ध्यात्वोत्प्लवनं निश्चित्य तां सीतां मनसा ऽधिगम्य ध्यात्वा तस्य रावणस्य वेश्मनो वेश्मप्राकारात्प्राकारं वनप्राकारमवप्लुत उत्प्लवनेन प्राप्तः ॥ ५।१४।१ ॥
संहृष्टसर्वाङ्गः पुलकितसर्वाङ्गः । वसन्तादौ वसन्तादिसर्वर्तुषु संनिहितैः पुष्पैः पुष्पिताग्रान् ॥ ५।१४।२ ॥
भव्यान्न्युजफलान् । उद्दालका वृक्षविशेषाः । नागवृक्षान्नागकेशरवृक्षान् । कपिमुखान्कपिमुखाकारफलवतः । चूतविशेषणमेतत् ॥ ५।१४।३ ॥
ज्यामुक्तः रामेणेति शेषः ॥ ५।१४।४ ॥
विचित्रां विचित्रपर्यन्ताम् । राजतै रजतादिसंस्कृतैस्तद्वर्णैर्वा ॥ ५।१४।५ ॥
चित्रकाननां चित्रद्रुमखण्डाम् । उदितादित्यसङ्काशाम् पुष्पैरिति शेषः ॥ ५।१४।६ ॥
पुष्पोपगफलोपगैः पुष्पफलयुतैः ॥ ५।१४।७ ॥
काले सर्वस्मिन्नपि प्रहृष्टमनुजां मुखविकासादिलिङ्गकहर्षवज्जनाम् मृगादीन्मदेनाकुलयति ताम् “प्रहृष्टमनुजे काले” इति पदद्वये सप्तम्यन्तपाठे, तादृक्काले वसन्तप्राग्भवे तत्संनिहिते काले इत्यर्थः ॥ ५।१४।८ ॥
बोधयामास शाखाचङ्क्रमणेनेति भावः ॥ ५।१४।९ ॥
पक्षैरुत्पतद्भिरित्यन्वयः । समाहताः वृक्षा इति शेषः । पुष्पवृष्टयः पुष्पवृष्टीः ॥ ५।१४।१०,११ ॥
सर्वाभिधावन्तमिति सन्धिरार्षः । वसन्त इति मेनिरे इति अन्यस्येह वने ऽशक्यप्रवेशत्वाद्वसन्त एव वृक्षसञ्चारोचितं कपिरूपमास्थाय चरतीति मेनिरे इत्यर्थः । एतेन द्रष्टृ़णां तस्मिन्विमतिनिवृत्तिरीश्वरानुग्रहादिति सूचितम् ॥ ५।१४।१२,१३ ॥
बहुप्रकारं कम्पिताः ॥ ५।१४।१४ ॥
निर्धूतपत्राणि शिखराण्यग्राणि च येषां ते । धूर्ता अक्षधूर्ताः ॥ ५।१४।१५,१६ ॥
स्कन्धमात्रस्याश्रयाः न तु पुष्पादीनाम्, अत एवागमा असेव्याः । मारुतेन तत्पुत्रेण हनूमता विनिर्धुता इति ह्रस्व आर्ष इति कतकस्तद्वृथा ह्रस्वस्यापि धुञः सत्त्वात् ॥ ५।१४।१७ ॥
वर्णको विलेपनम् । निपीतः शुभदन्तयुक्त ओष्ठो यस्याः सा ॥ ५।१४।१८ ॥
लाङ्गूलहस्तैरित्यत्रैकत्वाभाव आर्षः ॥ ५।१४।१९ ॥
दामानि जालनि ॥ ५।१४।२०,२१ ॥
उच्मानविशिष्टा वापीर्ददर्श । श्लोकपञ्चकमेकं वाक्यम् ॥ ५।१४।२२ ॥
मुक्ताप्रवालरूपा एव सिकता यासाम् । आन्तरकुट्टिमा अभ्यन्तरनिबद्धभूमियुताः ॥ ५।१४।२३ ॥
नत्यूहो दात्यूहः ॥ ५।१४।२४ ॥
द्रमयुक्ताभिस्तीरद्रुमयुक्ताभिः । वापीनां सरिदुपस्कृतत्वं नित्यं पूर्णजलत्वाय ॥ ५।१४।२५ ॥
सन्तानः कल्पवृक्षः । गुल्मावृतवनाः । वनं जलम् । करवीरैः कृतमन्तरं गवाक्षस्थानीयं यासां ताः ॥ ५।१४।२६ ॥
ततो वापीदर्शनानन्तरम् ॥ ५।१४।२७ ॥
जगति लोके रम्यं सुन्दरवस्तुभ्यो ऽपि परमसुन्दरम् । तीर्थस्तु– जगती पर्वतमित्यर्थः । ह्रस्व आर्षः । मृत्पर्वतमिति यावदिति व्याचक्षाणा उपेक्ष्य एव ॥ ५।१४।२८ ॥
निपतितां निःसृताम् । समुत्पत्य कोपादुत्थाय पतितां भूमिशयिताम् ॥ ५।१४।२९ ॥
जलेन पतिताग्रैः पादपैः परिणाहवशादधःप्रसृतशाखाद्वारेण जलनिपतिताग्रत्वं वृक्षाणां कूलात्पातेन वा । प्रियं प्रति क्रुद्धां प्रियसमीपादन्यत्र जिगमिषुं प्रियबन्धुभिः सस्त्रीभिर्वार्यमाणां प्रमदामिव ॥ ५।१४।३० ॥
अत एव कान्तस्य प्रसन्नां पुनरुपस्थितां कान्तामिव, पुनरावृत्ततोयां वृक्षाग्रप्रतिघातात्परावृत्तजलां ददर्श ॥ ५।१४।३१ ॥
तस्य पर्वतस्य । पद्मिन्यः पद्मिनीरकृत्रिमदीर्घिकाः ॥ ५।१४।३२ ॥
उच्यमानविशेषणां कृत्रिमां दीर्घिकामपि ददर्श । सिकतशोभितामित्यत्र ह्रस्व आर्षः ॥ ५।१४।३३ ॥
प्रासादैरित्यस्य युतामिति शेषः ॥ ५।१४।३४ ॥
ये केचित्तत्र वृक्षास्ते सर्वे ऽपि पुष्पफलोभययुता एवेत्यर्थः ॥ ५।१४।३५ ॥
सच्छत्राश्छत्राकारसंस्थानवन्तः । तेन शीतलच्छायत्वं सूचितम् । सविततर्दीकाः सवेदिकाः । सौवर्णवेदिकाः राजतादिमहावेदिकोपरि कृतसौवर्णवेदिका इत्यर्थः । लतेत्यर्धमुत्तरान्वयि ॥ ५।१४।३६ ॥
एकां मुख्यां वृक्षान्तरसंबन्धरहितां च काञ्चनीं तद्वर्णां शिंशपाम् । “पिच्छिला गुरुशिंशपा” इति कोशः ॥ ५।१४।३७,३८ ॥
मेरोः प्रभया दिवाकर इव, तेषां द्रुमाणां प्रभया काञ्चनो ऽस्मीत्यमन्यत । काञ्चनवर्णमात्मशरीरं वीक्षते स्मेत्यर्थः ॥ ५।१४।३९ ॥
तान्काञ्चनानिति । किङ्किण्यस्तेषु फलादिवत्सहजाः, अत एव विस्मयमागमत् ॥ ५।१४।४० ॥
तेषां तरुधर्ममप्याह– सुषुष्पिताग्रानिति । तुणाः कोमला अङ्कुराः पल्लवाश्च येषां तान्दृष्ट्वा विस्मयं प्राप्त इत्यन्वयः । तां यस्याः पर्यन्तवृक्षा एवंभूतास्तामारुह्य । चिन्तयामासेति शेषः ॥ ५।१४।४१ ॥
इत इति । आगतामिति शेषः । तदेव स्पष्टयति इतश्चेतश्चेति ॥ ५।१४।४२ ॥
रम्येयमशोकवनिका दुरात्मनो रावणस्यैव दृढं ध्रुवम् । राक्षसान्तरस्यैवंविधतदसंभवात् ॥ ५।१४।४३ ॥
नलिनी चेयं रम्या सा च राजमहिषीत्वाद्रम्यप्रिया, अत एवेमां नलिनीं नूनमेष्यति ॥ ५।१४।४४ ॥
अरामा रामवियुक्ता । राजमहिषीत्वादेवोद्यानवनसञ्चारकुशला ॥ ५।१४।४५ ॥
अयमेवार्थं आदरेण बुद्धिस्थैर्यार्थं त्रिरावर्त्यते– अथवेति । सर्वथेत्यर्थः । न तु पक्षान्तरमिदम् तत्त्वासंभवात् ॥ ५।१४।४६,४७ ॥
अशोकवनिकान्तःशिंशपाप्रदेशे सीताया आगमने हेत्वन्तरमुन्नयति– वनेचराणामिति । मृगपक्ष्यादीनामित्यर्थः ॥ ५।१४।४८ ॥
सन्ध्या दिनरात्र्योः सन्धिरूपानुष्ठानकालो यस्य कर्मणस्तत्र मनो यस्याः सा, तथा सन्ध्यार्थे सन्ध्याकालक्रियमाणस्नानाद्यर्थे । पूर्ववदेवात्राप्युक्तस्यैवार्थस्यावृत्तिः । रात्रिशेषे हनुमतो ऽस्य वचसः प्रवृत्तेः । सन्ध्याशब्देनात्र प्रातःकालो विवक्षितः । तत्र कर्तव्यस्नानादौ चास्त्येव स्त्रीणामप्यधिकार इति कथं स्त्रीणां सन्ध्यावन्दनमिति परास्तं वेदितव्यम् । किं च सम्यग्भगवद्ध्यानस्यैव सन्ध्यापदार्थत्वेनास्त्येव तत्र स्त्रिया अधिकारः । गायत्रीमन्त्रेण तदर्थस्मरणपूर्वकध्याने तु द्विजस्यैवाधिकार इत्यन्यत् ॥ ५।१४।४९ ॥
या रामस्य पत्नी, संमता च पतिव्रतेति सर्वजनस्य, तस्याः शुभाया इयं नद्यशोकवनिका चानुरूपा योग्या ॥ ५।१४।५०,५१ ॥
प्रतीक्षमाणः सीताया आगमनमिति शेषः । अवेक्षमाण इतस्ततो ऽवलोकयन् । पर्णघने सुपुष्पिते शिंशपावृक्षे निलीनः सन्सर्वं वनं ददर्शेत्यन्वयः ॥ ५।१४।५२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुर्दशः सर्गः ॥ ५।१४ ॥