अवधूय च तां बुद्धिं सीतासंभावनया प्रवृत्तां कापेयविषयां बुद्धिमवधूय त्यक्त्वा ऽवस्थितः स्थिरतास्वभावे प्रतिष्ठितः सीतां प्रति तद्विषयामितरामन्यां चिन्तां पूर्वचिन्ताविघटिकां जगाम ॥ ५।११।१ ॥
तामेव चिन्तामभिनयति न रामेणेति ॥ ५।११।२ ॥
अन्यं नरं पुरुषमुपस्थातुमङ्गीकर्तुं नार्हति नाध्यवस्यति । तत्र हेतुः– नहि रामेति ॥ ५।११।३ ॥
यदेवम्, अतो ऽन्येयमनुभूतेति निश्चित्य तत्र गृहे पानभूमौ पानशालायां चचार । पुनः सम्यगन्वेषणायेति शेषः ॥ ५।११।४ ॥
अथ पानभूमौ दर्शनप्रकारः– क्रीडितेनेति । क्रीडितेनाक्षादिक्रीडया क्लान्ताः सत्यस्तथैव निद्रिता इति शेषः । विप्रहता अतिनिद्रिताः स्त्रियः ददर्शेति शेषः ॥ ५।११।५ ॥
मुरजेषु मृदङ्गेषु । चेलिकासु चेलिका वाद्यविशेष इत्याहुस्तेषु प्रसक्ता एव संस्थिताः स्थिता एव निद्रिताः संविष्टाः । सुप्ता ददर्शेति शेषः । आकर्षो वा ॥ ५।११।६ ॥
रूपसंलापशीलेन निद्रोद्भ्रमवशात्तस्यास्तस्या रूपविषयो यः संलापो वर्णनं तच्छीलेन युक्तं यथा भवति तथा गीतार्थस्य भाषणशीलेन ॥ ५।११।७ ॥
देशकालाभियुक्तेन तद्विषयपरिज्ञानकुशलेन युक्तवाक्यस्य देशकालोचितवाक्यस्याभिधानशीलेन एतत्सर्वं निद्रोद्भम्रवशादेव बोध्यम् । रताधिकेनोत्तमक्रीडावता संयुक्तां पानभूमिं ददर्श ॥ ५।११।८ ॥
अन्यत्रपीत्यादिश्लोकद्वयं नव्याः प्रमादान्न पठन्ति अन्यत्रापि पानभूभिन्ने रावणशयनगृहे बहिःस्थां पानभूमिं दृष्ट्वा पुनरभ्यन्तरे शयनस्थान आगत्यान्वेषणम् रूपविषयो यः संलापो वर्णनं तत्पूर्वं शयानानां युवतीनां वरस्त्रीणां सहस्रमुच्यमानगुणं ददर्श ॥ ५।११।९ ॥
तत्पूर्वदृष्टम् रताविरतसंसुप्तं रतान्ते विरतसुप्तं गाढसुप्तम् ॥ ५।११।१० ॥
तासां मध्ये इति ॥ ५।११।११ ॥
स इति ॥ ५।११।१२ ॥
सस्त्रीकरावणगृहे पुनः सम्यगन्विष्य, पुनर्बहिः पानभूमिमागत्य विचिनोति– सर्वकामैरिति । पूर्वं नृत्यादियुक्ततत्स्थस्त्रीमात्रदर्शनम्, इदानीं तस्याः सर्वकामोपेतत्वदर्शनम् ॥ ५।११।१३ ॥
तदेव प्रपञ्चयति– मृगाणामिति ॥ ५।११।१४,१५ ॥
पुनः पुनर्वराहादिमृगादिकथनं बहुस्थलवर्तितया भूयस्त्वप्रकाशनाय । वाध्रीणसः पक्षिविशेषः “कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः । स वै वाध्रीणसः प्रोक्तः” इति विष्णुधर्मोक्तेः । छागविशेषो वा “त्रिपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धप्रजापतिम् । वाध्रीणसं च तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥ " इति स्मृतेः । मुखकर्णौ च पानसमये जलं स्पृशन्ति यस्य स त्रिपिबः । “वाध्रीणसः खड्गमृगः” इति हलायुधः । दध्ना सौवर्चलेन लवणविशेषेण च आयुतान्संस्कृतान् ॥
५।११।१६ ॥
कृकलकृकरौ समौ पक्षिविशेषवाचकौ एकशल्या मत्स्यविशेषाः कृतनिष्ठितान्कृतं निष्ठितं निष्ठानं पाको येषां तान् ॥ ५।११।१७ ॥
आम्लरसो लवणरसश्चोत्तंसो जिह्वाजाड्यपरिहारकर्ता येषु भक्ष्यमाणेषु तैः । रागखाण्डवैः “सितामध्वादिमधुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो रागः सान्द्रश्चेत्खाण्डवः स्मृतः ॥ " इत्युक्तैः केशरादिभिः कृतवर्णाः षड्रसोपेताः । पूपा रागखाण्डवा इत्यन्ये ॥
५।११।१८ ॥
महाधनैर्बहुमूल्यैः ॥ ५।११।१९ ॥
सुश्लिष्टैः सुकृतसन्धिबन्धैः ॥ ५।११।२० ॥
उक्तैः सौवर्णरत्नमयशयनासनैः पानभूमिप्रदीप्तेवोपलक्ष्यते । बहुप्रकारैर्बहुपादानभेदैः, अत एव विविधैर्विविधरसवद्भिः वरसंस्कारेण श्रेष्ठसंस्कारकद्रव्ययोगेन संस्कृतैः ॥ ५।११।२१ ॥
कुशलसंयुक्तैर्निपुणपाचकपक्वैर्मासैः सहोच्यमानगुणाः सुरा ददर्श । तत्र दिव्याः सुरा वृक्षेभ्यः कदम्बादिभ्यः स्वतः प्रादुर्भूताः । कृतसुराः शौण्डिकैरुत्पादिताः ॥ ५।११।२२ ॥
कतसुरावान्तरभेदानाह शर्करासवेत्यादि । शर्करोपादानक आसवः शर्करासवः, मधूपादानकोमाध्वीकः द्राक्षोपादानक इत्यन्ये । मधूकपुष्पादिजः पुष्पासवः, खर्जूरफलादिजः फलासवः वासचूर्णैः सुगन्धद्रव्यचूर्णैर्मृष्टाधिवासिताः दृष्टा इति शेषः ॥ ५।११।२३ ॥
अथ भूमिवर्णनम्– बहुषु देशेषु संस्थितैर्माल्यैः सन्तता व्याप्ता भूमिः शुशुभे उच्यमानविशेषणैः करकैर्घटैश्च सन्तता ॥ ५।११।२४ ॥
राजतादिषु कुम्भेषु ॥ ५।११।२५ ॥
पानश्रेष्ठां संभृतप्रशस्तपानाम् । सीधोर्मद्यस्य भाजनानीत्यन्वयः ॥ ५।११।२६ ॥
भाजनानि पानभाजनानि । अर्धावशेषाण्यर्धावशिष्टपानानि पीतानि पीतासवानि ॥ ५।११।२७ ॥
नैव प्रपीतानि पूर्णासवान्येव पानानि पानभाजनानि । विभागतो विभागेन पानं ददर्श । इदममुकमिदममुकमिति विभज्य ददर्शेत्यर्थः ॥ ५।११।२८ ॥
शून्यानि पतिशून्यानि, अत एव परस्परं समाश्लिष्येति ॥ ५।११।२९ ॥
अपहृत्य बलाद्गृहीत्वोपगुह्य प्रावृत्य उपगम्य तच्छयनस्थानं प्राप्य तां चपश्यन्विचचारेति संबन्धः ॥ ५।११।३० ॥
गात्रजं गात्रस्थम् ॥ ५।११।३१ ॥
अथ पानभूमितो ऽपि बहिरागत्य तत्र स्थिते पुष्पके प्रवृत्तिकाल इव निर्गमकाले ऽपि बहुगन्धो वायुरन्यस्त्रियश्चानुभूता इत्याह– चन्दनस्य चेत्यादि । पानभूम्यादिकमपि पुष्पकस्थमेवेत्यन्ये । सीधुर्मद्यम् ॥ ५।११।३२ ॥
“स्नानानां चन्दनानाम्” इति पाठे स्नानार्हचन्दनानामित्यर्थः । विविधं गन्धमुद्वहन्प्रववौ, अत एव सुरभिर्गन्धो विमाने मूर्छितो व्याप्तः ॥ ५।११।३३ ॥
तत्रान्याः । बहिः प्रतिष्ठितपुष्पके इत्यर्थः ॥ ५।११।३४ ॥
राक्षसालये आन्तरमध्यबहिःकक्षोपलक्षिते । सर्वत्र निद्रावशत्वान्मदनेन तद्धेतुकरत्यार्धमूर्च्छितं क्लान्तं तासां रूपं प्रसुप्तानां रात्रौ मुकुलितानां पद्मिनीनां नलिनीनां यथा रूपं तथैवासीत् । एवंप्रकारेण ददर्श ॥ ५।११।३५,३६ ॥
ततो निरीक्षणानन्तरम् । “नेक्षेत नग्नां परस्त्रियम्ऽ इति शास्त्रस्मरणादिति शेषः । तदेवाह– धर्मेति । धर्मलोपनिमित्तं यत्साध्वसं भयं तेन शङ्कितः भीत इत्यर्थः ॥ ५।११।३७ ॥
धर्मलोपं दर्शयति– परदारेति । परदारावरोधस्य दारशब्दः स्त्रीसामान्यवाची, अवरोधशब्दः स्वधर्मयुक्तकुलस्त्रीवाची । प्रसुप्तस्य । अनेन नग्नप्रायत्वं सूचितम् । तत्समये वसनानां विपर्यासात् ॥ ५।११।३८ ॥
मे दृष्टिः परदाराणामद्ययावद्विषयवर्तिनी न । किं च परदारपरिग्रहस्तद्वानतिपापी रावणश्च दृष्टः तादृशदर्शनमपि धर्मलोपकारीति भावः ॥ ५।११।३९ ॥
अथ पुनर्विचारेण तदलोपबुद्धिरप्युत्पन्नेत्याह– तस्येति । अन्या चिन्ता पूर्वचिन्ताविरोधिनी निश्चिते प्रमाणप्रतिपन्ने एकान्ते सिद्धान्ते तद्विषयज्ञाने चित्तं यस्य सः, अत एव सा चिन्ता कार्यनिश्चयदर्शिनी कर्तव्याकर्तव्यनिर्णयसमर्था ॥ ५।११।४० ॥
तां चिन्तामभिनयति– काममिति । विश्वस्ता इतरालोकनशङ्कारहिताः । वैकृत्यं विकारः स्वार्थे ष्यञ् । नोपपद्यते न प्राप्नोति ॥ ५।११।४१ ॥
ततः किं तत्राह– मनो हीति । शुभाशुभास्ववस्थासु पुण्यपापकर्मस्विन्द्रियाणां प्रवर्तने मनो हेतुः मनसो ऽसत्सदर्थरागद्वेषत इन्द्रियप्रवृत्तिर्हि पापाय, इयं तु मम प्रवृत्तिर्न पापाय, यतस्तन्मे मनः सुष्ठु व्यवस्थितं परदारेषु न रागवत् पुण्यपापपव्यवस्थायां च स्वचित्तमेव साक्षीति भावः ॥ ५।११।४२ ॥
किं च राजाज्ञानुष्ठानरूपसेवकीयपरमधर्मान्यथानुपपत्त्यापि न दोष इत्याह नान्यत्रेति । तत्र हेतुः– स्त्रियो हीति । सदा संपरिमार्गणे मार्गणव्यवहारे लोकैरिति शेषः ॥ ५।११।४३ ॥
सजातीयेषेवेव मार्गणं प्रसिद्धमित्याह– यस्येति । सत्त्वस्य प्राणिनो या योनिर्या समानजातिः परिमार्गते लोक इति शेषः । तत्रैवोपपत्तिमाह– न शक्यमिति । एतेन रावणदर्शनजो ऽपि दोषः परिहृतः ॥ ५।११।४४४६ ॥
अपक्रम्य रावणान्तःपुरबहिःकक्षात इति शेषः ॥ ५।११।४७ ॥
तां सीतामन्यत्र विचेतुं प्रचक्रमे ॥ ५।११।४८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः ॥ ५।११ ॥