परुषं वदन्तीनां वचः श्रुत्वेति शेषः ॥ ५।२५।१ ॥
पूर्वसर्गोक्तरीत्योक्ता मनस्विनी पातिव्रत्ये दृढमनाः ॥ ५।२५।२ ॥
कामं खादतेति । अयं सर्वः सीताप्रलापो गृहीतमनुष्यशरीरतया नटवदनुकरणरूप इति बोध्यम् ॥ ५।२५।३ ॥
शर्म न लेभे इव शोकार्तेव ॥ ५।२५।४ ॥
आत्मनो ऽङ्गं विशन्तीव भीत्यातिसङ्कुचितशरीरा कमठवदभूदित्यर्थः । कोकैर्वृकैः ॥ ५।२५।५ ॥
अशोकस्याशोकवनिकासंबन्धिनः शिंशपावृक्षस्य तत्समीपवर्तिनो ऽशोकस्यैव वा ॥ ५।२५।६,७ ॥
राक्षसीनां राक्षसीभ्यः ॥ ५।२५।८ ॥
सीतयेति षष्ठ्यर्थे तृतीया । परिसर्पती परितः प्रसर्पन्ती ॥ ५।२५।९,१० ॥
हा सुमित्रेतीत्यत्रेकारलोप आर्षः ॥ ५।२५।११ ॥
अकाले दैवाविहितस्वेच्छाकाले ॥ ५।२५।१२ ॥
यत्राहमिति । यस्मादहमित्यर्थः ॥ ५।२५।१३,१४ ॥
तोयहतं नदीपूररुग्णम् ॥ ५।२५।१५ ॥
पद्मदलं विकसितं पद्मं तस्य पत्रमिवाक्षिणी यस्य तम् ॥ ५।२५।१६ ॥
तीक्ष्णं विषं वत्सनाभादिकमास्वाद्य स्थितस्येव मे मम जीवनं दुर्लभम् ॥ ५।२५।१७,१८ ॥
जीवितं त्यक्तुमिच्छामि । तदपि न शक्यमिति शेषः । रामो ऽपि नासाद्यते च ॥ ५।२५।१९ ॥
एवं परवशतया दुःखानुभवे हेतुमाह– धिगिति । मनुष्यस्य विषोद्बन्धनादिना देहत्यागे ऽपरमार्थप्राप्तेः परमदुःखस्यापि सोढव्यत्वादप्रयोजको मनुष्यदेह इत्यर्थः । राक्षस्यादिपरतन्त्रतां च मनुष्यत्वप्रयुक्तां धिक् । यद्यत्र मनुष्यदेहे । आत्मच्छन्देनात्मेच्छया जीवितं परित्यक्तुं न शक्यम् ॥ ५।२५।२० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चविंशः सर्गः ॥ ५।२५ ॥