०३८ हनुमता सीताचूडामणियाचना

तेन वाक्येन सीतयोक्तेन वाक्येन ॥ ५।३८।१ ॥

स्त्रीस्वभावस्य भीरुत्वादेः साध्वीनां पतिव्रतानां विनयस्य वृत्तस्य सदृशं युक्तरूपमतिशयेन युक्तम् ॥ ५।३८।२ ॥

वचनस्य युक्तरूपतां प्राशस्त्यं दर्शयति स्त्रीत्वादिति । शतयोजनं सागरं व्यतिवर्तितुं तर्तुं विस्तीर्णमतिबृहच्छरीरमपि मामधिष्ठायेत्यन्वयः । “स्त्री त्वं न तु समर्थं हि” इति पाठे त्वं स्त्री न तु समर्थम् । न समर्थेत्यर्थः । लिङ्गव्यत्यय आर्ष इति तीर्थः । स्त्रीणां भीरुस्वभावत्वादिति भावः ॥ ५।३८।३,४ ॥

ईदृशं वचनं त्वया सह न यास्यामीत्येतद्धनम् । त्वद्भिन्नेदृश्यामापदीदृशं वचः का ब्रूयात् ॥ ५।३८।५ ॥

चेष्टितं व्यापारो विलापादिरूपः ॥ ५।३८।६ ॥

कारणैर्बहुभिरुपपन्नं यत्त्वया मदग्रतो भाषितं तद्रामाग्र उच्यमानगुणकेन मयेरितं काकुत्स्थो निरवशेषतः श्रोष्यत इत्यन्वय इति कतकः ॥ ५।३८।७ ॥

रामसमीपनयनोक्तौ हेतुमाह लङ्काया इति । रामेण पत्या लङ्काया दुष्प्रवेशत्वान्महोदधेर्दुस्तरत्वाच्चात्मनः सामर्थ्यसत्त्वाच्च ॥ ५।३८।८ ॥

इच्छामीत्यादिसमुदीरितं मयेति शेषः । रघुनन्दिना रघूंस्तद्वंश्यान्नन्दयति तेन रामेण समानेतुमित्यन्वयः । तदपि गुरो रामस्य स्नेहेन त्वयि भक्त्या चोक्तम्, न तु निजबलगर्वादित्यर्थः ॥ ५।३८।९ ॥

यदीति । उक्तरीत्यायुक्तत्वपर्यालोचनयेत्यर्थः ॥ ५।३८।१० ॥

एवमुक्ता प्रत्यभिज्ञां देहीत्युक्ता । मन्दमुपांशु । एकान्तवृत्तान्तस्मरणजो बाष्पः ॥ ५।३८।११ ॥

इदं रहस्यवृत्तान्तकथनरूपम् । रहस्यवृत्तान्तत्वादेवान्याज्ञातत्वेन श्रेष्ठम् । तदेवाह शौलस्येति । पूर्वोत्तरे ईशानदिक्स्थे पादे प्रत्यन्तपर्वतरूपे पदे स्थाने ॥ ५।३८।१२ ॥

मन्दाकिन्यविदूरतो मन्दाकिनीसमीपे । सिद्धाश्रिते बहुमूलादिमति देशे तापसाश्रमवासिन्या मम यद्वृत्तं तच्छ्रेष्ठमभिज्ञानं त्वं ब्रूया इति संबन्धः ॥ ५।३८।१३ ॥

समुपाविष्ठो ऽभूः ॥ ५।३८।१४ ॥

ततो ऽनन्तरं स त्वदनुभवसिद्धः समायुक्तो विकाराभियुक्तः सन्पर्यतुण्डयत् । स्तनान्तर इति शेषः । यद्वा मांससमायुक्तः मांसेच्छायुक्त इत्यर्थः ॥ ५।३८।१५ ॥

तत्रैव परिलीयते वार्यमाणो ऽपि न देशान्तरं गच्छति स्म, न च मांसान्मांसविदारणाद्भक्षार्थ्युपारमत् । यद्ययं वस्तुतो न मांसार्थीत्युच्यते तदेत्थं योज्यम् । स वायसो मांसाद्भक्षार्थीव इवाध्याहारः ल्यब्लोपं पञ्चमी मांसमुपगृह्य भक्षार्थीव । यद्वा मांसभोजने भक्षार्थीव पुगःपुनर्विलेखनान्न विरराम ॥ ५।३८।१६ ॥

अथ पक्षिणे क्रुद्धायां मयि रशनां वासोदार्ढ्यायोत्कर्षन्त्यां तदानीं वसने स्रंसमाने सति त्वयाहं स्रस्तवसना दृष्ट, ततस्त्वया विहसिता, तदा तत्परिहासकाले क्रुद्धा सम्यग्लज्जिता च । भक्ष्यगृद्धेन भक्ष्यलुब्धेनेव काकेन दारिता सती त्वामुपागता ॥ ५।३८।१७,१८ ॥

तदनन्तरं वायसापसारणेन श्रान्ताहमासीनस्य ते उत्सङ्गमाविशम् । ततः परिहासमात्रं कृत्वा तूष्णीं तिष्ठति भवति क्रुद्ध्यन्त्यहं प्रहृष्टेन त्वया परिसान्त्विता ॥ ५।३८।१९ ॥

अतएव बाष्पपरिपूर्णमुखी, चक्षुषी च मन्दं परिमार्जती हे नाथ, वायसेन प्रकोपितेति त्वया लक्षितास्मि ॥ ५।३८।२० ॥

अथ हे राघव, अहं तवाङ्के परिश्रमात्सुप्तास्मि भरताग्रज, त्वं च पर्यायेण ममाङ्के सुप्तः ॥ ५।३८।२१ ॥

स तत्रेति । त्वयि स्वपति मयि जाग्रत्यामित्यर्थः । सुप्तप्रबुद्धां राघवाङ्के सुप्त्वा ततः प्रबुद्धाम्, अतएव राघवाङ्कादुत्थितां वायसः पुनरागम्य स्तनान्तरे विरराद व्यलिखत् ॥ ५।३८।२२ ॥

एतदन्तमभिज्ञानवचनानुवादः । अथ हनूमते शेषवृत्तान्तकथनम्– तत इति । ततः पुनः पुनर्विलेखनाद्धेतोर्मुक्तैः शोणितबिन्दुभी रामः समुत्थितो ऽभूत् । सुखसुप्तो ऽपीति शेषः ॥ ५।३८।२३ ॥

तदा स्तनयोर्वितुन्नां मां दृष्ट्वा क्रुद्धः । अनेन पूर्वपर्याये केवलं रामः काकचेष्टाबुद्ध्या परिहासमेव कृतवानिति सूचितम् ॥ ५।३८।२४,२५ ॥

वीक्षमाणः । इतस्ततः प्रान्तदेशमित्यर्थः ॥ ५।३८।२६ ॥

देवि । को ऽसावेवंविधो वायस इति हनूमतः शङ्कायामाह– पुत्र इति । शक्रपुत्रो जयन्तः स तु वायसः वायसरूपधारीत्यर्थः । धरान्तरं गतो भूमिबिलं प्राप्तः । शीघ्रगतौ पवनस्य समः । धरान्तरचारित्वं तु पवनादस्य विशेषः । नहि वायुस्तत्सञ्चारीति कतकः ॥ ५।३८।२७ ॥

कोपेन संवर्तिते विवर्तिते ईक्षणे येन सः ॥ ५।३८।२८ ॥

दर्भसंस्तरात् । संस्तरणार्तगृहीतदर्भमुष्टेरेकमिति शेषः । योजयत् । ब्रह्मास्त्रेदेवतामन्त्रेणायोजयदित्यर्थः ॥ ५।३८।२९,३० ॥

विविधां गतिं जगामेत्येतद्विवृणोति– त्राणेति । इमं लोकं भूलोकादिसत्यलोकान्तम् ॥ ५।३८।३१ ॥

पित्रा परित्यक्तः । स्वर्गे ऽपीति शेषः । पित्रेत्युपलक्षणं ब्रह्मान्तानाम् ॥ ५।३८।३२ ॥

पर्यपालयत् । प्राणरक्षणेनेति शेषः ॥ ५।३८।३३ ॥

परिद्यूनं क्षीणशक्तिम् । ब्राह्ममस्त्रं मोघं कर्तुं न शक्यमतस्तदुच्यताम् तत्संहार्यं वस्तु भार्गववदुच्यतामित्यर्थः ॥ ५।३८।३४ ॥

स दक्षिणाक्ष्यस्य संहार्यं भवत्वित्युक्तः परिरक्षितः परिरक्षितवान् । आत्मानमिति शेषः ॥ ५।३८।३५ ॥

स जयन्तः ॥ ५।३८।३६ ॥

एवं हनूमते रामैकसंवेद्यमभिज्ञानमुक्त्वा सन्देशान्तरमाह मत्कृते इति । कस्मात्क्षमसे इत्यवान्तरवाक्यान्ते इत्युक्तवतीति ब्रूहीति वाक्यशेषो द्रष्टव्य इति

कतकः । बुद्धिस्थं राममेव सोपालम्भं संबोध्य प्रार्थयते इति तीर्थः । त्वत्तस्त्वत्सकाशाद्यो मा मामहरद्धृतवान् ॥ ५।३८।३७ ॥

मम महोत्साहरूपां मयि कृपां कुरु । त्वया नाथवत्यपि मल्लक्षणा नार्यनाथेव दृश्यत इत्यर्थः ॥ ५।३८।३८ ॥

आनृशंस्यं दया । न च शक्यो ऽयमर्थ इति चेत्तत्राह जानामीति ॥ ५।३८।३९ ॥

अपारवारं मर्यादारहितम् । देशकालादिपरिच्छेदहीनमित्यर्थः । जानामीत्यनुकर्षः ॥ ५।३८।४०,४१ ॥

अथ हनूमन्तं सामान्यतो रामवैभवमाह न नागा इति । प्रतिसमीहितुम् । प्रतिभटतया स्थित्वा निरोद्धुमित्यर्थः । “प्रतिसमाधितुम्” इति पाठान्तरम् । तत्रार्षत्वं शरणम् । उक्त एवार्थः ॥ ५।३८।४२ ॥

“मम संभ्रमः” इति पाठे मम प्राप्तये संभ्रम इत्यर्थः ॥ ५।३८।४३४७ ॥

कस्माद्राक्षसक्षयं न करोतीत्यस्योत्तरम्– त्वच्छोकेति । त्वद्वियोगजशोकेन सर्वकार्यविमुख इत्यर्थः ॥ ५।३८।४८ ॥

यतः कथञ्चिद्भवती दृष्टा, अत इमं मुहुर्तमारभ्य परिदेवितुं कालो न । कुतस्तत्राह– यतो दुःखानामन्तं द्रक्ष्यसि ॥ ५।३८।४९५१ ॥

नियोगसारं ब्रूहीत्याह– ब्रूहीति ॥ ५।३८।५२,५३ ॥

ममार्थे मत्प्रतिनिधित्वेनेत्यर्थः । लक्ष्मणः पूर्वं मारीचवधाय गते रामे तत्पृष्ठगमनाय सम्यक्कृतपारुष्य इति ज्ञात्वा तस्य विमोचनप्रवृत्त्युपेक्षा मा भूदिति विशिष्य कुशलप्रश्नं ब्रूहीत्याह– स्रजश्चेति । दुर्लभमित्यत्र त्यक्त्वेत्यनुकर्षः ॥ ५।३८।५४५७ ॥

समाचरत्पर्यचरत् । दुर्वाक्यैरतिपीडां प्रापितो वीरो मां ह्रियमाणां केनचिद्धरिष्यमाणाम् । वर्तमानसामीप्ये लट् । न वेद, यदि वेद मयि तथा प्रलपन्त्यामपि निकट एव तिष्ठेत्, अतो मद्दुरदृष्टवशान्नावेदीदित्यर्थः ॥ ५।३८।५८ ॥

शक्तः समर्थः न बहुभाषिता मितभाषीत्यर्थः । राजपुत्रस्य रामस्य प्रियेषु श्रेष्ठः अतिप्रिय इत्यर्थः ॥ ५।३८।५९ ॥

तदेवाह मत्त इति । मत्तो ऽपीत्यर्थः । यस्यां दुरि यत्र कार्ये ॥ ५।३८।६० ॥

वृत्तं प्रमीतम् । पितृवद्रक्षकत्वात्तत्स्मरणाभावः । अनुस्मरदन्वस्मरत् । ममार्थाय मत्प्रयोजनोन्मुखाय । मम वचनाद्वक्तव्यः सीता त्वां कुशलं पृच्छतीति वक्तव्य इत्यर्थः ॥ ५।३८।६१ ॥

हि निश्चये । यथा दुःखक्षयकरो भवेद्दुःखक्षयहेतुप्रवृत्तिपरो भवेत्तथा वाच्य इत्यर्थः ॥ ५।३८।६२ ॥

किं बहुनास्य कार्यस्य निर्वाहे त्वं प्रमाणम् । यथा कार्यनिर्वाहो भवति तथा कुर्वित्यर्थः । यत एवमतः राघव इति ॥ ५।३८।६३,६४ ॥

ऊर्ध्वं मासादिति । रावणदत्तावध्यविशिष्टं किञ्चिदधिकं मासद्वयमपि न सहिष्य इति भावः । तत्समाप्तौ त्वदनागमने ऽनार्यो ऽनार्यमेवाचरेत्, अतो ऽर्वागेव मरणं ज्याय इति शीघ्रमागमनायैवमुक्तिरिति बोध्यम् । निकृत्या राक्षसीकर्तृकनिग्रहेणोपरुद्धाम् । पातालादिव कौशिकीं पातालमग्रां भूवं भगवानिव त्रातुमर्हसि । गायत्र्याः साङ्ख्यायनगोत्रत्ववद्भूः कौशिकीति कतकः । कौशिकी देवेन्द्रश्रीः । पुरा किल वृत्रवधाभिभूतस्येन्द्रस्य लक्ष्मीं पातालं प्रविष्टां देवप्रार्थितो नारायण उद्धृत्य पुनरिन्द्राय प्रायच्छदिति पुराणगाथेति तीर्थः ॥ ५।३८।६५ ॥

चूडामणिं शिरोरत्नम् ॥ ५।३८।६६ ॥

अङ्गुल्या योजयामास दधार । चूडामण्यधिष्ठानहेमपुष्पस्य केशप्रवेशार्थं यद्रन्ध्रं तत्राङ्गुलिं प्रवेशयामासेत्यर्थः । ननु तदा सूक्ष्मरूपत्वात्तत्र भुजासञ्जनमेवोचितमत आह– नहीति । अस्य भुजः सूक्ष्मो ऽपि न प्राभवत् तद्रन्ध्रे न प्राविशदित्यर्थः । निषेधस्य प्रसक्तिमूलकत्वात्प्रसक्तेश्च सूक्ष्मरूप एव संभवात् पूर्वं देव्यै प्रदर्शितं महद्रूपं विहाय सूक्ष्मरूपेणैव स्थित इति गम्यत इति तीर्थः । कतकस्तु अङ्गुल्या योजयामास । सूक्ष्मवासोबद्धमङ्गुल्यां दृढं बबन्धेत्यर्थः । अस्य बन्धेन भुजो न प्राभवत्, व्यक्ततया सर्वानुभवप्रसङ्गाद्गोपनीयत्वाच्च भुजो नोचितो ऽभूदित्यर्थ इत्याह ॥ ५।३८।६७ ॥

पार्श्वतः स्थितः सीतासमीपे स्थितः ॥ ५।३८।६८,६९ ॥

महार्हं बहुमूल्यम् । प्रभावात्सामर्थ्यविशेषात् । राक्षसीभिर्यथा न ज्ञायते तथा धृतम् । गिरिवरपवनावधूतमुक्तः पर्वतश्रेष्ठोर्ध्वभागीयपवनकम्पितः, पश्चात्तेन कम्पेन मुक्तः, स इव सुखितमनाः । अयमपि पूर्वं सीताया अदर्शनेन दुःखवशात्कम्पितः, ततस्तद्दर्शनेन ततः कम्पान्मुक्तः, अतः सुखितमनाः प्रतिसङ्क्रमं लङ्कादुर्गप्राकारं प्राप्तुं प्रपेदे । यत्नमारभतेत्यर्थः ॥ ५।३८।७० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे ऽष्टात्रिंशः सर्गः ॥ ५।३८ ॥