०१३ अशोकवाटिकाप्रस्थानम्

वेगवान्हनूमान्विमानात्प्राकारं सङ्क्रम्य घनान्तरे यथा विद्युत्सशोभा आसीत्तथासीत् । प्राकारस्येन्द्रनीलकृतत्वमनेन ध्वन्यते ॥ ५।१३।१ ॥

रावणस्य निवेशनान्गृहान्संपरिक्रम्य पुनः परिक्रमणेन दृष्ट्वा जानकीं चादृष्ट्वा ऽब्रवीत् । आत्मनैवेति बोध्यम् ॥ ५।१३।२ ॥

भूयिष्टं लोलिता बहुशो ऽन्विष्टा ॥ ५।१३।३,४ ॥

नन्वनुपलब्धिप्रमाणादभावनिश्चय एवास्त्वत आह इहेति । रावणनिवेशने एवाख्याता तद्वचश्च प्रमाणम् दृश्यते तु न किमिदमिति ॥ ५।१३।५ ॥

बहुप्रकारं चिन्तयति किं न्विति । पूर्वदृष्टां मन्दोदरीं सौन्दर्यादिगुणैः पुनः सीतात्वेन संभाव्य तन्निरासकवाक्यम् । रावणेन बलाद्धृता विवशा सती सीतोपतिष्ठेत रावणमिति शेषः । “रावणं दुष्टचारिणम्” इति पाठे तु यथाश्रुतमेव । इदं किं तु कुत्सितं तु, यतः सा मैथिली सा सीता लाङ्गलपद्धतिजत्वेनायोनिजा । वैदेही जगत्प्रशस्तविदेहवंशसंबद्धा । जनकात्मजा ब्रह्मवित्पुत्री ॥ ५।१३।६ ॥

तर्ह्यदर्शनं कुतस्तत्र हेतूनुत्प्रेक्षते क्षिप्रमिति । एते पक्षा दुःखातिशयात्संपातिवचनविस्मरणमूलकाः बिभ्यतः कराद्भ्रष्टेति शेषः । रामबाणानाम् आघातादिति शेषः । शेषे षष्ठी वा ॥ ५।१३।७ ॥

रामपरोक्षं तथा भयायोगात्पक्षान्तरम्– अथवेति । हृदयं पतितं मनउत्क्रान्तम् । मनउत्क्रमणस्यैव मरणत्वात् ॥ ५।१३।८ ॥

पीडितेन पीडनेन ॥ ५।१३।९ ॥

विचेष्टमाना विलुठन्ती ॥ ५।१३।१० ॥

ननु सर्वमेतदसंभावितं रावणेन सर्वापायरहितहरणस्येषत्करत्वादतः पक्षान्तरमाह– आहो इति । अथवेत्यर्थः ॥ ५।१३।११ ॥

ननु बहुभक्षणसामग्रीमत्त्वादनुरागवत्त्वाच्च तेन भक्षणमसंभावितमत आह– अथवेति । सापत्न्यदुःखादिति भावः ॥ ५।१३।१२ ॥

एतदुत्तरम् “संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् । रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ हा राम लक्ष्मणेत्येव हा ऽयोध्येति च भामिनी । विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ " इत्यादि श्लोकद्वयं प्रक्षिप्तमिति कतकः । ननु सपत्नीभिरप्यशक्यं भक्षणं रावणेन स्वभोगार्थमानीतत्वादत आह– अथवेति । निहिता गुप्ततया स्थापिता इति मन्ये । नायमपि पक्षो युक्त इत्याह– भृशमिति । एवमपि सा बाला पञ्जरस्था सारिकेव भृशं मुहुर्मुहू रामेति लालप्यते लालप्येत । न च तद्दृश्यत इति भावः ॥

५।१३।१३ ॥

ननु तर्हि रावणसमीप एव भवत्संपातिवचनप्रामाण्यात् मया तु सम्यङ् नान्विष्टमित्याशङ्क्याह जनकस्येति । तस्मादेतदप्ययुक्तमिति भावः ॥ ५।१३।१४ ॥

नन्वनेन विचारेणालम्, यथानुभूतं निवेद्यतां तत्राह विनष्टेति । अस्य क्वचिद्वर्तत इति शेषः । “णश अदर्शने” इति धात्वनुसाराददृष्टा सती क्वचिदस्तीति वक्तुमशक्यमक्षमम् सर्वतो ऽन्विष्टत्वात् । प्रणष्टा प्रगतं नष्टमदर्शनं यस्याः सा दृष्टेत्यर्थः । एतदपि न वक्तुं क्षमम् स्वयमदृष्टत्वात् । एवं मृतेत्यपि वक्तुं न शक्यम् तत्साधकदृढतरप्रमाणाभावात् । तस्माद्रामस्याग्रे किमपि वक्तुं न शक्यम् । दृश्यदेशे मायया ऽदर्शनं विनाशः, अदृश्यदेशे ऽवस्थापनं प्रणाश इति तु तीर्थः ॥ ५।१३।१५ ॥

तदेव स्पष्टयति– निवेद्यमाने इति । न दृष्टेति । निवेद्यमाने दोषो वक्ष्यमाणरामप्राणत्यागरूपः । अनिवेदने स्वामिवञ्चनारूपो दोषः । तस्मान्निवेदनानिवेदनरूपमुभयमपि विषमं दुरनुष्ठेयं प्रतिभाति ॥ ५।१३।१६ ॥

एतदनन्तरं कविवाक्यम् अस्मिन्निति । कार्ये एवंगते सति दुर्निरूपे सतीत्यर्थः । प्राप्तकालं कालोचितं किं क्षमं किं वक्तुं युक्तं भवेदिति भूयो मतिं तद्विषयं पक्षं विचारयन्न भूदिति शेषः ॥ ५।१३।१७ ॥

विचारमेव प्रपञ्चयति यदीति । को भविष्यति न को ऽपीत्यर्थः ॥ ५।१३।१८,१९ ॥

वक्ष्यति असाध्वेव वक्ष्यतीत्यर्थः ॥ ५।१३।२० ॥

न दृष्टेत्यप्रियं यदि वक्ष्यामि । ततस्तच्छ्रवणानन्तरम् ॥ ५।१३।२१ ॥

परुषं कर्णकठोरम्, अत एव दारुणं भयङ्करम् तीक्ष्णमसह्यम् क्रूरमुग्राम् इन्द्रियाणां तापनं सन्तापकम् सीतानिमित्तं सीताविषयम् स रामः ॥ ५।१३।२२२५ ॥

ततो दिविस्थरामदर्शनात् ॥ ५।१३।२६,२७ ॥

वालिजेन वालिमरणजेन । पञ्चत्वमागता पञ्चत्वं प्राप्तुं निश्चयवती ॥ ५।१३।२८ ॥

तस्मात्तदनन्तरम् ॥ ५।१३।२९,३० ॥

यशस्विना कपिनाथेन सान्त्वादिभिर्लालिताः प्राणांस्त्यक्ष्यन्ति ॥ ५।१३।३१ ॥

निरोधेषु गुहादिसंवृतदेशेषु ॥ ५।१३।३२ ॥

सपुत्रदारा इत्यादेः कपिकुञ्जरा इति विशेष्यम् ॥ ५।१३।३३ ॥

शस्त्रं शस्त्रघातं प्रचरिष्यन्ति करिष्यन्ति ॥ ५।१३।३४३६ ॥

अगच्छति गमनरहिते । आशया सीतावृत्तान्तश्रवणप्रत्याशया धरिष्येते प्राणानिति शेषः ॥ ५।१३।३७ ॥

हस्तादानो हस्तपतितफलादिग्रहकः, तद्भोजीति यावत् । एवं मुखादानो मुखपतितभोजी नियतो नियतेन्द्रियः वृक्षमूलिको वृक्षमूलनिवासी ॥ ५।१३।३८ ॥

अरणीसुतमग्निम् ॥ ५।१३।३९ ॥

उपविष्टस्य प्रायमुपविष्टस्य । लिङ्गिनं प्राणलिङ्गिनं लिङ्गशरीरवन्तं वात्मानं साधयिष्यतः शरीरेण वियोजयिष्यतः । “लिङ्गिनीम्” इति पाठे प्राणलिङ्गिनीं चितिम् । चैतन्यमित्यर्थः ॥ ५।१३।४० ॥

इदं वक्ष्यमाणम् । आपः अप इत्यर्थः ॥ ५।१३।४१ ॥

सीतामपश्यतो मम यशस्विनी यशःसंपादिका । मृतस्य ख्यातिर्यशः सुजातमूला सुजातकारणवती कीर्तिरूपा माला । जीवतः सा कीर्तिः चिररात्रायेत्यव्ययम् चिरायेत्यर्थः । चिराय भग्ना आत्यन्तिकलयं गतेत्यर्थः । तीर्थस्तु– “चिररात्रीयं मम” इति पाठं प्रकल्प्य सीतान्वेषणोपयुक्तवेन शोभनमूला सीतान्वेषणसौकर्यापादकचन्द्रिकया सुभगा सीतान्वेषणसहकारिणीति सर्वैः क्रियमाणा कीर्तिरेव माला यस्याः सेयं चिररात्री चिरकालविशिष्टा दीर्घा रात्रिः स्वस्य लङ्काप्रवेशरात्रिः प्रभग्ना निष्फला जातेत्यर्थः । अनेन रामकार्यसहकारिणी स्वेच्छया रात्रिरप्यात्मानं वर्धितवतीति सूच्यत इत्याह ॥ ५।१३।४२ ॥

तापसो जटाकाषायादिचिह्नो यतिः ॥ ५।१३।४३ ॥

अदृष्ट्वा गमने निश्चितमासन्नं दोषमाह– यदि त्विति । न भविष्यति न जीविष्यति ॥ ५।१३।४४ ॥

एवमगमने निश्चिते मरमजीवितयोः किं श्रेयस्तत्राह– विनाश इति । दोषा बहवः प्रागुक्ताः । चिरं मदगमने सीताविनाशनिश्चयेन रामादयो न स्युरेव, आत्मघातादयश्च । जीवंस्तु ममात्मा भद्रकं प्राप्नोति । वक्ष्यमाणनानाविधोपायाश्रयणेन, तस्मात्प्राणान्धरिष्यामि, यतो मयि जीवति सति सङ्गमः सुखसङ्गमो रामादीनां ध्रुवः संभावित इत्यर्थः । काव्यलिङ्गमत्रालङ्कारः । तीर्थस्तु– “अत्र जीवितसङ्गमः” इति पाठं कल्पयामास ॥ ५।१३।४५ ॥

इतः परं कविवाक्यम् एवमित्यादि ॥ ५।१३।४६ ॥

कपिकुञ्जर इत्यस्य इति चिन्तयामासेति शेषः । ध्रुवो जीवति सङ्गम इत्युक्तेराशयं हनूमानाह रावणं वेति । ननु रावणवधेन किं साधितं स्यात्तत्राह– प्रतीति । प्रत्याचीर्णं वैरनिर्यातनं कृतं भविष्यतीत्यर्थः । एवं कृत्वा गमने सर्वेषां सुखमित्याशयः ॥ ५।१३।४७ ॥

ननु मया हत इतीदं वचो ऽविश्वसनीयं स्यात्सीतालाभेन रामदुःखानिवृत्तिश्चेत्यतः पक्षान्तरम् अथवेति । एवं सति तल्लाभो ऽपि संभाव्यत इत्याशयः ॥ ५।१३।४८ ॥

रावणस्य बद्धा नयने ऽपि सीतां राक्षसा हन्युरिति तदलाभ एवेत्यतः शोकपरीतः पक्षान्तरं चिन्तयामास यावत्सीतामिति । वर्तमानसमीपे लट् ॥ ५।१३।४९,५० ॥

नन्वत्रावस्थितिनिश्चये पुनः पुनरन्वेषणं सफलं स्यादत आह– संपातिवचनादिति । तद्वचनविश्वासादेवेत्यर्थः । तत्तु तत्पक्षप्ररोहान्निश्चितं प्रमाणम् । ननु यद्वचनविश्वासादेव रामं प्रति सीतात्रास्तीत्युक्त्वा शीघ्रं स एवात्रानेयः, किमनेन कालविलम्बेनेत्यत्राह– रामं यदीति । रावणे हते ऽपि मय्येवान्विष्यमाणा न दृश्येत रामेणापि तददर्शने रामः सर्ववानरनाशं करिष्यतीति भावः ॥ ५।१३।५१ ॥

तस्मादिहैव नियताहारो वत्स्यामि । विनश्येयुः सीतामदृष्ट्वा मद्गमनानन्तरमिति भावः ॥ ५।१३।५२ ॥

एवं चिन्ताकुलो ऽनन्विष्ठं देशं दृष्ट्वा संपातिवचनात्तत्र सीतास्थितिं निश्चिन्वान आह अशोकेति ॥ ५।१३।५३ ॥

तत्राप्यप्राप्तिशङ्कया तद्दर्शनप्रतिबन्धकदुरितक्षयाय देवानुकूल्यं संपादयति वसूनिति । चाद्रामादीन् ॥ ५।१३।५४ ॥

तपस्विने सिद्धीमिव तपःफलमिव तपःप्रसन्ना देवतेति शेषः ॥ ५।१३।५५ ॥

चिन्तया विग्रथितानि संबद्धानि व्याकुलानीन्द्रियाणि यस्य सः ॥ ५।१३।५६ ॥

प्रतिज्ञातं नमस्कारमनुतिष्ठति नमो ऽस्तु रामायेति । अनेन रामस्य भगवदवतारत्वं सूचितम् । रूद्रादिनमस्कारेण । विराजो भगवतो नतिः ॥ ५।१३।५७ ॥

स्वामित्वात्सूर्यांशत्वाच्च सुग्रीवनतिः । अशोकवनिकां गतः मनसेति शेषः “अशोकवनिकां प्रति” इति पाठे गत इत्यध्याहारः ॥ ५।१३।५८ ॥

उत्तरं गमनोत्तरकर्तव्यकृत्यम् ॥ ५।१३।५९ ॥

चिन्ताहेतुं दर्शयति ध्रुवमिति । वनाकुला काननावृता संस्काराः खननसंस्कारादिरूपवृक्षसंस्काराः अत्र ध्रुवं रक्षोबहुलेत्युत्प्रेक्षया चन्द्रास्तः सूचितः । अन्यथा तत्प्रकाशेन निश्चय एव स्यात् ॥ ५।१३।६० ॥

अत्राशोकवनिकायां विहिता नियुक्ताः । विश्वात्मा वायुः ॥ ५।१३।६१ ॥

मयात्मा शरीरमित्यर्थः । रावणस्य अर्थे इत्यनुकर्षः । रावणकर्तृकदर्शनपरिहारायेत्यर्थः ॥ ५।१३।६२ ॥

पुनः सर्वात्मना कार्यसिद्धये स्मरति– ब्रह्मेत्यादि । देवा भगवदवयवदेवाः । तानेव दर्शयति– अग्निश्चेत्यादि । सिद्धिं दिशन्त्वित्यन्वयः ॥ ५।१३।६३,६४ ॥

भूतानां प्रभुः प्रजापतिः । दास्यन्ति तेषामप्यस्यार्थस्येष्टत्वादिति भावः । पूर्वं प्रार्थना, इदानीं तु तन्निश्चयः । पथि गोचरा अदृष्टा अपि पथि मार्गे गोचरत्वेन सिद्धिदत्वेन शास्त्रे ऽदृष्टा अनुक्ताः, अपिना दृष्टाश्च ये ते ऽपि सिद्धिं दास्यन्ति ॥ ५।१३।६५ ॥

उच्छ्रिता नासा यस्मिंस्तत्पाण्डुरम् । वियोगवशात् अव्रणमनवद्यम् ॥ ५।१३।६६ ॥

सुदारुणो ऽप्यलङ्कृतवेषधारी विश्वसनीयवेषधारी तेन ॥ ५।१३।६७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रयोदशः सर्गः ॥ ५।१३ ॥