०१८ अशोकवाटिकायां रावणागमनम्

तथेति । किञ्चिच्छेषापरयाममात्रशेषा । विचिन्वतस्तस्याः स्पष्टदर्शनाय राक्षसीनिद्रारूपमवसरमन्वेषयतः ॥ ५।१८।१ ॥

विरात्रे रात्रिविपर्यासे । अपररात्र इत्यर्थः । ब्रह्मरक्षसां ब्रह्म वेदस्तज्ज्ञरक्षसाम् तदेव स्पष्टीकृतम्– षडङ्गेत्यादिना ॥ ५।१८।२,३ ॥

निद्रावशादेव स्रस्तमाल्याम्बररधरः ॥ ५।१८।४ ॥

भृशं नियुक्तो गाढाभिनिवेशितचित्तः । कामे कामवेगम् । इट्टशेषु तीर्थस्यान्यथायाजेनं भ्रान्त्यैव । रक्षसस्तमोगुणाविष्टस्य भगवन्मायामोहितस्याकृत्येष्वेव प्रवृत्तेः तथा क्रियमाणं भगवद्ध्यानमपि पापभोगोत्तरं जन्मान्तरे उत्तमफलायेति बोध्यम्, अत एव ऋक्षाश्वमेघनाम्नो राज्ञो दानस्तावको ऋङ्मन्त्रः– “न युष्मे वाजबन्धवो निनित्सुश्च न मर्त्यः । अवद्यमधि दीधरत ॥ " इति। तस्यार्थः– वाजमित्यन्ननाम । अन्नदानेन ये सर्वेषां बन्धवस्तेषां संबोधनं हे वाजबन्धवः युष्मे युष्मास्वधि । सप्तम्यर्थानुवाद्यधिः । निनित्सुश्च न निन्दनेच्छाशीलोऽपि मर्त्योऽवद्यं न दीधरन्न धारयति । भगवदनुसन्धानेनैव निष्पापत्वादिति । एवं च भगवतो निन्दावरुद्धभावेन ध्यानमपि नरकभोगोत्तरं जन्मान्तरे उत्तमफलाय अत एवास्य मरणोत्तरं चतुर्थचतुर्युग्यां चेदिराजकुले जन्म, चतुर्विंशतिचतुर्युग्यां रामावतार इति हरिवंशोक्तेस्तावत्पर्यन्तं चैतत्पापफलभोग इत्यर्थायातमिति बोध्यम् ॥

५।१८।५७ ॥

वीथीरशोकवनिकामार्गगमनवीथीः ॥ ५।१८।८,९ ॥

अङ्गनाः शतमात्रमित्यवधारणे इति कतकः । देवादियोषितो महेन्द्रमिव पौलस्त्यं रावणमनुव्रजन् । अडभाव आर्षः ॥ ५।१८।१० ॥

काञ्चनीः काञ्चनदण्डाः । वालव्यजनहस्ता इत्यस्यान्वव्रजन्निति शेषः । तालवृन्तानीत्यस्य जगृहुरिति । अनेन लङ्कायां हेमन्तशिशिरयोरपि शीताभावो ध्वनितः ॥ ५।१८।११ ॥

भृङ्गारैः कलशैः । धत्तूरकुसुमसदृशजलपात्रैरित्यर्थ इति तीर्थः । मण्डलाग्रा वृत्तपर्यन्ताः बृसीरासनविशेषान् तपस्विनामिमे तृणादिना, अस्य तु स्वर्णेनेति विशेषः ॥ ५।१८।१२ ॥

पानस्य पूर्णां पानेन पूर्णाम् शेषे षष्ठी । भ्राजतीं देदीप्यमानाम् । दक्षिणा ऽनुकूला ॥ ५।१८।१३१५ ॥

व्याविद्धाः स्थानादीषच्चलिताः । सम्यगामृदितो मृष्टो वर्णको ऽनुलेपनं यासां ताः ॥ ५।१८।१६ ॥

समाल्याः सपुष्पा आकुला मूर्धजा यासां ताः ॥ ५।१८।१७ ॥

मदिरलोचना मदकरवीक्षणाः । बहुमानाद्भर्तृकृतसंमानात् । कामात्स्वीयात् ॥ ५।१८।१८ ॥

मन्दो दुर्मतिः । मन्दं यथा तथाञ्चिता गतिर्यस्य ॥ ५।१८।१९,२० ॥

द्वारदेशमशोकवनिकाप्राकारदेशम् ॥ ५।१८।२१ ॥

दीपिकाभिर्भासितम् । रात्रिशेषसत्त्वात् द्वादश्यां यामावशिष्टरात्रौ चन्द्रस्यास्तगमनाच्च ॥ ५।१८।२२ ॥

जिह्मादिगुणके ईक्षणे यस्य तम् समक्षं प्रत्यक्षं कन्दर्पमिव स्थितम् अपविद्धशरासनं त्यक्तेक्षुचापम् ॥ ५।१८।२३ ॥

अमृतं पयः मथितपयःफेनवच्छुक्ला आभा यस्य तत् अरजो धौतम् सपुष्पं पुष्पमालासहितं विमुक्तं विशिष्टमुक्तावन्तम् । यद्वा स्थानाच्युतमङ्गदे सक्तं वस्त्रमवकर्षन्तमङ्गदादाकृष्य यथास्थाने स्थापयन्तम् । “सपुष्पमवकर्षन्तम्” इत्येव पाठः । तीर्थस्तु एतद्योजनाशक्त्या “सलीलमवकर्षन्तम्” इत्येव पाठः । तीर्थस्तु एतद्योजनाशक्त्या “सलीलमवकर्षन्तम्” इति पाठं कल्पयति ॥ ५।१८।२४ ॥

पत्रविटपे निबिडपत्रशाखायाम् विज्ञातुमयममुक इति विशेषेण ज्ञातुम् । “निध्यातुम्” इति पाठे ऽप्ययमेवार्थः ॥ ५।१८।२५,२६ ॥

प्रमदानां क्रीडार्हं वनं प्रमदावनम् ॥ ५।१८।२७ ॥

शङ्कुकर्णनामा तद्वनरक्षी राक्षसस्तेन विश्रवसः पुत्रो राक्षसो रावणो दृष्टः नान्येन केनापि पुरुषेणेत्यर्थः ॥ ५।१८।२८,२९ ॥

यः पुरमध्ये पुरा शेते शयितः सो ऽयमेवेत्यन्वयः । तस्माद्रावणो ऽयमिति सञ्चिन्त्यावप्लुतः । स्वाश्रितशाखाया अत्यूर्ध्वशाखान्तर इति शेषः ॥ ५।१८।३० ॥

यद्यपि स समुद्रलङ्घनकर्ता, स मारुतात्मजो हनूमानुग्रतेजा तथापि तस्य रावणस्य तेजसा निर्धूतस्तस्य पुरोवस्थातुमशक्नुवन्पत्रे पत्रबहुले अत एव गुह्यान्तरे शाखान्तरे सक्तः स्थितः । तत्राप्यत्यल्पशरीरतया संवृतो गुप्तो ऽभवत् सर्वमायातिरस्कारकमायावतस्तस्य दृष्ट्यग्रे माययाल्पशरीरादिमत्वेन स्थातुमश्क्यत्वादेवं करणम् ॥ ५।१८।३१ ॥

उपावर्तत समीपं प्राप्तः ॥ ५।१८।३२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे ऽष्टादशः सर्गः ॥ ५।१८ ॥