अथ बहुदुःखचिन्ताकुलो ऽन्विष्टमेव पुनः पुनरन्वेषयति स्मेत्याह स तस्येति । तस्य भवनस्य रावणभवनस्य निशागृहा रात्रिनिवासगृहास्तान्विचेतुं जगाम ॥ ५।१२।१ ॥
न ध्रियते न जीवति स्म । “ध्रुवं नु सीता म्रियते” इति क्वचित्पाठः । तत्र हेतुः यथेति । यत इत्यर्थः ॥ ५।१२।२ ॥
स्वशीलं पातिव्रत्यम् । प्रतिदुष्टकर्मणा प्रति इष्टं दुष्टं कर्म यस्य तेन सकलसज्जनानर्थकारिणेत्यर्थः । आर्यपथे आर्याणां पतिव्रतानां मार्गे ॥ ५।१२।३ ॥
रावणस्यानुरागात्स्त्रीवधदोषाद्वा तद्वधे ऽप्रवृत्तावपि स्वयमेव भयान्नष्टेत्याह विरूपेति । दीर्घाणि विरूपाणि दर्शनानि यासां ताः दीर्घपदेन कर्मधारयो वा । राक्षसराजयोषितस्तदाज्ञाकारिणीः ॥ ५।१२।४ ॥
पौरुषं समुद्रलङ्घनरूपपराक्रमसाध्यं प्रयोजनम् । कालं विहृत्य सुग्रीवकृतं कालमतिक्रम्य सुग्रीवसमीपं गम्यते यया सा गतिर्मार्गो नास्ति । तत्र हेतुः सु तीक्ष्णेति ॥ ५।१२।५,६ ॥
अस्तु सुग्रीवसमीपगमनवार्ता, अङ्गदादिसमीपगमनमपि दुर्लभमित्याह किं न्विति । किं नु वक्ष्यन्तीति चिन्तां कृत्वा पुनर्विचार्य यद्वक्तव्यं तत्स्वयमेवानुवदति गत्वेत्यादि । वदस्वेति वक्ष्यन्तीत्यर्थः ॥ ५।१२।७ ॥
किं प्रवक्ष्यामि तान्प्रतीति शेषः । न किमपीत्यर्थः । यदेवम् अतो ध्रुवमिति । कालस्य सुग्रीवकल्पितस्य व्यतिवर्तने ऽतिक्रमे ॥ ५।१२।८ ॥
किं वा वक्ष्यति माम् धिक्करिष्यतीत्यर्थः । समागतः मिलिता अन्ये वानराश्च धिक्करिष्यन्ति ॥ ५।१२।९ ॥
एवं क्षणमात्रं निर्विद्य पुनरुत्साहमवलम्ब्याह अनिर्वेद इति । निर्वेदः करणग्रामस्य प्रवृत्तिवैमुख्यं तदभाव उत्साहः ॥ ५।१२।१० ॥
यत्कर्म स करोति तत्कर्म सफलं करोति ॥ ५।१२।११ ॥
अनिर्वेदकरमुत्साहजननं यत्नं चित्तस्थैर्थं चेष्टे करोमि ॥ ५।१२।१२,१३ ॥
निष्कुटान्तररथ्या गृहाराममध्यगता वीथीः । विमानानि फुष्पकादीनि ॥ ५।१२।१४ ॥
भूमीगृहान्भूबिलगृहान् । गृहातिगृहका गृहोपरिगृहा इति कतकः । गृहानतीत्यानतिदूरे स्वैरविहारार्थं निर्मितगृहा इति तीर्थः । विचेतुमुपचक्रमे इत्यनुकर्षः । उत्पतन्नुन्नतमारुहन् । निपतनमवरोहः ॥ ५।१२।१५ ॥
निष्पतनं निष्क्रमणम् । अवघट्टनं संवरणम् ॥ ५।१२।१६ ॥
यं स कपिर्न जगाम स तादृशश्चतुरङ्गुलमात्रो ऽप्यवकाशो न विद्यते ॥ ५।१२।१७ ॥
प्राकारान्तरवीथ्यः प्रकारमध्यवर्तिमन्त्रिकुमारादिगृहवीथ्यः चैत्यश्चतुष्पथवर्तिवृक्षः श्वभ्रा गर्ताः ॥ ५।१२।१८,१९ ॥
राघवनन्दिनी रामप्रिया ॥ ५।१२।२०,२१ ॥
प्रमथ्य नागकन्या बलाद्धृता इत्यनेन बन्दीकृतानां ग्रहणम्, पूर्वं तूढानां नागकन्यानां ग्रहणम्, अतो न पुनरुक्तिः ॥ ५।१२।२२२४ ॥
अवतीर्य विमानाच्चेति । पुनरारुह्यावरुह्य चेत्यर्थः । विमान एवैतत्सर्वदर्शनमिति तत्त्वम् ॥ ५।१२।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥ ५।१२ ॥