आत्महितमात्मदुःखोद्धारप्रयोजनम् ॥ ५।४०।१ ॥
अर्धसञ्जातान्यर्धं वयःप्राप्तानि, ततः परं जलाभावादासन्नशोषाणि सस्यानि यस्याः सा यथा दैवात्संपन्नवृष्ट्या संपन्नसस्या भवति तथाहमपि प्राप्तजीवितनाशामृतोपमात्त्वदर्शनाद्धृतजीवितेति भावः ॥ ५।४०।२ ॥
सकामा तत्स्पर्शेच्छावती ॥ ५।४०।३ ॥
अभिज्ञानं चूडामण्यात्मकं दद्या देहि । तथा कोपात्काकस्यैकाक्षिशातनीमिषीकां क्षिप्त्वा काको रक्षित इत्यपरमभिज्ञानं दद्याः । श्रावयेत्यर्थः ॥ ५।४०।४ ॥
अथाभिज्ञानान्तरमाह सन्देशरूपेण– मनःशिलाया इति । पूर्वतने तिलके नष्टे सति त्वया रामेण मम गण्डपार्श्वे मनःशिलातिलको निवेशितः, तं किल । स्वकृततिलकमित्यर्थः । स्मर्तुमर्हसि । इति मयोक्तमिति ब्रूहीति शेषः ॥ ५।४०।५ ॥
अथ केवलसन्देशान्तरमाह स वीर्यवानिति । अनुमन्यसे । सहस इत्यर्थः ॥ ५।४०।६ ॥
दिव्य एष चूडामणिरेतावत्कालं सुपरिरक्षितः, एतं व्यसने त्वामिव दृष्ट्वा प्रहृष्यामि । एतत्संनिधाने रक्षोभिभवासंभवादिति भावः ॥ ५।४०।७ ॥
स एष निर्यातितो दत्तः । त्वत्प्रत्यभिज्ञानार्थमिति शेषः । अतः शीघ्रमागमने एव कुशलम्, अन्यथा परमं दुःखमिति भावः ॥ ५।४०।८ ॥
त्वत्कृते त्वत्प्राप्तिप्रत्याशया । मर्षयामि सहामि ॥ ५।४०।९,१० ॥
यतो ऽयं घोरस्तस्य दृष्टिश्च, चाद्बुद्धिः, न सुखा अवधिकालादूर्ध्वकृतविनाशनिश्चया, अतस्तत्पूर्वमेव मरणौचित्यादवधिकालस्याधिकत्वे ऽपि मासादूर्ध्वमेव न जीविष्यामि । किं च त्वां विषज्जन्तं विलम्बं कुर्वन्तं यदि शृणुयां तदा तथा श्रुत्वा मासादर्वागेव क्षणमपि न जीवेयमित्युक्तमिति ब्रूहीति शेषः ॥ ५।४०।११ ॥
वचनमुक्तसन्देशरूपम् ॥ ५।४०।१२ ॥
त्वच्छोकविमुखस्त्वत्स्थित्यपरिज्ञानजशाकेन त्वदुद्धारप्रवृत्तिविमुखः, न तु ज्ञात्वेति सत्येन ते शपे ॥ ५।४०।१३ ॥
कथञ्चिद्भवती दृष्टा, अतः परं शोचितुं न कालः । इमं मुहूर्तम् । अस्मिन्नचिरकाले इत्यर्थः ॥ ५।४०।१४१६ ॥
यत्त्वभिज्ञानं राम एव विशिष्य जानीयाद्यच्च तस्य प्रीतिसञ्जननं तद्भूयः पुनरधिकं च दातुमर्हसि ॥ ५।४०।१७,१८ ॥
श्रद्धेयं विश्वसनीयम् ॥ ५।४०।१९ ॥
उत्पाते उत्प्लवने कृतोत्साहम् ॥ ५।४०।२०,२१ ॥
अनामयमारोग्यम् ॥ ५।४०।२२ ॥
त्वं समाधातुमित्यस्य तथेत्यादिः । समाधानं संविधानम्, “अथापि स महाबाहुः” इति पाठे यथेत्यपि पूरणीयमेव । यद्यपि श्रुतवृत्तान्तः स्वयमेव यतिष्यति तथापि त्वमपि यथा मां शीघ्रं तारयसि तथा संविधानं कुर्वित्यर्थः ॥ ५।४०।२३,२४ ॥
तत्कार्यं लङ्कागमनप्रयोजनमल्यशेषम् । देवीदर्शनरूपस्य महतः प्रधानकृत्यस्य निष्पन्नत्वात्परबलदर्शनरूपस्यानुषङ्गिकत्वादल्पशेषत्वमित्याशयः ॥ ५।४०।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चत्वारिंशः सर्गः ॥ ५।४० ॥