विक्रान्तः शूरः । सीतायास्त्रिजटायाः [च] स्वप्नकथनमिति शेषः ॥ ५।३०।१ ॥
चिन्तां चिन्तयामास चिन्तां चकारेत्यर्थः ॥ ५।३०।२,३ ॥
चारेण चारात्मना प्रवर्तमानेन । इदं वक्ष्यमाणम् ॥ ५।३०।४ ॥
राक्षसानां विशेषः, तारतम्यमैश्वर्यादिकृतम् । अस्य रावणस्य प्रभावश्चावेक्षितः ॥ ५।३०।५ ॥
अप्रमेयस्यापरिच्छेद्यस्वरूपस्यापरिच्छेधगुणस्य च सर्वसत्त्वदयावतः सर्वं सत्त्वं बलं दया च यस्य सर्वसत्त्वेषु दयावत इति वा । दयावत्त्वादेव सीतार्थे त्रैलोक्यानाशनं रामस्य । समाश्वासयितुं । युक्तमिति शेषः ॥ ५।३०।६ ॥
आश्वासयामि वर्तमानसामीप्ये भविष्यति लट् । नहि नापि ॥ ५।३०।७ ॥
दोषवत्कार्यहानिदोषवत् ॥ ५।३०।८ ॥
तदेवाह– गते हीति । तत्र रामसमीपे ॥ ५।३०।९ ॥
आश्वासयितुं सीतासन्देशकथनेन तथेयमप्याश्वासयितुं न्याय्येति शेषः ॥ ५।३०।१० ॥
सीतासमाश्वासनं च कष्टम् इत्याह–
निशाचरीणामिति । तासां प्रत्यक्षं सीताया अभिभाषणम् अक्षमम् अयोग्यम्, अत इदं कार्यं कथं कर्तव्यमित्येवं कृच्छ्रगतो ऽहमस्मि ॥ ५।३०।११ ॥
कालविलम्बश्चाश्वासनस्यायुक्त इत्याह अनेनेति ॥ ५।३०।१२ ॥
संभाषणं चावश्यकमित्याह– रामस्त्विति । मामुद्दिश्य सीता किमब्रवीदिति
चेद्रामो मां पृच्छेदित्यन्वयः ॥ ५।३०।१३,१४ ॥
यद्येनामसंभाष्यैव भर्तारं स्वस्वामिनं सुग्रीवं रामकारणाद्यदि वोद्योजयिष्याम्युद्योगं कारयिष्यामि तर्हि तदागमनं व्यर्थं स्यात् । अनाश्वासितया सीतया ततः प्रागेव देहत्यागादिति भावः ॥ ५।३०।१५ ॥
अन्तरमवकाशं तासामनवधानसमयम् ॥ ५।३०।१६ ॥
तत्राश्वासनोपायं निश्चिनोति अहं हीति । अतितनुरतिसूक्ष्मवानरतनुरेव सन्मानुषीं मनुष्यशरीरसाध्यां संस्कृतां व्याकरणसंस्कारवतीम् ॥ ५।३०।१७ ॥
संस्कृत-कथने दोषम् आशङ्क्य - मनुष्य-भाषयैव व्यवहर्तव्यम् इति निश्चिनुते– यदीति ॥ ५।३०।१८ ॥
तद् एवाह अवश्यम् एवेति ॥ ५।३०।१९ ॥
अथ वृक्षान्तरितेनैवेयं मया वक्तव्येति निश्चयं कुर्वन् पुरतो गत्वा ऽभिभाषणे दोष-परम्पराम् उपन्यस्यति सेयम् इति । मे रूपं वानरीयं पुरतो दृष्ट्वा भाषितं च मानुषं श्रुत्वा विरुद्ध-व्यापार-दर्शनाद् रावणो ऽयम् इति मत्वा त्रासं गमिष्यति ॥ ५।३०।२० ॥
किं ततस्तत्राह– तो जातेति । शब्दमार्तशब्दम् ॥ ५।३०।२१ ॥
समेयान्मत्संमुखो गच्छेन्मिलितो भवेद्वा ॥ ५।३०।२२ ॥
संपरिक्षिप्य सर्वतश्चक्षुर्विक्षेपेण ज्ञात्वा ॥ ५।३०।२३ ॥
शाखाः परिधावन्तं मां दृष्ट्वेत्यन्वयः ॥ ५।३०।२४ ॥
ताभिरप्रधर्षणार्थं परिगृहीतं मम महद्रूपं संप्रेक्ष्य भयवित्रस्ता भयेन मद्दर्शनजशरीरकम्पादियुताः सत्यस्वस्तचित्ता विकृतस्वरा भवेयुः । न केवलमयं शाखामृगः, अपि तु कश्चन कामरूपी शत्रुपक्ष्य इति शङ्किताः स्युरित्यर्थः ॥ ५।३०।२५ ॥
ततः किं तत्राह– ततः कुर्युरिति । राक्षसेन्द्रनिवेशने रक्षणाय राक्षसेन्द्रेण नियुक्तानामाह्वानं कुर्युः ॥ ५।३०।२६ ॥
उद्वेगकारणात् । आसामुद्वेगरूपान्निमित्तादस्मिन्देशे वेगेन विमर्दे विमर्दायापतेयुरित्यर्थः ॥ ५।३०।२७ ॥
न शक्नुयाम् । युद्धश्रान्त्येति भावः ॥ ५।३०।२८ ॥
अगृहीतार्था मत्तो ऽज्ञातमदागमनप्रयोजना ॥ ५।३०।२९ ॥
इमां वेति । एतदर्थं किलायमागत इत्याशयेनेति शेषः ॥ ५।३०।३० ॥
कार्यविपदमेवोपपादयति उद्देशे समुल्लङ्घनप्राप्यदेशे । नष्टमार्गे प्रकारान्तरेणैतत्प्राप्तिसंपादकमार्गरहिते ॥ ५।३०।३१ ॥
विशस्ते हते ॥ ५।३०।३२,३३ ॥
न तु शक्ष्यामि । युद्धश्रान्त्येति भावः ॥ ५।३०।३४ ॥
किं च युद्धे जयो ऽपि सन्दिग्ध इत्याह असत्यानीति । अनिश्चितजयानि । संशयः संशयितजयफलकयुद्धव्यापारः । अरुचिहेतुप्राज्ञत्वमेव दर्शयति कश्चेति । निःसंशयं निर्णीतफलकम् । प्राज्ञो मादृशः ससंशयं संशयितफलकम् । न को ऽपीत्यर्थः ॥ ५।३०।३५ ॥
सीताभिभाषणे । पुरतः स्थित्वेति शेषः ॥ ५।३०।३६ ॥
भूताः सिद्धप्रायाः । भूता इत्यादिश्लोकावत्रैव काण्डे द्वितीयसर्गे व्याख्यातौ ॥ ५।३०।३७३९ ॥
शृणुयात् सीतेति शेषः ॥ ५।३०।४० ॥
सुबन्धुम् । सीताया इति शेषः । स चासौ बन्धुश्चेति तद्बन्धुः । तद्बन्धौ रामे गता चेतना चित्तं यस्याः सा ॥ ५।३०।४१ ॥
वचनानि समर्पयन्रागसन्देशवचनान्युच्चारयन् ॥ ५।३०।४२ ॥
यथेयं श्रद्धास्यति तथा सर्वं समादधे सम्यगभिधास्ये ॥ ५।३०।४३ ॥
जगतिपतेरिति ह्रस्व आर्षः ॥ ५।३०।४४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रिंशः सर्गः ॥ ५।३० ॥