प्रसक्तानि प्रवृत्तान्यश्रूणि मुखे यस्याः सा एवं ब्रुवती वक्ष्यमाणरीत्या ब्रुवती । विलप्तुं विलपितुम् ॥ ५।२६।१ ॥
उन्मत्ता भूताविष्टा प्रमत्ता पित्तोद्रेकादिना भ्रान्तचित्तेव दिङ्मोहादिना मूर्च्छितचित्तेव शोचती शोचन्ती । उपावृत्ता श्रमापनयनाय परिवर्तनशील । किशोरीव वडवेव ॥ ५।२६।२ ॥
कामरूपिणा रक्षसा मारीचेन प्रमत्तस्यासंनिधानं प्राप्तस्य राघवस्य संबन्धिन्याहं रावणेन प्रमथ्य प्रपीड्य कोशन्ती बलादानीता ऽस्मि ॥ ५।२६।३ ॥
किं च राक्षसीवशमापन्ना, भर्त्स्यमाना राक्षसीभिः, चिन्तयन्ती रामम् ॥ ५।२६।४ ॥
अर्थैर्धनैः ॥ ५।२६।५,६ ॥
असतीमसतीवत्परगृहस्थाम् । जीवामि जीवितं रक्षामीत्यर्थः । “पाकं पचति” इतिवत्प्रयोगः ॥ ५।२६।७ ॥
एतदुत्तरम्– चरणेनेति । मध्ये द्वौ श्लोकौ प्रक्षिप्तौ । सव्येन वामेन ॥ ५।२६।८ ॥
प्रत्याख्यानं मया क्रियमाणं निराकरणं न जानाति । काममोहादिति शेषः । नृशंसस्वभावेन क्रूरस्वभावेन । मां प्रार्थयितुं राक्षसीद्वारा स्वानुकूलां कर्तुम् ॥ ५।२६।९ ॥
छिन्ना रज्जुवत्, भिन्ना भित्तिवत्, प्रभिन्ना घटवत्, दीप्ता अग्नौ दीप्तशूल्यमांसवत्, प्रदीपिता प्रदीप्ता गृहादिवत्, वश्चिरं प्रलापेन किम् । रावणं नोपतिष्ठेयमित्येव निश्चयसत्त्वात् ॥ ५।२६।१० ॥
अथ स्वापत्स्थैर्ये कारणानि संभावयति– ख्यात इति । प्रसिद्धः प्रशस्तगुणः ईदृशो ऽपि राघवो मद्भाग्यसंक्षयादेव मयि निरनुक्रोशो दयाहीनः संपन्न इति शेषः । इति शङ्के ॥ ५।२६।११ ॥
न च तस्य मद्विमोक्षणाशक्तिरित्याह– राक्षसानामिति । नाभिपद्यते न प्राप्नोति ॥ ५।२६।१२ ॥
एतदुत्तरम् कामं मध्ये इति । “मध्ये निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा । समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ विराधो दण्डकारण्ये येन राक्षसपुङ्गवः । रणे रामेण निहतः स मां नाभ्यवपद्यते ॥ " इति श्लोकौ प्रक्षिप्ताविति कतकः । काममन्येषां दुष्प्रधर्षणा भवतु, न तु रामबाणानां गतिरोधो भविष्यति । आब्रह्मलोकं रामबाणगत्यप्रतिरोधस्य गतिरोधो भविष्यति । आब्रह्मलोकं रामबाणगत्यप्रतिरोधस्य भार्गवादिविषये प्रसिद्धतरत्वादिति भावः । एतेनातिदुर्गस्थानस्थितत्वान्न मोक्षणमित्यपास्तम् ॥
५।२६।१३,१४ ॥
तस्मादत्र मत्स्थित्यज्ञानमेव मद्विमोक्षणप्रवृत्त्यभावे कारणमित्याह– इहस्थामिति । मर्षयिष्यतीत्यत्र काकुः । जानंश्चेद्भवेत्तदा मर्षयिष्यति । अपि तु न सहिष्यत्येवेत्यर्थः ॥ ५।२६।१५ ॥
संभावितं ज्ञानकारणं च विहतमित्याह– हृतेति । हृतेत्यधिगत्य ज्ञात्वा यो मां राघवाय निवेदयेत्सो ऽपीत्यन्वयः ॥ ५।२६।१६ ॥
अभ्यवपद्यतानुगृह्णानेन । रावणवधे तिष्ठता रावणवधार्थं यतता (?) । “रावणद्वन्द्वे” इति पाठे रावणेन सह द्वन्द्वयुद्ध इत्यर्थः ॥ ५।२६।१७ ॥
मामिति । इहस्थां माम् ॥ ५।२६।१८,१९ ॥
यथाहमिदानीमेवं रुदती वर्ते, भूयो मत्तो ऽधिकं मृतभर्तृकत्वाद्राक्षस्यो रुदत्यो भविष्यन्तीत्यत्र न संशय इत्यर्थः ॥ ५।२६।२० ॥
ननु ज्ञाने खल्विदं संभाव्येत, ज्ञानमेव तु दुर्लभं तत्राह– अन्विष्येति । अचिन्त्यसामर्थ्यत्वाद्दैवानुग्रहाच्च लङ्कामप्यन्विष्य मां ज्ञात्वा रक्षसां कुर्यात् विनाशमिति शेषः । विनाशस्येषत्करत्वमाह– नहीति ॥ ५।२६।२१ ॥
निश्चित एवायमर्थ इत्याह– चितेति । भवेत् लङ्केति शेषः ॥ ५।२६।२२ ॥
रक्षो ऽनर्थवन्ममार्थो ऽपि निश्चित एवेत्याह– अचिरेणेति । युष्माकमनर्थो ऽपि निश्चित इति च राक्षसीः प्रत्याह– दुष्प्रस्थान इति । दुर्निमित्तप्रवृत्तिरयं विपर्ययः, एतद्विपरीतज्ञानमिति भाति ॥ ५।२६।२३ ॥
तामेवाह– यादृशानीति । यादृशानि दृश्यन्ते तैरेव हतप्रभा भविष्यतीति ज्ञायत इत्यर्थः ॥ ५।२६।२४ ॥
शोषम् ऐश्वर्यादेरिति शेषः ॥ ५।२६।२५ ॥
पुण्योत्सवसमृद्धा च । अद्येति शेषः ॥ ५।२६।२६ ॥
ध्वनिं रोदनशब्दम् । “दुःखार्तानामिव” इति पाठः ॥ ५।२६।२७ ॥
सान्धकारालक्ष्मीसहिता ॥ ५।२६।२८ ॥
यदि राक्षसस्य निवेशने वर्तमानां यां मां रामो जानीयात्तदा लङ्कापुरी रामसायकैर्निर्दग्धा भविष्यतीत्यन्वयः ॥ ५।२६।२९ ॥
ननु लङ्कानाशे ऽपि मम जीवनं कथं स्यादिति चिन्तयति– अनेनेति । समयो द्वादशमासरूपः तस्य कालः किञ्चिदधिकमासद्वयावशिष्ठत्वादत्यासन्नकाल इत्यर्थः ॥ ५।२६।३० ॥
अस्मिन्काले दुष्टेन रावणेन स कालो मे मृत्युर्विहितः वर्तत इत्यर्थः । ननु ततः परमपि स्त्रीत्वात्त्वां न हिंस्युस्तत्राह– अकार्यमिति । ये राक्षसा अकार्यमिदं कर्तव्यमिदमकर्तव्यमिति न जानन्ति ते नैर्ऋताः पापकारिणः स्युः ॥ ५।२६।३१ ॥
अपि च सांप्रतं संपादितात्परदारहरणलक्षणादधर्मात्त्वधर्मादेव यो ऽयं महोत्पातो वर्तते तेनैते सर्वथा न भविष्यन्ति । नञो ऽत्रानुकर्ष इति कतकः यदेवमतः– नैत इति । यतो न विजानन्ति न गणयन्ति ॥ ५।२६।३२ ॥
राक्षसस्तस्मादयं रावणो ऽपि मां ध्रुवं प्रातराशार्थं कल्पयिष्यति, साहं कथं करिष्यामि । प्राप्तविशसनकाला तत्काल इति शेषः ॥ ५।२६।३३ ॥
उक्तमेवाह– राममिति । कथं करिष्यामिति शेषः ॥ ५।२६।३४ ॥
तदेवं वीरतरस्य रामस्य स्वानन्वेषणे कारणान्युत्प्रेक्षते– नाजानादिति । स रामो लक्ष्मणश्च प्रायेण मां जीवती जीवन्तीं नाजानात् । यदि जानीयातां तदा जानन्तौ तावुर्व्यां भूमौ परिमार्गणं न कुर्यातामिति न, किं तु कुर्यातामेव । अतो मृतेति मत्वा तूष्णीं तिष्ठत इति भावः ॥ ५।२६।३५ ॥
अथवा मद्वियोगेन रामो देहं न्यस्तवानित्याह– नूनमिति ॥ ५।२६।३६ ॥
एवं च देवलोकस्था धन्या इत्याह– धन्या इति । मम वीरमित्यन्वयः ॥ ५।२६।३७ ॥
ननु त्वज्जीवनाभावनिश्चयप्रमाणोपलम्भं विना कथं रामेण देहस्त्यक्त इत्यतः पक्षान्तरमाह– अथ वेति । धर्मकामस्य हि भार्ययार्थः अयं तु न तथा । तदेवाह– धीमत आत्मानात्मविवेकवतः, अत एव परमात्मनः परमात्मब्रह्मात्मना स्थितस्य जीवन्मुक्तस्य तस्य मया नार्थः । अनेन वैराग्यादप्रवृत्तिरिति सूचितम् ॥ ५।२६।३८ ॥
सर्वदा जीवन्मुक्तेनाङ्गीकार एव न कृतः स्यात्, तादृशे कृते ऽङ्गीकारे त्वेवंविधस्त्यागो ऽनुचित इत्यतो दूरवासात्स्नेहनाशेनाप्रवृत्तिरित्याह– दृश्यमान इति । सौहृदं प्रीतिः । नास्त्यदृश्यतो ममादृश्यत्वान्मयि तन्नास्ति नष्टमित्यर्थः । अयमपि पक्षो ऽसङ्गतः । ईदृशगुणवता कृतप्रीतेर्नाशनायोगादित्याह– नाशयन्तीति । कृतघ्ना एव प्रपन्नजनस्नेहमसंनिकर्षान्नाशयन्ति, नैवं रामो ऽकृतघ्नत्वात्स्वस्य प्रकृतित्वेन प्राकृतप्रपञ्चभोक्तृत्वेन च तस्याकृतघ्नतौचित्यं वनवासादौ सङ्गदानाच्च ॥ ५।२६।३९ ॥
अतः पक्षान्तरम्– किं वेति । मयि तदुपेक्षाहेतवः केचनागुणा दोषाः स्युः अयमपि पक्षो न युक्तः । स्वापरिज्ञातस्वापचाराभावात् तस्मात्प्राग्भवीयदुष्कर्मजो भाग्यक्षय एव हेतुरित्याह– किं वेति । अतो ऽक्लिष्टचारित्रादिगुणाद्रामाद्या ऽहं त्राणार्हा सीताख्या भामिनी, एतावत्पर्यन्तं सा हि यत इदानीं वरार्हेणोत्तमवस्तुयोग्येन रामेण हीनास्मि, अतस्तस्या मम तेन महात्मना हीनाया मर्तुं श्रेयो मरणं ज्यायः ॥ ५।२६।४०४१ ॥
भाग्यक्षयनिश्चयस्य कर्तुमशक्यत्वात्पक्षान्तरम्– अथ वेति । शस्त्रग्रहणमूलत्वात्सर्वथा ऽनर्थस्य हिंसारहिते तपस्येव यावज्जीवं वर्तितव्यमिति धिया न्यस्तशस्त्रौ जातौ ॥ ५।२६।४२ ॥
इदमप्यसंभावितं रक्षोभिः कृतवैरेण क्षत्रियेण तत्त्यागायोगादतः पक्षान्तरम्– अथवेति । छद्म वञ्चना सा रक्षसां प्रसिद्धैव ॥ ५।२६।४३ ॥
अतिवर्तत्यतिशयेन वर्तमाने ॥ ५।२६।४४ ॥
अथ तस्या दुःखनाशकारणं विवेकज्ञानमेवेत्याह– धन्या इति । सत्यं ब्रह्मसंमतामात्मत्वेन येषां ते अनेन संसारतरणसामर्थ्यं दर्शितम्, अत एव जितात्मनो जितान्तःकरणाः, अत एव महात्मानः प्राप्तमहात्मैक्याः, अत एव महाभागाः पूर्वजन्माद्यर्जितनिष्कामधर्मरूपमहाभाग्यवन्तः मुनयो ध्यानशीलास्ते धन्याः । तत्र हेतुः– येषां कर्मजन्ये प्रियाप्रिये न स्तः ॥ ५।२६।४५ ॥
प्रियाप्रियाभावं विवृणोति– प्रियादिति । येषां मुक्तानां प्रियाद्वियुज्यमानाद्दुखं न संभवेत् । अप्रियात्संयुज्यमानादधिकं प्रियवियोगादप्यधिकं दुःखं न भवेत् । “अप्रियादधिकं भयम्” इति पाठे संयुज्यमानादप्रियादधिकं महद्भयमपि न भवेदित्यर्थः । ताभ्यां प्रियवियोगजदुःखाप्रियसंयोगजदुःखभयान्तराभ्यां ये वियुज्यन्ते तेषां महात्मनां मामिका नमस्क्रिया ऽस्तु । तेषां नमस्कारेण तत्तुल्यता ममापि स्यादित्याशयः ॥ ५।२६।४६ ॥
रामेण त्यक्तान्विष्य न मोचिता प्रियेणैव सन्तोषेणैव प्राणांस्त्यक्ष्यामि । रावणे त्यक्तायाः प्राणत्यागस्यैव परमप्रियत्वात् ॥ ५।२६।४७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षड्विंशः सर्गः ॥ ५।२६ ॥