्यापि कर्मणो ऽतिशयितयत्नेन सिद्धिहेतुर्भवत्यसावेको मुख्यः साधको हेतुर्न भवति, अपि तु यो ह्यर्थं प्रयोजनमल्पेन यत्नेन बहुधा कर्तुं वेद स एवार्थसाधने समर्थः ॥ ५।४१।६ ॥

तस्मादन्वदपि स्वाम्यभीष्टं कृत्वैव गन्तव्यमित्याह– इहैवेति । यद्यप्यहमिहैव सीतान्वेषण एव तावत्प्रथमं कृतनिश्चयः, तथापि यदि परात्मसंमर्दविशेषतत्त्ववित्परस्यात्मनः स्वस्य च संमर्दे युद्धे यो विशेषस्तत्तत्त्वविद्भूत्वा यदि प्लवगेश्वरालयं सुग्रीवालयं व्रजेयं ततस्तदा भर्तृशासनं सम्यक्कृतं स्यात् । अन्यथा राक्षसबलं कीदृशमिति पृष्टे निरुत्तरः स्यामिति भावः ॥ ५।४१।७ ॥

एवं निश्चितार्थो युद्धप्रवृत्तिप्रकारं चिन्तयति– कथं न्विति । अद्य खलु ममेहागतमागमनं सुखागतं सुखफलक्रमागमनं कथं भवेत्, तथा राक्षसैः सह प्रसह्य स्वयमेव बलात्कृत्य युद्धं च कथं मम भवेत्, तथा तथैव करणे सति सारवदूर्जितं स्वबलं मां च स दशाननः कथं मानयेच्छ्लाघयेत् । यद्वा तथैव युद्धकरणे खलु दशानन आत्मबलं मां च सारवत्समानयेत्सम्यक्परिच्छिन्द्यादित्यर्थेन युद्धफलमुक्तम् ॥ ५।४१।८ ॥

ततो मद्बलवशादेव मां रणे समासाद्य वर्तमानं सबलं सयायिनं ससारथिम् । अन्तर्भावितण्यर्थाद्यतिर्णिनौ यापयिता यायी सारथिस्तेन सहितं रावणं ज्ञात्वा हृदि स्थितं तस्य मतमभीष्टं बलं च सुखेनाक्लेशतो मत्वा ज्ञात्वा पुनरितो व्रजे व्रजिष्ये । “सबलं सयायिनम्” इति पाठः । “सबलं प्रयायिनम्” इत्याधुनिककल्पितः पाठः ॥ ५।४१।९ ॥

अथ प्रसह्य रणप्रवर्तनोपायं चिन्तयति– इदमिति । अस्येदं वनं नेत्रमनःक्रान्तं भवति, अत इदं विध्वंसयामि ॥ ५।४१।१०,११ ॥

समानेष्यति मां प्रति युद्धाय प्रापयिष्यति । महद्युद्धं मन्मनस्तोषकृत् ॥ ५।४१।१२ ॥

ततो हरीश्वरालयं गमिष्यामीति चिन्तयामासेत्यन्वयः ॥ ५।४१।१३ ॥

तत एवंनिश्चयानन्तरम् ॥ ५।४१।१४,१५ ॥

पर्वताग्रैः क्रीडापर्वताग्रैः । उपलक्षितमिति शेषः ॥ ५।४१।१६,१७ ॥

व्याकुलं स्रस्तमावरणं यासां ताः, अत एव विह्वलाः स्त्रिय इवा ता लता रेजुः ॥ ५।४१।१८ ॥

सादितैर्विशीर्णैः । व्यालैः शार्दूलैः ॥ ५।४१।१९ ॥

प्रमदावनस्यान्तःपुरविहारोचितवनस्य । “स्यादेतदेव प्रमदवनमन्तःपुरोचितम्” इत्यमरः । दशास्यस्य प्रमदानां स्त्रीणां कामसंवर्धनद्वारावनस्य रक्षकस्यास्य वनस्य सा विह्वलाशोकलताप्रताना चञ्चलाशोकलतासमूहवती, वनस्थली तृणगुल्मलताजलाशयादियुक्ता भूमिः । कपेर्बलाच्छोच्यत इति शोका शोच्यलताप्रताना जाता द्रष्टृचितशोकजनिका जातेत्यर्थः ॥ ५।४१।२० ॥

जगतीपते राज्ञो रावणस्य । व्यलीकमप्रियम् ॥ ५।४१।२१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥ ५।४१ ॥