०२८ सीतया रावणवाक्यमननम्

इत्युक्ता मरिष्य इत्युक्ताः । तदाख्यातुं मरणनिश्चयं कथयितुम् ॥ ५।२७।१ ॥

एकार्थम् वाक्यमिति शेषः । अनर्थार्थं स्वेषामनर्थमात्रप्रयोजनकम् ॥ ५।२७।२ ॥

तदेव वाक्यमाह– अद्येदानीमिति । अद्य दिने इदानीमस्मिन्क्षणे पापनिश्चये कृतमरणनिश्चये ऽस्मासु रक्षिकास्विदानीं तदसंभवान्मासं मासमात्रम् । इदमवधिकालोपलक्षणम् । भयातिशयार्थमेवमुक्तिः । यथासुखं स्थितायास्तदनन्तरं रावणाज्ञयैतत्तव शरीरं राक्षस्यो भक्षयिष्यन्ति ॥ ५।२७।३ ॥

अनार्याभिः क्रूराभिः । वृद्धा धर्मज्ञानयोगवयोभिर्वृद्धा । प्रबुद्धेत्यनेन तावत्पर्यन्तं सुप्तवतीति गम्यते ॥ ५।२७।४ ॥

आत्मानं स्वशरीरं भक्षयिष्यथेति । अवधिकालात्परमपीति शेषः ॥ ५।२७।५ ॥

कुतो ऽवगतमेतत्तत्राह– स्वप्न इति । दारुणः क्रूरः राक्षसानामभावाय दृष्टः तथा रोमहर्षणो ऽत्यद्भुतो रोमाञ्चकरः । अन्यो ऽस्या भर्तुर्भवाय दृष्ट इत्यर्थः ॥ ५।२७।६ ॥

पूर्वं क्रोधमूर्च्छिताः पश्चात्त्रिजटावचनाद्भीता इत्यर्थः ॥ ५।२७।७,८ ॥

काले प्रातःकाले । स्वप्नसंश्रितं प्रातःकालदृष्टस्वप्नदृष्टार्थविषयकम् अनेन स्वप्नस्य शीघ्रफलदत्वं सूचितम् । तत्र सीतायाः पीडानिवृत्तये तदभ्युदयसूचकं स्वप्नं प्रथममाह– गजदन्तेति । शिबिकां वाजिसहस्रयुक्तत्वविशेषणाद्विमानमित्यर्थः । तामास्थाय गच्छन्मया दृष्टः । समागतः सहितः ॥ ५।२७।९,१० ॥

सागरेण क्षीरसागरेण । परिक्षिप्तमावृतम् ॥ ५।२७।११ ॥

सङ्गता तत्रैव पर्वत इति शेषः । एतेन लङ्कायामेव रामस्य सीतादर्शनं सूचितम् । स्वप्नान्तरमाह– राघवश्चेति । पुनः स्वप्नान्तर इत्यर्थः ॥ ५।२७।१२ ॥

चकास शुशुभे ॥ ५।२७।१३ ॥

जानकीं पर्युपस्थितौ जानकीसमीपं प्राप्तौ । नगस्य श्वेतपर्वतस्य । दन्तिनः स्कन्धमाश्रितौ । तदुक्तम्– “आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् । ध्रुवमर्थलाभदम्” इति ॥ ५।२७।१४ ॥

प्रथमं भर्तुरङ्के गत्वा ततः समुत्पत्य संकूर्द्य भर्त्रा परिगृहीतस्य धृतालानस्य गजस्य स्कन्धमाश्रिता । सूर्याचन्द्रमसौ पाणिभ्यां परिमार्जती । तदुक्तम्– “आदित्यमण्डलं वापि चन्द्रमण्डलमेव वा । स्वप्ने गृह्णाति हस्ताभ्यां महद्राज्यं समाप्नुयात् ।” इति ॥ ५।२७।१५ ॥

पाण्डुरर्षभेति । पाण्डुवृषभाष्टकयुक्तेन रथेन ॥ ५।२७।१६ ॥

शुक्लमाल्याम्बरधरो रामो लक्ष्मणेन सहेहागत इत्यन्वयः । अन्यत्र स्वप्नान्तरे ॥ ५।२७।१७ ॥

आरुह्य पुष्पकमित्येतद्भावि स्पष्टमेव दृष्टम् ॥ ५।२७।१८ ॥

अत्र मध्ये “साण्डं भुवनम्” इत्यादयो बहवः श्लोका रामानुजसंप्रदायपुस्तकेषु दृश्यन्ते ते प्रक्षिप्ता इति कतकादयो ऽन्ये च । अथ रावणानर्थसूचकः स्वप्नः– रावणश्चेति । मुण्डो मुण्डितमुण्ढः ॥ ५।२७।१९ ॥

पिबन्निति । तैलमिति शेषः । करवीरकृतस्रज इति विमानादित्यस्य विशेषणम् । करवीरेत्यारभ्य स्वप्नान्तरम् ॥ ५।२७।२० ॥

रथेनेत्यादि स्वप्नान्तरम् ॥ ५।२७।२१२४ ॥

मलानि पङ्कानि च यस्मिंस्तत्तिमिरम् ॥ ५।२७।२५ ॥

अकर्दमं जलकर्दमेनापि रहितम् ॥ ५।२७।२६२८ ॥

वैहायसं खेचरत्वम् ॥ ५।२७।२९ ॥

एतदग्रे श्लोकद्वयं प्रक्षिप्तमिति कतकः । गीतवादित्रनिःस्वन इति बहुव्रीहिः । अयमपि विभीषणविषयो भाव्यर्थः स्पष्टमनुभूतः । पिबतां तैलादि पिबतां रक्षसां वासभूता लङ्का सागरे पतितेत्यन्वयः ॥ ५।२७।३०,३१ ॥

भस्मरूक्षायां भस्मना रूक्षायाम् ॥ ५।२७।३२ ॥

निवसनं न्यग्भूतम् कुत्सितं वस्त्रमित्यर्थः ॥ ५।२७।३३ ॥

यदेवम्, अतो ऽपगच्छत तत्क्लेशदानं त्यक्त्वान्यतो ऽपसरत । राघवश्च सीतामाप्नोत्येव पश्यध्वम् । अनपगमे बाधकमाह– घातयेदिति । युष्मान्सीताक्लेशदात्रीः ॥ ५।२७३४ ॥

भर्सितां युष्मत्कृतभर्त्सनादिमतीम् । नानुमंस्यति नानुमंस्यते न क्षमिष्यते, अतस्तत्कर्त्रीर्वो घातयेदिति भावः ॥ ५।२७।३५३७ ॥

हे राक्षस्यः किं विवक्षया कुत्सितभर्त्सनादिवचनेच्छया अलमिति शेषः । तत्र हेतुः– राघवादिति ॥ ५।२७।३८ ॥

नन्वेवं क्लेशिता कथमस्माकं प्रसन्ना स्यात्तत्राह– प्रणिपातेति ॥ ५।२७।३९ ॥

सीताया अभ्युदयसूचकं प्रत्यक्षनिमित्तमपि दर्शयति– अपि चेति । द्वितीयमपिचेति पादपूरणे । विरूपं लक्षणं सूक्ष्ममपि किञ्चिन्नोपलक्षय इत्यर्थः ॥ ५।२७।४० ॥

किं तु स्नानानुलेपनाद्यभावमूलकशोभावैगुण्यमात्रात्मकं दुःखमुपस्थितमित्युत्प्रेक्षते, न तु मुखवैवर्ण्यदक्षिणाक्षिस्पन्दादिदुर्निमित्तलेशो ऽपीत्यर्थः । वैहायसमुपस्थितां स्वप्ने तथा दृष्टाम् ॥ ५।२७।४१ ॥

अत एवास्या अर्थसिद्धिमिष्टसिद्धिमुपस्थितां पश्यामि रावणनाशं रामविजयं च पश्यामि ॥ ५।२७।४२ ॥

अपि चास्या महत्प्रियं श्रोतुं निमित्तभूतं मत्स्वप्नवत्सूचकमेतत्स्फुरच्चक्षुश्च दृश्यते । वाममिति शेषः ॥ ५।२७।४३ ॥

हृषितः पुलकितः । वेति वाक्यालङ्कारे । अदक्षिणो वामः ॥ ५।२७।४४ ॥

वेपन्वेपमानः स्फुरन्नित्यर्थः । राघवमस्याः पुरस्थितमिव सूचयति ॥ ५।२७।४५ ॥

पक्षी काकादिः शाखानिलयं शाखास्थनीडं प्रविष्टो वारंवारमुत्तमसान्त्ववाद्युत्तमशान्तस्वरवादी सुस्वागतां शोभनस्य स्वागतं प्राप्तिर्यस्यां तादृशीं वाचं कथयन्पुनःपुनश्चोदयतीव शोभनप्राप्तिं सूचयतीव । शोभनमागतं प्रत्युद्गच्छेति सीतां पुनः पुनः प्रेरयतीव वा ॥ ५।२७।४६ ॥

तत्त्रिजटोक्तम् ॥ ५।२७।४७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तविंशः सर्गः ॥ ५।२७ ॥