तस्येति । दीनमिति क्रियाविशेषणम् ॥ ५।२१।१ ॥
पतिमेव चिन्तयन्ती प्रत्युवाचेति संबन्धः ॥ ५।२१।२ ॥
तृणमन्तरतः कृत्वा परपुरुषस्य साक्षात्संभाषणानर्हत्वात् भूम्यां किञ्चिदन्तर्धाय मूत्रादिविसर्जनवत्तृणान्तरेण तस्य मुखे प्रत्युत्तरदानम् । कथमस्य दुरात्मनो रजस्तमोभिभूतस्य मयि दुराशेति शुचिस्मिता । प्रत्युवाचेति पुनरभिधानं प्रकारविशेषकथनार्थम् । एतेन तृणीकृतप्राणतया तृणतुल्यतया रावणस्य ग्रहणाच्च निभयप्रत्युत्तरदानमिति बोध्यम् । तदेवाह– निवर्तयेति । मत्तो मनो निवर्तय । स्वजने प्रीयतां प्रीतिं कुरु । स्वजनः स्वभार्यादिः । क्रुद्धोक्त्या मनःपदादेः पौनरुक्त्यं न दोषभाक् । वर्णनीयमयीभावाच्च कवेरपि तादृशं न दोषाय ॥ ५।२१।३ ॥
सिद्धिं ब्रह्मलोकप्राप्तिम् । एकपत्न्या पतिव्रतया । अकार्यं परपुरुषस्पर्शरूपम् ॥ ५।२१।४ ॥
तं प्राप्तया विवाहसंबन्धेनेति शेषः ॥ ५।२१।५ ॥
पृष्ठतः कृत्वा परावृत्य स्थित्वा । औपयिकी भोगयोग्या । तत्र हेतुः– सती परभार्येति ॥ ५।२१।६ ॥
धर्मं साध्विति पश्य । साधूनां व्रतं चर । यथा तव मन्दोदर्याः परपरिग्रहेण दुःखम्, एवमन्येषामपि स्वदाराणां परपरिग्रहे दुःखमिति ज्ञात्वा ऽन्येषां दारा रक्ष्याः परिहार्याः ॥ ५।२१।७ ॥
यथा स्वदाराणां स्वस्मिन्नेव रत्येहा ऽमुत्र सुखमिति स्वस्य निश्चयः तथा परेषामपीत्यर्थः, आत्मानमेव दृष्टान्तीकृत्य स्वेष्वेव दारेषु रम्यताम् अन्यथोभयोरपि धर्मलोप इति भावः । विपक्षे बाधकान्तरमप्याह– अतुष्टमिति । निकृतिप्रज्ञं निकृतिन्यक्कारः साधुकुतधिक्कारस्तदास्पदप्रतम् पराभवमजयरूपम् ॥ ५।२१।८ ॥
इह लङ्कानगरे सन्त इहलोकपरलोकहितवक्तारो न वा नैव सन्ति । सत्सु वा तेषु तान्नानुवर्तसे तत्समीपं न गच्छसि गतो ऽपि वा न पृच्छसि यथा ते विपरीता बुद्धिः । आचारवर्जिता विहितकर्मविमुख्यविहितसंमुखी च ॥ ५।२१।९ ॥
सत्पुरुषत उपदेशसत्त्वे ऽपि समूलोन्मूलनं चिकीर्षुर्दैववशात्त्वं न शृणोषीत्याह– वच इति । विचक्षणैर्भाविकार्यपर्यालोचनचतुरैः पथ्यं हितोदर्कं वच उक्तमपि मिथ्याप्रणीतात्मा तद्वचो मिथ्यावस्तुभूतमसारभूतमित्यश्रद्धया प्रणीतः प्राप्त आत्मा बुद्धिर्येन तादृशो राक्षसानामभावाय नाशाय न प्रतिपद्यसे न परिगृह्णासि ॥ ५।२१।१० ॥
ननु मया सज्जनोपदेशाग्रहे कुतो राक्षसनाशप्रसङ्ग इत्यत्रोत्तरं वक्तुं लोकस्थितिमाह– अकृतेति । अकृतात्मानं सदुपदेशाग्राहिबुद्धिम् ॥ ५।२१।११ ॥
तथैवेति । राजापराधतो ऽशेषप्रजानाशस्य लोकप्रसिद्धत्वादिति भावः ॥ ५।२१।१२ ॥
किं च सज्जनोपदेशमशृण्वतो नाशं सज्जनो ऽनुमोदत इत्याह– स्वकृतैरिति । स्वकृतैर्दुष्कृतैर्हन्यमानस्यावश्यप्राप्तनाशस्यादीर्घदर्शिनो भाव्यनर्थदर्शनासमर्थस्य विनाशे उपस्थिते भूतानि सर्वप्राणिनो नन्दन्ति ॥ ५।२१।१३ ॥
एवं निराकृतास्त्वया क्लेशिताः सर्वे जनाः । एतद्व्यसनं स्वबुद्धिप्राप्तनाशम् ॥ ५।२१।१४ ॥
ऐश्वर्यं कुर्वित्यादि यदुक्तं रावणेन प्रलोभनाय तत्प्रत्याख्याति– शक्येति । अनन्या भिन्नत्वाभाववती ॥ ५।२१।१५ ॥
प्रलोभनाशक्यत्वमेव स्पष्टयति– उपधायेति । उपधानं कृत्वेति सह शयित्वेति यावत् । कस्यचिदतत्त्वभूतस्य ॥ ५।२१।१६ ॥
औपयिकी योग्या । व्रतस्नातस्य ब्रह्मचर्यव्रतपूर्वकं कृतसमावर्तनस्य यथाशास्त्रं मत्पाणिग्रहणं कृतवतो विदितात्मनो ज्ञातस्वतत्त्वस्य ज्ञातपुरुषार्थसाधनस्य च तस्यैवाहं योग्या विप्रस्य विद्येव ब्रह्मविद्येव ब्रह्मविद्या यथा ब्राह्मणस्यैवासाधारणं स्वं न्यायप्राप्तं तद्वत् संन्यासे तस्यैवाधिकाराद्ब्रह्मविद्यायां ब्राह्मणस्यैवाधिकार इति भावः । अन्ये तु– विप्रपदं त्रैवर्णिकपरम्, त्रैवर्णिकस्यैव ब्रह्मविद्यायामधिकारः, अत एव “धीरस्य” इति क्वचित्पाठ इत्याहुः ॥ ५।२१।१७ ॥
हे रावण मां रामेण समानय तदेव ते साधु । वने वासितया कामुक्या करेण्वा सार्धं गजाधिपमिव । उपमानोपमेयवाक्ययोर्वैषम्यं तु क्रुद्धविरहिण्युक्तित्वान्न दोषावहम् । करेणुं जगाधिपेनेति तु वक्तुसुचितम् ॥ ५।२१।१८ ॥
बुद्ध्यन्तरं चोपदिशति– मित्रमिति । स्थानं परीप्सता लङ्कां रिरक्षयिषता आत्मनो बन्धं च घोरं सकलकुटुम्बपीडाकरमनिच्छता त्वया पुरुषर्षभो ऽसौ रामो मित्रं कर्तुमौपयिकं युक्तम् ॥ ५।२१।१९ ॥
कथमेवमपराद्धस्य मे तेन मैत्री तत्राह– विदित इति । यतः– सर्वधर्मज्ञ इति । शत्रुरपि शरणागतो रक्षणीय इति धर्मज्ञत्वेन शरणागतवत्सलत्वेन च विदितः प्रसिद्धः, अतस्तेन मैत्री भवतु तेन मैत्री प्राप्तकालेत्यर्थः ॥ ५।२१।२० ॥
अत एनं शरणागतवत्सलं त्वं प्रसादयस्व, मां चास्मै निर्यातयितुं दातुं त्वमर्हसि ॥ ५।२१।२१ ॥
संप्रादायेति । मामिति शेषः ॥ ५।२१।२२ ॥
मत्प्रत्यर्पणं विना सर्वथा तव जीवनं नास्तीत्याह– वर्जयेदिति । त्वद्विधप्राणान्न नाशयेदित्यर्थः । राघवो न तु वर्जयेन्नाशयेदेव ॥ ५।२१।२३ ॥
महास्वनं महान्तं नादम् नादो हि कश्चिच्छब्दधर्मः प्रतिशब्दरूपः । श्रोष्यसि यदि मां न ददासीति भावः ॥ ५।२१।२४ ॥
रामलक्ष्मणलक्षिताः तन्नामाङ्का इत्यर्थेः ॥ ५।२१।२५ ॥
कङ्कवाससो रावणाः । असंपातमनवकाशम् । “असंबाधम्” इति पाठे राक्षससंमर्दरहितम् ॥ ५।२१।२६ ॥
राक्षसेन्द्ररूपान्महासर्पान् । उद्धरणशैध्ये उपमा– वैनतेय इवेति ॥ ५।२१।२७ ॥
“न चापि मम हस्तात्त्वां प्राप्नुमर्हति राघवः” इत्यस्योत्तरमाह– अपनेष्यतीति ॥ ५।२१।२८ ॥
हतस्थाने हतास्पदे ॥ ५।२१।२९ ॥
नरसिंहयोः शून्यमाश्रमं प्रविश्य यत्कृतं तदसाधुवृत्ति किलेत्यर्थः । गोचरं गतयोर्मायामृगवृत्तान्तं ज्ञातुं गतयोः । गोचरं वनप्रदेशं गतयोरिति वार्थः ॥ ५।२१।३० ॥
यस्माद्रामलक्ष्मणयोर्गन्धमुपाघ्राय शार्दूलयोः सन्दर्शने शुनेव समक्षं स्थातुं त्वया न शक्यम् ॥ ५।२१।३१ ॥
तस्याधमबलस्याधमकृत्यस्य च ते ऽग्रे ऽपि ताभ्यां विग्रहे कलहे प्रसक्ते सति युगग्रहणं सहायसंपत्तिरस्थिरा जनस्थानबलसहायसंपत्तिवत् तस्मात्तेन युद्धे तव निग्रह एव वृत्रसंबन्धिन एकस्य बाहोर्द्वाभ्यामिन्द्रबाहुभ्यां युद्धे वृत्रबाहुपराजयवत् । वज्रच्छिन्नैकबाहुर्वृत्रो बहुकालमिन्द्रेण सहैकबाहुना युद्धं कृतवान्पराजितश्चेति भागवते प्रसिद्धम् ॥ ५।२१।३२ ॥
मे नाथः स राम इत्यन्वयः ॥ ५।२१।३३ ॥
कुबेरस्यालयं कैलासम् । कैलासवरुणसभे ऊर्ध्वाधस्थलसकललोकोपलक्षणम् । कालहतस्त्वमशनेः संबन्धान्महाद्रुम इव दाशरथेः संबन्धाद्विमोक्षसे प्राणानिति शेषः । “विमोक्ष्यसे” इति पाङ्क्तः पाठ इति कतकः ॥ ५।२१।३४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकविंशः सर्गः ॥ ५।२१ ॥