वीक्षमाण इतस्ततो ऽवलोकयन् । तत्रस्थः शिशपास्थः । मार्गमाणो मैथिलीहेतुनाधो दृष्ट्वा महीमवेक्षमाणः सर्वा तामशोकवनिकामन्ववैक्षत ॥ ५।१५।१ ॥
तां विशिनष्टि– सन्तानकेति । सन्तानकलताभिः सहितैः पादपैरित्यर्थः ॥ ५।१५।२ ॥
तां स ददर्शेत्यन्वयः । नन्दनसङ्काशां तद्वच्चन्दनद्राक्षाद्यनेकोपादेयवस्तुमतीम् ॥ ५।१५।३ ॥
बह्वासनैः कुथैरास्तरणैश्चोपेताम् । उपर्युपरि भूमियुक्ता गृहा बहुभूमिगृहाः ॥ ५।१५।४ ॥
सर्वर्तुषु कुसुमानि येषां तैः पादपैर्युक्ताम् । सूर्योदयप्रभामुद्यत्सूर्यसमकान्तिम् ॥ ५।१५।५ ॥
तत्रस्थः शिंशपास्थो मारुतिरशोकपुष्पैः प्रदीप्तामिवोदैक्षतेत्युत्प्रेक्षा । असकृच्छतशो विनिष्पतद्भिश्चित्रैः पुष्पाण्यवतंसवत्प्रतीयमानानि येषां तैर्विहगैर्निबिडशाखामपि निष्पत्रशाखां क्रियमाणाम् बहुपक्षिपक्षपिहितपर्णतया पत्ररहिताशाखामिवेत्यर्थः । तथोच्यमानविशेषणैरशोकैः पुष्पभारेण पुष्पसमूहेन जनितातिभारैः, अत एवातिभारवशादतिप्रह्वशाखतया भूमिं स्पृशद्भिः कर्णिकारैः किंशुकैश्च युतः स देशस्तेषां प्रभया प्रदीप्त इव ॥ ५।१५।६१० ॥
नीलाञ्जननिभा इति । एवमुक्त्या ऽशोकानामनेकवर्णपुष्पवत्त्वं सूचितम् । विबुधोद्यानं नन्दनम्, यथा नन्दनमाह्लादकं तद्वदाह्लादकम् चैत्ररथं कुबेरवनं यथा चित्रं तद्वच्चित्रम् ॥ ५।१५।११ ॥
तदुभयमप्यतिवृत्तमिवातिक्रम्ये स्थितम् । पुष्परूपज्योतिर्गणैरायुतम् ॥ ५।१५।१२ ॥
पुष्परूपै रत्नशतैः ॥ ५।१५।१३ ॥
मृगादिभिः स्वीयैर्नानाविधैः शब्दै रम्यं कृतम् । एवंविशेषणकमुद्यानमशोकवनिकान्तर्गतं ददर्शेत्यनुकर्षः ॥ ५।१५।१४ ॥
शैलेन्द्रो हिमवान् । तस्यां पूर्ववर्णितायाम् ॥ ५।१५।१५ ॥
चैत्यं वर्तुलाकारत्वाद्बुद्धायतनमिव प्रासादम् । स्तम्भसहस्रेणाधारभूतेन स्थितम् ॥ ५।१५।१६,१७ ॥
प्रांशुभावत्वादुच्चस्वभावत्वात् । ततस्तद्दर्शनानन्तरम् । मलिनवासःसंवीतत्वादिविशेषणवतीं सीतां दूरादेव तन्मूलस्थां ददर्शेत्यनुकर्षः ॥ ५।१५।१८,१९ ॥
मन्दप्रख्यायमानेन इदमिदमितीदं तदिति वा कथंचिदूह्यमानेन रूपेण स्वरूपेणोपलक्षिताम् ॥ ५।१५।२० ॥
क्लिष्टेन जीर्णेन पांसुष्वास्तरणेन वा क्लिष्टेन । सपङ्कां मलवच्छरीराम् । पद्मिनी लक्ष्मीर्लता च ॥ ५।१५।२१ ॥
अङ्गारकेणेव तत्तुल्येन ग्रहेण केतुना पीडितां रोहिणीमिव ॥ ५।१५।२२,२३ ॥
प्रियं जनं रामलक्ष्मणसुग्रीवादिरूपं जनम् । श्वगणेन शुनां गणेन ॥ ५।१५।२४ ॥
जघनं पृष्ठभागं गतया प्राप्तयैकया हरणदिनकृतैकसंस्कारवत्या । यद्वा पुरोभागीयवेणीद्वयराहित्येन पृष्ठलम्बयैकया वेण्या नीलनागाभया नीलसर्पतुल्यया वेण्योपलक्षिताम् अनेन तत्स्पर्शे ऽन्यस्य मरणमेवेति सूचितम् । मेघापाये नीलया वनराज्योपलक्षितां महीमिव स्थिताम् ॥ ५।१५।२५,२६ ॥
उपपादिभिः सीतात्वनिश्चयोपपादनसमर्थैः । तत्कारणं प्रत्यभिज्ञानमाह– ह्रियमाणेति । यथारूपा दृष्टा यादृग्वेषवर्णादिमत्यनुभूता तथारूपेयम् । भेदे हि प्रत्यभिज्ञानमनुपपन्नमिति भावः ॥ ५।१५।२७ ॥
पूर्णचन्द्राननत्वादिगुणवतीं निरीक्ष्य तस्य बुद्धिः सन्दिदिहे इत्यष्टात्रिंशच्छ्लोकेनान्वयः । सुभ्रूं सुभ्रुवम् ॥ ५।१५।२८ ॥
सर्वा दिशो वितिमिराः कुर्वतीम् नीलकण्ठीं सौभाग्यसूचकेन्द्रनीलमणिमयकण्ठस्थभूषणप्रभया तद्वर्णकण्ठाम् सुप्रतिष्ठितां सुप्रतिष्ठितसर्वावयवसंस्थानाम् ॥ ५।१५।२९ ॥
चन्द्रप्रभासादृश्यं सर्वानन्दकरत्वेन ॥ ५।१५।३० ॥
नियतां भूशयनादिरूपनियमवतीम् तापसीमिव भूमावासीनाम्, भुजगेन्द्रवधूसादृश्यं दुष्प्रधृष्यत्वेन रक्षःकुलनाशकत्वेन च ॥ ५।१५।३१ ॥
न राजतीमराजतीम् विभावसोः शिखामिव पातिव्रत्यतेजसा ज्वलन्तीम् ॥ ५।१५।३२ ॥
स्मृतीमिवेति दीर्घ आर्षः । सन्दिग्धामर्थसन्देहवतीम् ऋद्धिमैश्वर्यम् निपतिताम् अन्यायवशादिति भावः । विहताम् नास्तिकबुद्ध्येति भावः । प्रतिहताम् स्वविषयालाभादिति भावः ॥ ५।१५।३३ ॥
सोपसर्गां सविघ्नाम् । सकलुषां रागद्वेषादिकालुष्यवतीम् । अभूतेनापवादेन केवलमारोपितेन कलङ्केन ॥ ५।१५।३४ ॥
रामोपरोधो रामसेवाप्रतिबन्धः ॥ ५।१५।३५ ॥
कृष्णानि वक्त्राणि चाक्षिपक्ष्माणि यत्र तेन ॥ ५।१५।३६ ॥
संस्कारमानराहित्यान्मलपङ्कधरत्वम् । त्वगादिमलरूपः पङ्कः । नक्षत्रराजश्चन्द्रः ॥ ५।१५।३७ ॥
सन्दिदिहे प्रत्यभिज्ञाबाधकात्कार्श्यमालिन्यादितिरोहितरूपत्वात्सन्देहः । आम्नायो ऽभ्यासः ॥ ५।१५।३८ ॥
बाधकस्याकिञ्चित्करत्वमाह– दुःखेनेति । दुःखबोध्यत्वे हेतुः– अनलङ्कृतामिति । संस्कारेणेति स्नानानुलेपनादिरङ्गसंस्कारः । वाचो व्याकरणज्ञानादिजः संस्कारः । देव्या अर्थान्तरगतत्वं देशान्तरगतत्वम् । वाचस्तु विवक्षितार्थादन्यार्थबोधकत्वम् । वाचो ऽर्थो यथा व्याकरणाद्यभ्यासदुःखेन व्युत्पत्तिं संपाद्य बुध्यते, तद्वत्सीतां कष्टेन बुबुधे ॥ ५।१५।३९ ॥
कारणैरुपपादयन्सीतानिश्चयहेतुभिरुपपत्तिमन्तं संपादयन् ॥ ५।१५।४० ॥
इदानीं सीतात्वोपपादकमाह– वैदेह्या इति । तदा स्वप्रस्थानसमये । “गात्रशोभीनि” इति पाठः कतकसंमतः । येष्वङ्गेषु यान्याभरणजालान्यकीर्तयत्तान्याभरणजालानि तत्तद्गात्रशोभीन्यलक्ष्यदिति प्रत्यभिज्ञाप्रामाण्यं सिद्धम् । तीर्थस्तु– “शाखाशोभीनि” इति पाठं प्रकल्प्य रामविश्लेषसमये भूषणधारणस्यानुचितत्वाद्वैदेह्या भूषणानि स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीति गम्यत इति व्याचख्यौ, तत्तूत्तरश्लोकयोर्हस्तेष्विति तथा श्यामानि चिरयुक्तत्वादिति पदस्वरसविरुद्धम् । किञ्चैवं तदङ्गे रामोक्ताभरणाभावादसीतत्वमेव स्यात् ॥ ५।१५।४१ ॥
अथ कस्मिन्गात्रे किमाभरणं दृश्यते तत्राह– सुकृताविति । सुकृतौ निर्मितौ कर्णवेष्टौ कुण्डले । श्वदंष्ट्रौ कर्णाभरणविशेषौ त्रिकर्णकापरनामानौ । सुसंस्थितौ कर्णरूपाङ्गे सुप्रतिष्ठितौ । उपलक्षये इति शेषः । हस्तेषु हस्तावयवेषु च यानि मणिविद्रुमचित्राप्याभरणानि रामेणोक्तानि तथैव सुस्थितान्युपलक्षये ॥ ५।१५।४२ ॥
चिरयुक्तत्वाच्चिरकालमसंस्कृतदेहस्थितत्वेनासंस्कृतत्वात् श्यामान्यपि श्यामवर्णान्यपि तथासंस्थानवन्ति रामोक्तसंनिवेशवन्ति । यानि रामो ऽन्वकीर्तयत्तान्येवेमानीति मन्ये ॥ ५।१५।४३ ॥
इतो ऽप्येवमित्याह तत्रेति । रामोपदिष्टेषु यान्याभरणान्यवहीनानि पतितानि । ऋष्यमूकादावित्यर्थः ॥ ५।१५।४४ ॥
कानि त्यक्तानीति त्वयावगतानि तत्राह– पीतमिति । कनकपट्टाभत्वेन स्वर्णतन्तुमात्रनिष्पन्नत्वं तस्य सूच्यते । नगासक्तं वृक्षासक्तम् ॥ ५।१५।४५ ॥
ऋष्यमूके वस्त्रभूषणत्यागो ऽप्यनयैव कृत इत्याह– अनयैवेति ॥ ५।१५।४६ ॥
इदं वसनम् अन्तरीयवस्त्रमित्यर्थः । चिरधृतत्वात्क्लिष्टवत्तरं शयनादिना मृदितं तथापि तद्वर्णम् । स पीतो रागः । अनूनमप्रच्युतम् क्लीबत्वमार्षम् । अर्धर्चादिर्वा वर्णशब्दः । तथा श्रीमच्छोभावत् । यथेतरत् अस्मद्गृहीतमुत्तरीयमित्यर्थः ॥ ५।१५।४७ ॥
एवं जातनिश्चय आह– इयमिति । प्रनष्टा दर्शनमप्राप्तापि यस्य रामस्य मनसस्तु न प्रणश्यति नादृष्टा भवति नित्यं संनिहिता भवतीत्यर्थः ॥ ५।१५।४८ ॥
सेयमेव । के चत्वारस्तत्राह कारुण्येनेति ॥ ५।१५।४९ ॥
परितापहेतुकारुण्यादि स्वयमेव दर्शयति– स्त्रीति । प्रणष्टा परेण पीडिता मया च सती सा न रक्षिता । आपदि स्त्रियो रक्ष्या इत्युक्तेस्तदकरणकृतकारुण्यात्परितापः । वनं प्रस्थितमपि मामाश्रिता सा च न रक्षितेति आनृशंस्यत आश्रितसंरक्षणस्वभावत्वेन तदकरणात्परितापः । पत्नी सर्वधर्मसादनभूता नष्टेति धर्मनाशचिन्ताशोकेन परितापः । प्रियेति परमरूपलावण्यादिमती परमसुखसाधनभूता नष्टेति पूर्वसंभोगादिस्मरणजमदनेन सर्वसिद्धसर्वेन्द्रियपरितापः ॥ ५।१५।५० ॥
अस्या यथा रूपादि तथा रामस्य, यथा रामस्य रूपादि तथास्या अपि, अतः सो ऽस्या योग्यः, इयं च तस्य योग्येत्यर्थः । अनेनोभयोरन्योन्यमानुरूप्यं दर्शितम् ॥ ५।१५।५१ ॥
अथान्योन्यानुरागमाह अस्या देव्या इति । येनास्याश्चित्तं रामे सक्तं तस्य चास्यां तेनेयं स च जीवति । चित्तसंनिधानेन वियोगाभावादिति भावः । मुहूर्तमपीत्यस्यान्यथेत्यादिः– न जीवेदिति च शेषः ॥ ५।१५।५२ ॥
दुष्करमिति । अत्र तेनेति वर्तते । तेन चित्तसंनिधानेन । दुष्करं किं कृतवांस्तत्राह– धारयतीति । वर्तमानसामीप्ये लट् दधारेत्यर्थः ॥ ५।१५।५३ ॥
सीतामेवमेवंगुणां तथा मलिनवासःसंवीतत्वोपवासकृशत्वाशोकध्यानपरायणत्वादिपातिव्रत्यधर्मवतीं दृष्ट्वा हृष्टः सन्रामं सस्मार, स्मृतं च तं प्रशशंस । एवं पातिव्रत्यगुणवत्पत्नीलाभेन भाग्योत्तरो रामः । ईदृश्या वियोगेनेदृशी पीडा, ईदृशीप्राप्तय उद्यमश्चोचित एवेति । चात्सीतां च प्रशशंस । बलवता भव्येन प्रभुणा हृता ऽपि यैवं पातिव्रत्यात्तदेषैव सर्वोत्तमेत्येवं प्रशशंस ॥ ५।१५।५४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चदशः सर्गः ॥ ५।१५ ॥
सीतां प्रशस्य प्रशंसा च प्रागुक्तरूपा । चिन्तापरः सीताविषयदुःखेनेति भावः ॥ ५।१५।१ ॥
सीतामाश्रित्य सीतामुद्दिश्य ॥ ५।१५।२ ॥
गुरुभिर्विनीतस्य शिक्षितस्य लक्ष्मणस्य गुरुप्रिया गुरो रामस्य पत्नीत्वात् । तद्वदेव परमोपास्यत्वेनाभीष्टा सीता ऽयोनिजा निःसीमपातिव्रत्या रामपत्न्यपि यदि दुःखार्ता दुःखपीडिता, तर्हि कालो दुरतिक्रम इति हि निश्चितमित्यर्थः । दुःखोपायघटकत्वस्य काल एव प्रसिद्धत्वादिति भावः । ननु न दुःखं सुखं वा कालमात्रजन्यम्, कर्मानुष्ठानवैफल्यापत्तेः । तत्सापेक्षकालजन्यत्वे ऽपीश्वरावतारसीतारामयोः कर्माभावात्कथं दुःखमिति चेन्न । वस्तुतस्तु तयोर्दुःखाभावे ऽपि लोकानुग्रहाय गृहीतमनुष्यदेहयोस्तेषां मनुष्यत्वाभावबुद्धिप्रतिबन्धाय नटवद्व्यवहारमभिनयतोः सुखदुःखादिकालिकमुखविकासाद्यभिनयेन तन्मायामोहितस्यैव देवांशस्य हनूमतो ऽभिनीतकार्यदर्शनेन तत्कारणानुमानाद्दुःखार्तत्वाद्युक्तेः सामञ्जस्यात् । यथा च परेणोद्बोधनं विना हनूमतः स्वबलपराक्रमांशे मोहः, तथानयोर्भगवत्स्वरूपत्वे इदानीं तस्य मोह इति वक्तुं शक्यत्वात् पश्चात्तु भगवदिच्छयैव तस्य तयोः स्वरूपज्ञाने ऽपि न किञ्चिदवद्यम् ॥ ५।१५।३ ॥
नन्वेवंविधदुःखातिशये जीवनहानिरेव स्यादत आह– रामस्येति । सलक्ष्मणो राम एवंविधे दुर्गे स्थितामपि मां दिव्यास्त्रैः समुद्रमपि येनकेनाप्युपायेनोल्लङ्घ्यागत्यात्रायास्यतीति तस्य व्यवसायज्ञा पराक्रमज्ञा सती नात्यन्तं क्षुभ्यते नैराश्यमूलकं प्राणत्यागसंपादकं क्षोभं न प्रप्नोतीत्यर्थः । जलदागमे वर्षाकाले ऽपि गङ्गा यथेतरक्षुद्रनदीवद्दुर्धरवेगं न प्राप्नोति तद्वत् ॥ ५।१५।४ ॥
तुल्यशीलवयोवृत्तां रामतुल्यस्वभाववयश्चारित्राम् अभिजनः कुलम् । लक्षणं सामुद्रिकोक्तम्, अत एव सीताया रामस्य पुरुषान्तरे स्त्र्यन्तरे चाप्रवृत्तिः स्वभावमूलेति सूचितम् ॥ ५।१५।५ ॥
मनसा रामं जगाम अस्याः स एवानुरूप इति सस्मारेत्यर्थः । नवहेमाभाम् नवां तरुणीं हेमाभां चेत्यर्थः ॥ ५।१५।६ ॥
अस्या हेतोः सर्वात्मना स्वसदृश्याः प्राप्त्यर्थमित्यर्थः ॥ ५।१५।७ ॥
दूषणान्तरक्षोनिपातश्चैतदासक्त्या शूर्पणखानिरासमूलत्वादन्वेषणप्रतिबन्धसंभावनामूलकत्वाच्चैतन्मूल एव । शम्बरो ऽयं प्रद्युम्नहतादन्य एव महेन्द्रपदेन तत्तुल्यप्रद्युम्ने लक्षणा वा ॥ ५।१५।८१० ॥
अस्या निमित्ते सप्तम्यर्थे षष्ठी । अस्यां निमित्तभूतायां सत्यामित्यर्थं इति तीर्थः ॥ ५।१५।११,१२ ॥
परिवर्तयेदधरोत्तरं कुर्यात् । संहरेदिति यावत् ॥ ५।१५।१३ ॥
एवं मतेर्युक्तत्वमुपपादयति– राज्यं वेति । त्रैलोक्यराज्यसीताप्राप्त्ययोः कतरदुत्कृष्टमिति विचारे आद्यं द्वितीयकोटिशतांशेन सादृश्यमपि नार्हतीत्यर्थः ॥ ५।१५।१४ ॥
आधिक्यमेवोपपादयति– इयमिति । अनेन कुलम्, भर्तृदृढव्रतेत्यनेन चारित्र्यातिशयः । मेदिनीं भित्त्वेत्यनेनायोनिजतया ऽमानुषदिव्यरूपत्वं दर्शितम् ॥ ५।१५।१५,१६ ॥
आर्यशीलस्य पूज्यशीलस्य । अनेन महाकुलीनपाणिग्रहणं दर्शितम् ॥ ५।१५।१७ ॥
यच्छेषतयैवं प्राशस्त्यं दर्शितं तस्य कालस्य दुरतिक्रमत्वमाह– इयं सेति । राक्षसीवशमागता कालप्राबल्यादिति भावः । “फलमत उपपत्तेः” इति व्याससूत्रेणापि कालात्मनो भगवत एव कर्मफलप्रापणसामर्थ्यं दर्शितम् ॥ ५।१५।१८ ॥
भर्तृस्नेहबलात्कृता बलात्प्रवर्तिता ॥ ५।१५।१९ ॥
भर्तृशुश्रूषणापरा । सन्नन्तात्स्वार्थे णिचि “ण्यासश्रन्थ” इति युच् ॥ ५।१५।२० ॥
पूर्ववदेवाह– सेयमिति । यातनां राक्षसीभिः संपाद्यमानतीव्रदुःखम् । अनर्थानामापदाम् ॥ ५।१५।२१ ॥
शीलसंपन्नामीदृशदुःखे ऽपि चारित्र्यप्रच्यवरहिताम् । प्रमथितां प्रमथितामपि । प्रपा पानीयशाला ॥ ५।१५।२२,२३ ॥
काम्यन्त इति कामाः, भुज्यन्त इति भोगाः स्रक्चन्दनादयः, तैस्त्यक्ता तत्समागमकाङ्क्षिणी । “एति जीवन्तमानन्दो नरं वर्षशतादपि” इति न्यायेनेति भावः ॥ ५।१५।२४ ॥
राक्षस्यः राक्षसीरित्यर्थः । एकस्मिंल्लक्ष्ये तिष्ठति तादृशं हृदयं यस्याः सा । किं तदेकं लक्ष्यं तत्राह– नूनं राममेवेति ॥ ५।१५।२५ ॥
राममेवेत्यत्र बीजमाह भर्ता नामेति । शोभनं शोभा ॥ ५।१५।२६ ॥
एतदेकहृदयत्वज्ञानादेव रामः प्रभुर्यज्जीवनरूपं दुःखेनावसादनाभावरूपं च दुष्करं कुरुते ॥ ५।१५।२७ ॥
ममापि तिर्यग्योनेरपि विषयानभिज्ञस्यापि ॥ ५।१५।२८ ॥
क्षितितुल्या क्षमा यस्याः सा । दृष्टिमात्रेण रावणस्याभस्मीकरणात् । संरक्ष्यते परैरनपहाराय गोप्यत इत्यर्थः ॥ ५।१५।२९ ॥
कृपणां शोच्याम् ॥ ५।१५।३० ॥
न केवलमशोक एव शोकजनकश्चन्द्रो ऽपीत्याह– हिमेति । हिमव्यपायेन वसन्तसमीपप्राक्कालेनोपलक्षितः । यद्वा लङ्कायां हिमव्यपायेन शीताभावेनाभ्युत्थितो ऽतिप्रकाशतया स्थितः, अत एव नैकसहस्ररश्मिरभ्युत्थितः उदयं प्राप्तः । शीतरश्मीश्च शोकं जनयतीत्यनुकर्षः ॥ ५।१५।३१ ॥
सीतेयमित्येवेयं सीतैवेति जातबुद्धिस्तामेव बुद्धिं संश्रित्य ततः परानुष्ठेयचिकीर्षया तस्मिंञ्शिशपावृक्ष एव निषसाद तद्रात्रिशेषं परदिनं च स्थित इत्यर्थः । एवं च सरावणान्तःपुरा सर्वापि लङ्का यामत्रयेण समुद्रलङ्घनदिनरात्रावेव विचिता, तुर्ये यामे ऽशोकवनिकाप्रवेश इति बोध्यम् ॥ ५।१५।३२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षोडशः सर्गः ॥ ५।१५ ॥