०२० सीता-रावणसंवादः

परिवृताम् राक्षसीभिरिति शेषः । साकारैः साभिप्रायैः “आकारस्त्विङ्गिताकृती” । न्यदर्शयत् स्वाभिप्रायमिति शेषः ॥ ५।२०।१ ॥

नागो गजः । स्तनोदरं गूहमाना भयादिव भयादेवात्मनं स्वशरीरमदर्शनं नेतुमिच्छसि । तत्किमिति शेषः ॥ ५।२०।२ ॥

नैवं भीतिर्मत्तस्ते युक्तेत्याह– कामय इत्यादि ॥ ५।२०।३ ॥

किमिदानीं मदतिरिक्तपुरुषान्तरजं तव भयम्, उत मम स्पर्शे धर्महानिजम् । नाद्य इत्याह– नेहेति । मत्ते मदागमनात्समुत्थितं पुरुषान्तरागमनसंभावनया जातं भयं व्यपसर्पतु अन्येषामभावात् ॥ ५।२०।४ ॥

नान्त्य इत्याह– स्वधर्म इति । तं स्वधर्ममाह– गमनं वेति । आनुकूल्यं संपाद्येति शेषः । संप्रमथ्य बलात्कृत्य एवं स्वधर्मत्वान्मम नाधर्मः बलात्कारे चास्वतन्त्रत्वात्स्त्रिया अपि न दोष इति भावः ॥ ५।२०।५ ॥

एवं च एवमपि बलात्कारपक्षे तव मम च दोषाभावे ऽपि तस्य पक्षस्य रसाभाससंपादकत्वात्, अत एवमकामामनेन प्रकारेण मयि कामरहितां त्वां मद्भिन्नेच्छावतीं च न च, न तु स्प्रक्ष्यामि । “एवं चैतदकामां त्वाम्” इति पाठे एतद्रक्षोधर्मत्वम् । एवं चैवमेव मदुक्तरीतिकमेव, तथाप्युक्तप्रकारेण त्वामकामां न स्प्रक्ष्यामीत्यर्थः । नन्वेवं सति दुःसहा कामपीडा तव स्यात्तत्राह– काममिति । कामो मन्मथो यथाकामं यथेच्छं कामं तद्विषयेच्छां प्रवर्तताम् प्रवर्तयत्वित्यर्थः ॥ ५।२०।६ ॥

अतः सर्वथा भयं न कार्यमित्याह– देवीति । देवि सर्वान्तःपुरपूज्ये इह मयि मद्विषये प्रणयस्व संमाननं कुरु संमानने नयतेरात्मनेपदम् ॥ ५।२०।७ ॥

अधःशय्या भूशयनम् । नौपयिकानि न पुरुषार्थोपयुक्तानि ॥ ५।२०।८ ॥

मां प्राप्य विचित्रमाल्यादीनि लभस्वेत्यर्थः ॥ ५।२०।९,१० ॥

अनर्हा भूषणानामिति शेषः । सुविग्रहे इति संबुद्धिः ॥ ५।२०।११ ॥

अतिवर्तते ऽतिक्रम्य गच्छति । स्रोतस्विनो जलप्रवाहाः । स्रोतस्तेन प्रवहज्जलम् । अतो भुङ्क्ष्व भोगानिति शेषः ॥ ५।२०।१२ ॥

रूपकर्ता दिव्यरूपस्रष्टा त्वां कृत्वा निर्मायोपरतो दिव्यरूपनिर्माणाद्विरत इति मन्ये । उत्प्रेक्षायां हेतुः– हि यतस्तव रूपोपमा नास्ति । यदि पुनः स उत्तमरूपनिर्माणे यतेत, न तथापि तवोपमेत्याशयः ॥ ५।२०।१३ ॥

को नातिवर्तेत क्षुभ्येतेत्यर्थः । “कः पुमानतिवर्तेत” इति पाठे कामवशतामतिक्रम्य को वर्तेतेत्यर्थः ॥ ५।२०।१४ ॥

निबध्यते बद्धं जायते ॥ ५।२०।१५ ॥

मोहं नैतद्वशा भविष्यामीति बुद्धिम् ॥ ५।२०।१६,१७ ॥

तव हेतोस्त्वत्प्रीत्यर्थम् ॥ ५।२०।१८ ॥

प्रतिबलो युद्धे जेता ॥ ५।२०।१९ ॥

प्रत्यनीकेषु प्रतिसैनिकभावेषु ॥ ५।२०।२० ॥

प्रतिकर्मप्रसाधनम् अलङ्करणमिति यावत् ॥ ५।२०।२१ ॥

प्रतिकर्मणा युक्तं ते रूपं पश्यामि भाविकमत्रालङ्कारः । दाक्षिण्येन मद्विषयककृपया । प्रतिकर्माभिसंयुक्ता भवेति शेषः ॥ ५।२०।२२,२३ ॥

ललस्वेप्सां कुरु । मत्प्रसादान्मयि प्रसादात् । ललन्त्या मदीप्साजनितप्रभावेण वर्धमानायाः ॥ ५।२०।२४ ॥

ऋद्धिं पराक्रमादिसंपदम्, श्रियं धनादिसंपदम् ॥ ५।२०।२५ ॥

निक्षिप्तविजयो निरस्तविजयसाचनः, अत एव गतश्रीत्वादिगुणः । जीवनस्यैव सन्देह पराक्रमादसंभावना दूरत इत्यर्थः ॥ ५।२०।२६ ॥

द्रष्टुं वापि प्राप्तिस्तु दूरतरेत्यर्थः । उपलभ्यते । व्यत्ययेन श्यन्प्रत्ययः समर्थो भवतीत्यर्थः । “उपलप्स्यते” इति पाठे समर्थो भविष्यतीत्यर्थः । पुरोबलाकैरग्रेसरबलाकैः ॥ ५।२०।२७ ॥

इन्द्रहस्तगतां कीर्तिं कीर्तितुल्यां भार्यामिन्द्रहृतां नारदमुखेन प्रार्थनया यथा हिरण्यकशिपुः प्राप्तवान्, नैवं त्वां रामः प्राप्स्यतीति भावः । इयं च कथा भागवते प्रसिद्धेति तीर्थः ॥ ५।२०।२८,२९ ॥

स्वेषु दारेषु मन्दोदर्यामपि ॥ ५।२०।३० ॥

ऐश्वर्यमाधिपत्यम् ॥ ५।२०।३१३४ ॥

प्रदिश देह्यभितो मेदिनीमपीष्टेभ्यो देहि । लल ईप्सावती भव । ललन्तु प्राप्तसमस्तेप्सिता भवन्तु । प्रक्षिप्तो ऽयम् ॥ ५।२०।३५,३६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे विंशः सर्गः ॥ ५।२० ॥