प्रियदर्शनां सीतां प्रत्यनुनयोक्तिं कृत्वा ततो विप्रियमाहेति संबन्धः ॥ ५।२२।१ ॥
लोके स्त्रीणां सान्त्वयिता पुमान्यथा यथा सान्त्वयति तथा तथा तत्तत्सान्त्वानुसारेण स स्त्रीणां वश्य इष्टो भवति, त्वयि तु यथा यथा ऽहं प्रियं वक्ता ऽभूवं तथा तथा त्वया परिभूत एवास्मीति शेषः ॥ ५।२२।२ ॥
एवं च त्वद्विषये न्यायप्राप्तमुत्पन्नं क्रोधं क्रोधकार्यं वधं त्वद्विषये समुत्थितः कामो नियच्छति निरुणद्धि । तत्र दृष्टान्तः– द्रवत इति । अमार्गमासाद्य द्रवतो धावतो हयान्सुसारथिरिव ॥ ५।२२।३ ॥
ननु विपरीतं क्रोध एव किं न कामं रुणद्धीत्यत्र कामस्यौत्कट्यादित्याह– वाम इति । क्रूर इत्यर्थः । “सव्ये क्रौर्ये सुन्दरे च वामः” इति कोशः । कामक्रौर्यमेवाह– यस्मिन्निति । परमक्रोधविषये ऽपि यत्र जने कामो निबद्ध्यते तत्र जने ऽनुक्रोशो दया स्नेहश्च जायते । तस्मात्क्रोधात्काम उत्कटक्रूरत्ववानित्यर्थः ॥ ५।२२।४ ॥
एतस्मादिति । उत्कटकामविषयत्वादित्यर्थः । मिथ्या प्रव्रजने निष्प्रयोजनमेव भोगत्यागरूपप्रव्रजनमार्गे रताम् । “मिथ्याप्रव्रजिते” इति पाठे रामे रतामित्यर्थः ॥ ५।२२।५७ ॥
अवधिः “मासान्द्वादश भामिनि इत्यारण्यकाण्डोक्तस्तन्मध्ये द्वौ मासाववशिष्ठौ तौ मया रक्षणोयौ । यद्यपि “वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम” इति सीता वक्ष्यति, तथाप्यल्पान्तरत्वान्मासद्वयरक्षणोक्तिरविरुद्धा ॥ ५।२२।८ ॥
प्रातराशः प्रातः कालिकं भोजनम् ॥ ५।२२।९ ॥
देवगन्धर्वकन्याः । सीतावदेव बलादाहृता इत्यर्थः ॥ ५।२२।१० ॥
ओष्ठप्रकारैर्वराको ऽयं किं करिष्यति न भेतव्यमित्येवौष्ठाग्रोत्क्षेपणैः नेत्रैर्द्राङ्निमीलनोन्मीलनवद्भिः वक्रैर्मुखचलनैः सीतामाश्वासयामासुः ॥ ५।२२।११ ॥
आत्महितं रावणात्मनो हितम् । वृत्तेन सदाचारेण, शौटीर्येण पतिशौर्येण च सञ्जातगर्वम् ॥ ५।२२।१२ ॥
अस्मिन्नगरे ते तव निःश्रेयस्यभ्युदयसंपादने स्थितो जनो नूनं न कश्चिदस्ति यस्मात्त्वामस्माद्विगर्हितात्कर्मणो न को ऽपि निवारयति ॥ ५।२२।१३ ॥
मनसा ऽपि कः प्रार्थयेत् । किं पुनर्वचसेति भावः ॥ ५।२२।१४ ॥
यत्पापं मम शयनमारोहेत्यादिरूपम् । क्व गतो मोक्ष्यसे । तत्साध्यसमूलनाशस्य त्वया परिहारो ऽशक्य इत्यर्थः ॥ ५।२२।१५ ॥
दृप्तो मातङ्गः शशश्च यदा वने दैवात्सहितौ युयुत्सू भवतस्तयोश्च शशो यथातिक्षुद्रस्तथा रामेण संयुगे त्वं शशवत्क्षुद्रः । रामो गजवदित्यर्थः ॥ ५।२२।१६ ॥
स त्वं रामादतिक्षुद्रः । क्षिपन्निन्दन् । इह तदसंनिधौ यावन्नोपगच्छसि तावदिह निन्दन्न लज्जसे इत्यन्वयः ॥ ५।२२।१७१९ ॥
ननु न पतिते न शीर्यतीत्युक्तिर्यदि पातिव्रत्यमूला, तर्हि तथानिग्रहं कस्मान्न करोषीत्यत्राह– असंदशादिति । शापविषये रामाज्ञाभावात् । शापसामर्थ्ये ऽपि तपोनुपालनाद्धेतोरपि भस्मार्हेण भस्मजनकत्वशक्तिमता तेजसा स्वीयपातिव्रत्यतेजसा न भस्म कुर्मि करोमि ॥ ५।२२।२० ॥
अहं तस्य रामस्य भार्या त्वयाप ऽहर्तुं न शक्या, अथाप्ययं विधिरपहरणरूपविधिस्तव वधार्थाय दैवेन विहितो ऽत्र न संशयः ॥ ५।२२।२१ ॥
शूरेणेत्याद्युपहासोक्तिः । अपोह्य मारीचमायया ऽपसार्य कस्माद्दारचौर्यं त्वया कृतम्, तस्मादत्यन्तमशूरस्त्वमित्युपहासः । चिदिति पादपूरणे ॥ ५।२२।२२,२३ ॥
सिंहसत्त्वगतिः सिंहवत्सत्त्वं पराक्रमो गतिश्च यस्य सः । “सिंहसंहननः” इति पाठान्तरम् ॥ ५।२२।२४ ॥
चलमग्रं यस्य तादृशमुकुटवान् ॥ ५।२२।२५ ॥
श्रोणीसूत्रेण कटिसूत्रेण रशनयेत्यर्थः । इन्द्रनीलनद्धमुखारक्तमणियुक्तत्वाच्च तस्य मेचकत्वम् । भुजङ्गो वासुकिः स हि नीलवर्ण इत्याहुः ॥ ५।२२।२६ ॥
ताभ्यां प्रसिद्धपराक्रमाभ्याम् । भुजद्वयमेव सर्वदा, युद्धादौ स्वेच्छया दशभुजत्वमिति द्विवचनम् । वामदक्षेषु भुजत्वजात्यैकवचनमित्यन्ये ॥ ५।२२।२७,२८ ॥
वसन्त इव भूषितो ऽपि श्मशानचैत्यप्रतिमस्तदुभयवत्परिहार्यदर्शनः । चैत्यं बुद्धायतनम्, अत एव भयङ्करः ॥ ५।२२।२९,३० ॥
अनदेनानीत्या युक्तम् । अर्थहीनं प्रयोजनहीनं व्रतं रामं वा । अनुव्रते इति संबोधनम् । ईदृशीं त्वां नाशयामि । सूर्य उदितः सन्ध्यां तत्कालिकमन्धकारमिव ॥ ५।२२।३१,३२ ॥
एकाक्षीति द्विरुपादानं व्यक्तिभेदात् ॥ ५।२२।३३३६ ॥
भो राक्षस्यः यूयं प्रत्येकं तथा कुरुत, सर्वा मिलित्वा वा तथा कुरुत । प्रतिलोमानुलोमैः प्रतिकूलानुकूलव्यवहारैः ॥ ५।२२।३७ ॥
आवर्जयतानुकूल्यं संपादयत ॥ ५।२२।३८ ॥
प्रतिगर्जत प्रत्यगर्जत् । उपगम्य समीपमागम्य । ततो ऽतिसन्तर्जनं दृष्ट्वा । सीतायां दययेति शेषः ॥ ५।२२।३९ ॥
परिष्वज्य परिष्वङ्गेन प्रहारादिप्रवृत्तिं निरुध्य ॥ ५।२२।४० ॥
अमरश्रेष्ठा इन्द्रादयो भोगसत्तमान्न विदधति नानुमन्यन्ते । दैवहतेयमदृष्टहीनेति भावः ॥ ५।२२।४१,४२ ॥
समुत्क्षिप्तो ऽन्यतो ऽपसारितः प्रहसन् धान्यमालिन्योचितव्यवहारदर्शनेनावशप्राप्तस्त्रीप्रहारापकीर्तिपरिहारेण च प्रसन्न इत्यर्थः ॥ ५।२२।४३,४४ ॥
प्रविशुः प्रविविशुः ॥ ५।२२।४५,४६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्वाविंशः सर्गः ॥ ५।२२ ॥