ततस्तद्दिनापगमोत्तरम् कुमुदखण्डं कुमुदसमूहस्तदाभः श्वैत्येन निर्मलं नभो जगाम । नभसो निर्मलत्वं स्वच्छनीलवर्णत्वम् । अत एवाह– हंसा नीलमुदकमिवेति । नभसो नीलत्वं प्रतीत्या कविसंप्रदायेन च बोध्यम् । नभो जगाम किञ्चिन्नभउपरिभागं जगामेत्यर्थः ॥ ५।१६।१ ॥
साचिव्यमिव सीतादर्शनादौ प्रभया स्वकान्त्या साचिव्यमिव साहाय्यकमिव दिवा क्वचिदेकान्तप्रदेशे स्थितत्वान्निद्राव्याकुलत्वाच्च न सम्यग्राक्षसीनां सीतायाश्च दर्शनम् रात्रौ चन्द्रोदये सति तु पुनः समीपदेश आगत्य स्थितस्य सम्यक्सर्वदर्शनम् ॥ ५।१६।२ ॥
शोकभारैर्न्यस्तामधोनीतामिव निमज्जमानामिव ॥ ५।१६।३ ॥
दिदृक्षमाणः प्रकटतया तां द्रष्टुमिच्छुः ॥ ५।१६।४ ॥
कर्णप्रावरणामिति विशालकर्णीम् । मस्तकोच्छ्वासनासिकामूर्ध्वमुखनासाम् ॥ ५।१६।५ ॥
अतिकायोत्तमाङ्गीमतिप्रवृद्धोपरिभागदेहवतीम् तनुदीर्घशिरोधराम् अस्थूलदीर्घग्रीवामित्यर्थः । शारीरकैशैः कम्बलधारिणीमिव ॥ ५।१६।६ ॥
चिबुके संबद्ध ओष्ठो यस्यास्ताम् ॥ ५।१६।७ ॥
विकटां वक्रशरीराम् । करालां भयङ्करकृष्णवर्णाम् ॥ ५।१६।८ ॥
विकृतत्वादिगुणाश्च या राक्षस्यस्तत्र स्थितास्ता ददर्शेति वक्ष्यमाणेनान्वयः । कूटो ऽयस्कारकूटाभ आयुधविशेषः ॥ ५।१६।९ ॥
निखातशिरसः कबन्धवदुरःप्रदेशगतशिरसः ॥ ५।१६।१० ॥
हरिकर्णीः सिंहकर्णीः ॥ ५।१६।११ ॥
गजसंनिभनासाः शुण्डादण्डोपेतनासाः ॥ ५।१६।१२ ॥
पादचूलिकाः पादे संलग्ना चूडा शिरःकेशा यासां ताः पादे वा चूडाकाराः केशा यासां ताः अतिमात्रमतिप्रमाणम् ॥ ५।१६।१३१५ ॥
सुरामांससदाप्रियाः सुरामांसे सदा प्रिये यासां ताः ॥ ५।१६।१६,१७ ॥
स्कन्धवन्तं प्रशस्तशाखोपशाखावन्तं वृक्षं शिंशपावृक्षं परिवार्य तन्मुलादीषद्दूर आसीनाः स्थिताः । तस्याधस्तात्तन्मूलसमीपे ॥ ५।१६।१८,१९ ॥
दिवश्च्युतां भूमौ पतिता तारामिव । चारित्रव्यपदेशः पातिव्रत्यजकीर्तिः । भर्तृदर्शनं दुर्गतं दुर्लभं यस्यास्ताम् ॥ ५।१६।२० ॥
उत्तमभूषणजशोभाहीनामपि भर्तृवात्सल्येन तत्प्रियत्वेन शोभावतीम् । विनाकृतां रहिताम् ॥ ५।१६।२१ ॥
पयोदान्ते वर्षान्ते । अनेन दुःखस्यात्यल्पावशिष्टत्वं सूच्यते ॥ ५।१६।२२ ॥
असंस्पर्शाद्भर्तृस्पर्शाभावात्, अत एवायुक्तां वीणावादकवादनक्रियारहितां वल्लकीं वीणामिव स्थिताम् । अयुक्तां रक्षसां वशे रक्षोधीनत्वे ऽयोग्याम् ॥ ५।१६।२३ ॥
शोकसागरमाप्लुतां तत्र मग्नाम् । ताभी राक्षसीभिः सग्रहां क्रूरग्रहाविष्टाम् ॥ ५।१६।२४ ॥
अकुसुमलतासादृश्यमाभरणत्यागात् वपुषा स्वरूपीयसहजसौन्दर्येण । कारकदीपकमत्रालङ्कारः, समुच्चयश्च ॥ ५।१६।२५,२६ ॥
भर्तृतेजसा भर्तृपराक्रमानुसन्धानेनादीनहृदयम् ॥ ५।१६।२७,२८ ॥
दुःखस्य दुःखसागरस्य । अत्राधेयेनाधारनिगरणम् ॥ ५।१६।२९ ॥
क्षामां कृशाम् । विनाभरणशोभिनीमाभरणानुग्रहमनपेक्ष्यैव सौन्दर्येण शोभमानाम् ॥ ५।१६।३० ॥
राघवं नमश्चके इति । भगवतो राघवस्यानुग्रहादेवेयं मया दृष्टेति पुनः पुनः स्मृत्वा नमस्कारः ॥ ५।१६।३१ ॥
संवृतो ऽभवद्राक्षसीनां दर्शनपरिहाराय सूक्ष्मरूपमवलम्ब्य वृक्षमूलसमीपशाखासु निलीनो ऽभवत् ॥ ५।१६।३२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥ ५।१६ ॥