०२४ सीता-राक्षसीसंवादः

तत इति ॥ ५।२४।१,२ ॥

प्रत्याहर निवर्तय । एवं त्वदभीष्टं रामसङ्गमरूपं वस्तु जातु कदाचिदप्यतःपरं न भविष्यति । अत्र रामागमनस्य तव वा तत्र गमनस्य प्रसक्त्यभावादिति भावः । यद्वातः परं जातु कदाचिदप्येवं भावश्चेद्भवती न भविष्यति मारयाम इत्यर्थः ॥ ५।२४।३५ ॥

नेत्राभ्याम् उपलक्षितेति शेषः । इदं वचनं युष्मद्वचो ऽनङ्गीकारे । मारणं चेच्छीघ्रं तदेव क्रियतामित्यर्थः । किं वक्ष्यमाणम् ॥ ५।२४।६ ॥

लोकविद्विष्टं लोकविद्विष्टपरपुरुषसङ्गार्थकम् । सङ्गता समेताः । किल्बिषं किल्बिषजनकार्थकम् ॥ ५।२४।७,८ ॥

गुरुरुपास्यदेवता । सुवर्चला सूर्यपत्नी । सूर्याभिमुखपुष्पवती काचिदोषधिरित्यन्यः ॥ ५।२४।९ ॥

अतिदुःखसमये ऽपि दृढव्रतत्वद्योतनायानेकसाध्वीनामुपन्यासो दृष्टान्तविधयेत्याहुः ॥ ५।२४।१०,११ ॥

भैमी दमयन्ती नैषधं पतिं यथा ऽनुव्रता ॥ ५।२४।१२,१३ ॥

अवलीनश्छन्नः । निर्वाक्यो मौनी । शिंशपाद्रुमे स्थित इति शेषः । सीतां तर्जयन्ती राक्षसीस्तद्वाक्यान्यशृणोत् ॥ ५।२४।१४ ॥

वेपमानां तामभिक्रम्य तत्समीपमागत्य संरब्धाः क्रुद्धास्ता राक्षस्यो दशनच्छदाँल्लिलिहुर्लेहनं कुर्वन्ति स्म ॥ ५।२४।१५ ॥

परश्वधान्गृहीत्वोचुश्च । नेयं रावणं भर्तारमर्हति अपि त्वस्माकं भक्षणमेवार्हतीति भावः ॥ ५।२४।१६ ॥

भर्त्स्यमानैवंप्रकारेण पीड्यमाना । अभूदिति शेषः । तां शिंशपां हनूमदधिष्ठितशिंशपाम् । अत्यन्तं तन्मूलसमीपमित्यर्थः ॥ ५।२४।१७ ॥

ततस्तन्मूलगमनानन्तरम् ॥ ५।२४।१८,१९ ॥

निर्णतोदर्यतिनिम्नोदरी ॥ ५।२४।२० ॥

अतिकृतमतिमात्राचरणम् । श्रीरपि समैव ज्यायसीति लोकोक्तेरिति भावः । व्यसनं दुःखम् ॥ ५।२४।२१ ॥

मानुषो मनुष्यज्ञात्युचितो विधिरनुष्ठानं ते त्वया कृतम् । एतावदेवालमित्यर्थः ॥ ५।२४।२२ ॥

सुरेशं वासवमिव ॥ ५।२४।२३ ॥

कृपणं दीनम् ॥ ५।२४।२४२७ ॥

तर्जती तर्जयन्ती ॥ ५।२४।२८ ॥

अनुक्रोशो दया । मृदुत्वमल्पप्रमाणत्वम् ॥ ५।२४।२९ ॥

कालपुरस्कृतं कालोचितं नो वाक्यं न च कुरुषे । नैतत्ते हितमिति शेषः । तदेवोपपादयति– आनीता ऽसीति ॥ ५।२४।३० ॥

गृहे रुद्धा चासि । अस्माभिरभिरक्षिता रक्षितनिरोधा ॥ ५।२४।३१,३२ ॥

प्रीतिं स्नेहम् रावणे प्रहर्षमानन्दम् नित्यदैन्यतां निरन्तरदीनत्वम् स्वार्थे ष्यञ् ॥ ५।२४।३३,३४ ॥

व्यतिक्रामेत् यौवनमिति शेषः । उद्यानानि चरेत्युत्तरस्थेनान्वयः । तेषु क्रीडेत्यर्थः ॥ ५।२४।३५,३६ ॥

उत्पाटनं स्थानादपकर्षणम् ॥ ५।२४।३७ ॥

यदीत्यर्धं पूर्वान्वयि ॥ ५।२४।३८,३९ ॥

गर्भिण्या गर्भकृत इच्छाविशेषो दौर्हृदम् । यकृद्दक्षिणभागस्थः कालखण्डाख्यो मांसविशेषः । “स्नायुः स्त्रियां कालखण्डयकृती च समे उभे” इति कोशः । प्लीहं हृदयवामभागस्थो गुल्माख्यो मांसविशेषः । यद्यपि तद्वाचकः प्लीहा इत्याकारान्तः, तथाप्यदन्तत्वमार्षम् । महत्क्रोडं भुजान्तरम् । “अथोत्पीडम्” इति पाठे उत्पीडं हृदयोपरिस्थितमांसबन्धनम् । हृदयं नाडीबन्धनसहितं मुकुलाकारं हृत्पुण्डरीकाख्यम् ॥ ५।२४।४०,४१ ॥

प्रघसावाक्यम्– विशस्येमामिति । मध्ये “कण्ठमस्या नृशंसायाः पीडयामः किमास्यते । निवेद्यतां ततो राज्ञे मानुषी सा मृतेति च ॥ नात्र कश्चित्र सन्देहः स्वादतेति स वक्ष्यति । ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ॥ इति श्लोकद्वयं प्रक्षिप्तमिति कतकः । पिण्डकान्मांसखण्डान् । विवादः अनया सहेति शेषः ॥ ५।२४।४२ ॥

शूर्पणखेयमन्या ॥ ५।२४।४३ ॥

अजामुखसदृशमुखवत्या प्रघसयेत्यर्थः ॥ ५।२४।४४ ॥

निकुम्भिला नाम लङ्कायाः पश्चिमभागवर्तिनी भद्रकाली तां नृत्यामस्तत्समीपं गत्वा नृत्यामसुरसुतोपमा देवकन्योपमा रोदित्यरुदत् ॥ ५।२४।४५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुर्विंशः सर्गः ॥ ५।२४ ॥