तथेति । उपसेविनः सेवकास्त इव ॥ ५।२९।१ ॥
अरालया वक्रया पक्ष्मराज्या वृतम् । पक्ष्मणो ऽरालया वक्ररोमराज्या वृतमित्यर्थः । तथा कृष्णं कनीनिकामात्रे अन्यत्र विशालशुक्लत्वयुक्तम्, अभितस्ताम्रं प्रान्तरक्तम् एकं वामम् ॥ ५।२९।२ ॥
अध्युषितः कृतसंपर्कः ॥ ५।२९।३ ॥
संहतयोः श्लिष्टयोस्तयोरूर्वोर्मध्ये वाम ऊरुरित्यर्थः ॥ ५।२९।४ ॥
हेमरूषितत्वाद्धेमसमानवर्णम् । ईषद्रजोध्वस्तमिवेषन्मलिनमिव चिरमपरिवर्तनात् । शिखरं दाडिमबीजं तदग्रतुल्यदन्त्याः । “शिखरं शैलवृक्षाग्रे कक्षाग्रगृहकोटिषु । पक्वे दाडिमबीजे च” इति विश्वः । परिस्रंसत पर्यस्रंसतासनादधः पपात ॥ ५।२९।५ ॥
साधुसिद्धैः सम्यक्संबन्धिभिः । “संवादिभिः” इति पाठान्तरम् ॥ ५।२९।६ ॥
शोभने अक्षिणी भ्रुवौ केशान्ता अलकाश्च यत्र तत् सितशुक्लदंष्ट्रं स्फटिकादिसितपदार्थवच्छुक्ला दंष्ट्रा यत्र तत्संबद्धशुक्लदंष्ट्रावदिति च ॥ ५।२९।७ ॥
हर्षेण विबुद्धं सत्त्वं चित्तं यस्याः । वदनेन करणेन । शुक्ले शुक्लपक्षे ॥ ५।२९।८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥ ५।२९ ॥