शत्रून्रावयति हाहाशब्दं कारयति स शत्रुरावणः ॥ ५।२३।१,२ ॥
ततः परं रावणगमनादनन्तरम् । लोकोक्तौ वा परमिति ॥ ५।२३।३ ॥
भार्यात्वं भार्याभावं न बहु मन्यसे मोहादिति शेषः ॥ ५।२३।४ ॥
ततः सर्वसाधारणैतद्वाक्यप्रयोगोत्तरमेकजटा विशिष्याब्रवीत् । करतलोदरीम् अतुन्दिलामित्यर्थः ॥ ५।२३।५ ॥
“मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः” इत्यनुक्रान्तषट्प्रजापतीनां चतुर्थः पुलस्त्यः ॥ ५।२३।६,७ ॥
तस्य पुत्र इत्यनेन कुलीनत्वं सूचितम् ॥ ५।२३।८ ॥
किं किमर्थम् । ततः कुलनिरूपणानन्तरम् ॥ ५।२३।९ ॥
येनेत्यनेन पराक्रमातिशयसूचनम् ॥ ५।२३।१० ॥
न लिप्ससे नेच्छसीत्यर्थः ॥ ५।२३।११ ॥
सर्वासां मध्ये बहुमतां महाभागामतिभाग्यवतीं मन्दोदरीमपि त्यक्त्वा त्वामुपैष्यति ॥ ५।२३।१२१५ ॥
यस्य भीतः सूर्यो न तपतीत्यर्थः । न तिष्ठसे वशे इति शेषः ॥ ५।२३।१६ ॥
यदेच्छति तदा सुस्रुवुरित्यर्थः ॥ ५।२३।१७ ॥
भार्यार्थे भार्यात्वनिमित्तम् ॥ ५।२३।१८ ॥
साधु कथितं साधु गृहाण । न भविष्यसि मारयाम इत्यर्थः ॥ ५।२३।१९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रयोविंशः सर्गः ॥ ५।२३ ॥