०१९ रावणेन सीतादर्शनम्

ततो हनूमतः प्लवनानन्तरम् । तस्मिन्नेव काले ऽपररात्ररूपे आगमनकाल एव रावणं दृष्ट्वा । ततो ऽनन्तरं प्रावेपत ॥ ५।१९।१,२ ॥

रुदत्युपविष्टा ऽभूत् । भीतस्वभावोक्त्या स्वभावोक्तिरत्रालङ्कारः ॥ ५।१९।३ ॥

सन्नां शीर्णाम् । शीर्णनौस्थं जनमिवेत्यर्थः ॥ ५।१९।४ ॥

असंवृतायामास्तरणरहितायाम् । संशितव्रतां रावणवधाय तीक्ष्णं व्रतमिव कुर्वाणाम् ॥ ५।१९।५ ॥

मलेन मण्डनस्थानेषु दिग्धाङ्गीं रूषिताङ्गीम् । “चित्राङ्गीम्” इति पठित्वा मलरूपेण मण्डनेन चित्राङ्गीं कर्बुरामित्यर्थं तीर्थ आह । संन्यासित्वादुचितैव तस्य मले ऽपि मण्डनत्वबुद्धिः । ईदृशीं यां ददर्श सा पङ्कदिग्धा मृणालीव विभाति न विभाति च । स्वरूपशोभयातिमलावरणाच्च न विभातीत्यर्थः ॥ ५।१९।६ ॥

सङ्कल्पस्तच्चिन्तनं तद्रूपाश्वसंयुक्तैर्मनोरथै रामसमीपं यान्तीमिव ॥ ५।१९७ ॥

अपश्यन्तीं तामिव ॥ ५।१९।८ ॥

आविष्टां मन्त्राद्यवरुद्धाम् धूप्यमानां सन्तप्यमानाम् धूमवर्णेन केतुना ॥ ५।१९।९ ॥

वृत्तमाचारः, शीलं सत्स्वभावः, तद्युते विहितकर्मानुष्ठानवति च कुले जाताम् तादृश एव कुले पुनः संस्कारं पाणिग्रहणसंस्कारमापन्नामपि दुष्कुले जातामुत्पन्नां तत्रैव प्राप्तसंस्कारामिव च मलिनां स्थिताम् । स्त्रीणां विवाहस्यैवोपनयनद्वितीयजन्मस्थानत्वादिति भावः ॥ ५।१९।१० ॥

सन्नां क्षीणाम् विमानितामनादृताम् ॥ ५।१९।११ ॥

आयती धनादिप्राप्तिः । आज्ञा राज्ञ इति शेषः । काल उत्पातकाले पूजां देवपूजाम् ॥ ५।१९।१२ ॥

पौर्णमासीं तत्संबन्धिनीम् । तमो राहुः ॥ ५।१९।१३ ॥

प्रभां रविप्रकाशम् । तमो ऽन्धकारः । परामृष्टां वेदवेदिरहितपतितैराक्रान्ताम् ॥ ५।१९।१४ ॥

उत्कृष्टानि त्रुटितानि पर्णानि कमलानि यस्याः सा ॥ ५।१९।१५ ॥

विस्रावितां रोधोभङ्गादिना ऽन्यतः प्रापितजलाम्, अत एव शुष्काम्, मृजयाङ्गशुद्ध्या हीनाम् ॥ ५।१९।१६,१७ ॥

गृहीतां धृताम् । पश्चात्स्तम्भे लाडितां बद्धाम् । कश्चित्तु– “गृहीतामालिताम्” इति पठित्वा आलितामालानितामित्यर्थमाह ॥ ५।१९।१८ ॥

अयन्नत इति । केशसंस्काराभावदयत्नतः सिद्ध्येति शेषः ॥ ५।१९।१९ ॥

अल्पाहारां जलमात्राहाराम् अस्नातयान्नस्य ग्रहीतुमशक्यत्वात् देवराजतः पायसलाभेन तदनपेक्षणाच्च ॥ ५।१९।२० ॥

तपोधनत्वादेव रघुमुख्यस्य सकाशाद्दशग्रीवपराभवमायाचमानां प्रार्थयन्तीम्, अत एव भावेनान्तरध्यानेन देवतामिव एवार्थे इव । स्वकुलदेवतामेवोद्दिश्य प्राञ्जलिं कृतनमस्काराम् ॥ ५।१९।२१ ॥

क्रोधेन रोदनेन वा ताम्रपान्ते आयते शुक्ले च लोचने यस्यास्ताम् । वधाय तावन्मात्रफलकमेव, न तु स्वेष्टफलकमिति तात्पर्यम् ॥ ५।१९।२२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः ॥ ५।१९ ॥