चिन्तां चिन्तयित्वा चिन्तां कृत्वा कर्तव्यमर्थं निश्चित्येति यावत् । संश्रवे सम्यक्श्रवणयोग्ये समीपदेशे । यत्रोक्तं सीतैव शृणुयान्नान्य इत्यर्थः । व्याजहार वृत्तान्तमिति शेषः ॥ ५।३१।१,२ ॥
मुख्यस्य राजवंशेषु श्रेष्ठस्य । लक्ष्मिवर्धन इति ह्रस्व आर्षः ॥ ५।३१।३ ॥
पार्थिवव्यञ्जनैः छत्रचामरादिभिर्बाहैः सामुद्रिकोक्तैः शारीरैश्च राजचिह्नैर्युक्तः । सुखदो मित्राणाम् ॥ ५।३१।४६ ॥
सत्याभिसन्धस्य सत्यसङ्कल्पस्य ॥ ५।३१।७ ॥
मृगयामुद्दिश्य धावता ॥ ५।३१।८ ॥
जनस्थानवधं खरदूषणौ निहतौ च श्रुत्वा रावणेनामर्षापहृता वैरेणापहृता तु ॥ ५।३१।९ ॥
मायया मृगरूपेण मारीचेन करणेन । रामं वञ्चयित्वेत्यर्थः ॥ ५।३१।१०१३ ॥
तस्या हेतोस्तदन्वेषणहेतोः । यथारूपां यादृग्रूपां यादृग्वर्णां यादृक्चिह्नवतीं च । तां सीताम् ॥ ५।३१।१४ ॥
राघवस्य मुखादहमश्रौषं सेयमासादिता दृष्टा इहेति शेषः ॥ ५।३१।१५ ॥
केशसंवृतम् असंस्कारतः प्रकीर्णत्वात् ॥ ५।३१।१६१८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकत्रिंशः सर्गः ॥ ५।३१ ॥