रामस्याभिज्ञातम् रामेणाभिज्ञातमित्यर्थः ॥ ५।३९।१ ॥
त्रयाणां संस्मरिष्यति । कर्मणि शेषे षष्ठी । त्रीनाह जनन्या इति । अयं मणिर्विवाहकाले मज्जनन्या हस्तान्मत्पित्रादय दशरथहस्ते मम शिरोभूषणतया दत्त इति मम जनन्याश्च मत्पितुर्दशरथस्य चेति त्रयाणां स्मारक इति भावः ॥ ५।३९।२ ॥
स त्वमस्मिन्समुत्साहे भूयश्चोदितो भविष्यसि तदत्र कार्यसमुत्साहप्रचोदितः सन्यदुत्तरमुत्तरकर्तव्यं तच्चिन्तय ॥ ५।३९।३ ॥
मम का चिन्तने शक्तिरिति चेत्तत्राह– त्वमिति । निर्योगो निर्वाहः । यस्तस्य रामस्य यत्नो दुःखक्षयकरो भवेत्तं चिन्तय ॥ ५।३९।४ ॥
यत्नमास्थायेति यत्नं रामप्रवृत्त्यर्थमित्यर्थः ॥ ५।३९।५८ ॥
अम्बूनि संरुध्यन्ते यस्मिन्नित्यम्बुसंरोधः समुद्रः । दुःखरूपात्समुद्रादित्यर्थः । यथा तारयति तथा समाधातुं यत्नं कर्तुम् ॥ ५।३९।९ ॥
वाचा वाक्कृतसाहाय्येन ॥ ५।३९।१०,११ ॥
उक्तमेवादराय पुनराह– मत्सन्देशयुता इति ॥ ५।३९।१२१४ ॥
वमतः । बाणान्विसृजत इत्यर्थः ॥ ५।३९।१५ ॥
पर्जन्य इन्द्रः ॥ ५।३९।१६ ॥
महीं साधितुमर्हति । जेतुमुद्युङ्क्ते इत्यर्थः । किमर्थं तत्राह– त्वन्निमित्त इति । त्वत्प्राप्तिप्रयोजन इत्यर्थः ॥ ५।३९।१७,१८ ॥
भर्तृस्नेहान्वितं रामस्नेहान्वितम् । वाक्यं हनूमद्वाक्यं सौहार्दाद्रामप्रेम्णानुमानयदपूजयत् ॥ ५।३९।१९,२० ॥
मोक्षणं भवेत् । अद्य स्थित्वा श्वो गमने इति शेषः ॥ ५।३९।२१ ॥
ततो हीति । ततो ऽपीत्यर्थः । एकाहवासोत्तरं गमने ऽपि पुनरागमनाय तु सन्देह एव, तत्सन्देहे सति मम प्राणानामपि सन्देह एव ॥ ५।३९।२२ ॥
तदाह– तवेति । तथा च मज्जीवनमसंभावितमेव पुनरागमने इति भावः । दुःखाद्दुःखपरामृष्टामतिदुःखप्राप्ताम् । दीपने कर्ता शोकः ॥ ५।३९।२३ ॥
अयं सन्देहो ममाग्रतः पुरस्तादिव तिष्ठति । को ऽयं तत्राह त्वत्सहायेष्विति । साक्षात्साधकस्य तव सहायभूतेषु मिलितेषु हर्यृक्षेषु हरीश्वरः सुग्रीवः कथमुदधिं तरिष्यति सैन्यानि कथं तरिष्यन्ति तौ वा कथं तरिष्यत इत्यर्थः ॥ ५।३९।२४,२५ ॥
एवंसन्देहे बीजमाह त्रयाणामेवेति ॥ ५।३९।२६ ॥
किं समाधानं पश्यसि कं कार्यसिद्ध्युपायं पश्यसि ॥ ५।३९।२७ ॥
ननु किं तैरागतैरहमेव पर्याप्तो ऽस्य कार्यस्येत्यत्राह काममिति । त्वया कार्यसाधने तव यशस्यो यशस्करः फलोदयो जयरूपफलप्राप्तिर्भवति, न तु रामस्येत्यर्थः ॥ ५।३९।२८ ॥
किं तर्ह्युचितं तत्राह– बलैरिति । समग्रैर्बलैः सहागत्य रावणं संयुगे जित्वा विजयी सन्मां गृहीत्वा यायात्तत्तस्य रामस्य सदृशं भवेत् ॥ ५।३९।२९ ॥
आदरात्पुनराह बलैस्त्विति ॥ ५।३९।३० ॥
विक्रान्तं पराक्रमः ॥ ५।३९।३१ ॥
तदुक्तं सीतावाक्यम् । प्रश्रयः स्नेहः । शेषं शिष्टं प्रकृतोत्तरं वाक्यमब्रवीत् ॥ ५।३९।३२ ॥
तदेव वाक्यमाह देवीति ॥ ५।३९।३३,३४ ॥
कथमेष्यतीत्यत आह– तस्य विक्रमेति । मनःसङ्कल्पवदतिदूरपतनशीलाः ॥ ५।३९।३५ ॥
तदेव स्पष्टमाह येषामिति । न सज्जते न प्रतिबद्धा भवति ॥ ५।३९।३६ ॥
सागरैर्धराधरैश्च सहिता ॥ ५।३९।३७ ॥
प्रत्यवरो हीनबलपराक्रमः ॥ ५।३९।३८ ॥
एकोत्पातेनैकोत्प्लवनेन ॥ ५।३९।३९ ॥
ननु भवत्वेवं हरीणामागमनम्, राघवयोः कथं तत्राह ममेति । महासङ्घौ महासमुदाययुक्तौ ॥ ५।३९।४०४२ ॥
रघूणामानन्दजनकमपत्यम् ॥ ५।३९।४३ ॥
कालकाङ्क्षिणी दिवसगणनतत्परा ॥ ५।३९।४४४९ ॥
यूथान्यनेकशः द्रक्ष्यसीति शेषः ॥ ५।३९।५० ॥
रामस्य सर्वथा त्वत्प्राप्तिचिन्तैवास्ते इत्याह– स त्विति ॥ ५।३९।५१,५२ ॥
सौमित्रिणा समः कश्चित् । को ऽपि नास्तीति शेषः ॥ ५।३९।५३ ॥
मत्सङ्गमकालमात्रं मया रामस्य यः, सङ्गमस्तत्कालमात्रं क्षमस्व प्रतीक्षस्वेत्यर्थः ॥ ५।३९।५४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ५।३९ ॥