०१० हनुमता रावणान्तःपुरप्रवेशः

तत्र शालायाम् । दिव्योपमं दिवि भवेन स्वर्गवर्तिपदार्थेनैवोपमा यस्य तत् शयनस्यासनं पल्यङ्कप्रतिष्ठापनवेदिका अवेक्षमाण इतस्ततः पश्यन् ॥ ५।१०।१ ॥

तस्यैव वर्णनम् दान्तेत्यादि । गजदन्तमयानि स्वर्णमयानि च चित्राणि चित्रयुतान्यङ्गानि पादादिरूपाणि येषां तैर्महार्हास्तरणोपेतैर्बहुमूल्यास्तरणयुक्तैः वैदूर्यैरित्युपलक्षणम् वैदूर्यैः पद्मरागादिनिर्मितैर्वरासनैः स्त्रीशयनपल्यङ्कैर्महाधनैर्बहुमूल्यैरुपपन्नम् ॥ ५।१०।२,३ ॥

परमासनं पल्यङ्कस्तस्यैकदेशे ददर्श । अशोकपुष्पमालायुक्तम् । यद्वा यत्संनिधाने शोकाभावस्तादृशमालायुतम् । चित्रभानुरग्निः ॥ ५।१०।४ ॥

वालव्यजनं चामरम् । ननु संभोगगृहे तत्रापि निद्राणस्य कथं वालव्यजनवीजनम्, कथं च हनुमतस्ताभिरदर्शनमिति चेन्न यन्त्रनिर्मितस्त्रीप्रतिमादिभिस्तत्रापि तत्संभवात् ॥ ५।१०।५ ॥

आविकाजिनमूर्णायुचर्म तद्धि परममृदुलम् तेन संवृतं संवृतपर्यन्तप्रदेशम् माल्यं पुष्पम् ॥ ५।१०।६ ॥

तस्मिन् प्रसुप्तमिति शेषः । महारजतं स्वर्णं तत्तन्तुनिर्मितवासोधारिणम् ॥ ५।१०।७ ॥

रावणस्य तडित्स्थानीयं सौवर्णं वासः ॥ ५।१०।८ ॥

सवृक्षवनगुल्माढ्यं पुष्पसहितवृक्षवनगुल्माढ्यं मन्दरमिव स्थितम् बाहवो यस्य वृक्षाः, नासादयो गुल्माः ॥ ५।१०।९,१० ॥

पीत्वाप्युपरतम् अपिना क्रीडित्वाप्युपरतम् ॥ ५।१०।११ ॥

यथा नागं गजमिव निःश्वसन्तं रावणमासाद्य प्राप्य परमोद्विग्नो ऽयं पापी देवीं हृतवानित्येतत्समीपे ऽवस्थानमनुचितमिति खिन्नचित्तो ऽपासर्पत् । सुभीतवत्सुभीतो यथा भयहेतोः पिशाचादेः संमुखे स्थातुमशक्तो ऽपसर्पति तद्वत् ॥ ५।१०।१२ ॥

आरोहणं सोपानम् । वेदिकान्तरं सोपानवेदिकान्तरं सोपानपर्वमध्यम् ॥ ५।१०।१३ ॥

यस्य गन्धेनान्ये गजाः पलायन्ते स गन्धगजः मत्तगजेन नितरां संविष्टमधिष्ठितं महत्प्रस्रवणमिव ॥ ५।१०।१४ ॥

महात्मनो महाशरीरस्य । विक्षिप्तौ प्रसारितौ ॥ ५।१०।१५ ॥

आपीडने युद्धे कृतव्रणौ कृतव्रणौ कृतव्रणकिणौ वज्रेणोल्लिखितौ क्षतौ पीनांसौ ययोस्तौ वज्रचक्रयोरप्यसाध्यमृत्युरिति भावः ॥ ५।१०।१६ ॥

समौ सुजातौ चांसौ सङ्गतौ दृढसन्धिबन्धौ स्वङ्गुलीयकलक्षितौ शोभनाङ्गुलीयकभूषितौ ॥ ५।१०।१७,१८ ॥

शशस्य क्षतजं रक्तमतिलोहितवर्णम् ॥ ५।१०।१९ ॥

उत्तमस्त्रीणां विमृदितं विमर्दनमालिङ्गनादि ययोस्तौ ॥ ५।१०।२० ॥

ददर्शात्यादरेण ददर्श नातः पुनरुक्तिः महाही महासर्पौ अत्र द्विभुजत्वकथनाद्युद्धादिकाल एव विंशतिभुजत्वं दशशीर्षत्वं चेति बोध्यम् ॥ ५।१०।२१,२२ ॥

बकुलोत्तमसंयुत उत्तमबकुलगन्धयुतः । अयं पुरुषविशेषश्वासधर्म इति कतकः । चूतादिसुरभित्वं तु तदधिवासितवस्तुसेवनात् । मृष्टान्नरससंयुक्तः षड्रसोत्तमान्नगन्धोपेतः पानं मधु राक्षसत्वादेव वामाचारेण पूजाकरणान्मधुपानम् ॥ ५।१०।२३,२४ ॥

अपवृत्तेन निद्रावशात्पर्यस्तेन विराजता मुकुटेन उपलक्षितमिति शेषः । शोभिना हारेण शोभनहारवता वक्षसोपलक्षितमिति शेषः ॥ ५।१०।२५,२६ ॥

अपविद्धेन पर्यस्तेन पाण्डुरेण क्षौमेण परिधानीयेन कटेरधः संवीतम् पीतेनोत्तरीयेण सुसंवीतमित्यर्थः ॥ ५।१०।२७ ॥

तोयान्ते तोयमध्ये ॥ ५।१०।२८ ॥

काञ्चनैः काञ्चनस्तम्भगैः चतुर्दिशं चतुर्दिक्षु दीप्यमानम् अत्यन्तसंयोगे द्वितीया । “विद्युल्लतैरिव” इति पाठे पुंस्त्वमार्षम् ॥ ५।१०।२९ ॥

उक्तगुणं रावणं ददर्श पादमूलगास्तत्पत्नीश्च ददर्श । रक्षःपतेर्गृह इत्युत्तरान्वयि ॥ ५।१०।३० ॥

अम्लानमाल्याभरणाः देवकन्या इत्यर्थः ॥ ५।१०।३१ ॥

राक्षसेन्द्रभुजावङ्कं च गच्छन्ति तास्तथा प्रिया इति यावत् धारिण्यो धारिणीः निषण्णाः शयिताः ॥ ५।१०।३२ ॥

बाहूपधानत्वादङ्गदानामपि श्रवणान्ते दर्शनं बोध्यम् ॥ ५।१०।३३ ॥

विमानं मञ्चकविशेषः । पुष्पकमित्यन्ये विराजत व्यराजत ॥ ५।१०।३४ ॥

मदव्यायामेन रतिजेन ॥ ५।१०।३५ ॥

कोमलैरकर्कशैः अङ्गहारैरङ्गविक्षेपैः नृत्यशालिनीति वासनाबलेन नृत्याभिनयोपेततया सुप्तवतीत्यर्थः । विशेषेण न्यस्तं शुभं येषु धात्रा तादृशानि सर्वाण्यङ्गानि यस्याः ॥ ५।१०।३६ ॥

महानदीप्रकीर्णा महानद्यां प्रकीर्णपुष्पपत्रा दैवात्सङ्गतं पोतं प्लवमाश्रिता नलिनी पद्मिनीव । पोतस्थाने ऽत्र वीणा ॥ ५।१०।३७ ॥

मड्डुको वाद्यभेदः ॥ ५।१०।३८ ॥

न्यस्य आलिङ्ग्येत्यर्थः ॥ ५।१०।३९ ॥

काचिदिति ॥ ५।१०।४० ॥

विपञ्ची वीणाविशेषः ॥ ५।१०।४१,४२ ॥

मदकृतश्रमा मदवती अर्शआद्यच् । वादनेन कृतश्रमा च ॥ ५।१०।४३ ॥

डिण्डिमं परिगृह्यालिङ्ग्य । आसक्तडिण्डिमा पृष्ठदेशसंबद्धान्यडिण्डिमा । तरुणं रमणं वत्सं पुत्रं च परिगृह्य प्रसुप्तेव ॥ ५।१०।४४ ॥

आडम्बरं वाद्यभेदः । भुजसंभोगेन भुजाश्लेषेण पीडितमाश्लिष्टं कृत्वा ॥ ५।१०।४५ ॥

कलशीं जलसंभृतामपविध्य पर्यस्य । स्वपर्यस्तकलशोदकार्द्रशरीरा नारी वसन्ते परिमार्जिता ग्लानिपरिहाराय कृतजलसेका पुष्पशबला शबलपुष्पमालेव भाति ॥ ५।१०।४६४८ ॥

आतोद्यानि वाद्यानि ॥ ५।१०।४९ ॥

अथ प्रधानमहिषीदर्शनम्– तासामिति । एकान्तविन्यस्ते तासां शयनात्पृथग्विन्यस्ते । तां स्त्रियं वक्ष्यमाणगुणां स्त्रियम् ॥ ५।१०।५०,५१ ॥

गौरीं पीताम्, अत एव कनकवर्णाभाम्, इष्टां रावणस्यातिप्रियाम्, अन्तःपुरस्त्रीणामीश्वरीम्, कपिर्मन्दोदरीं ददर्शेत्यन्वयः ॥ ५।१०।५२ ॥

तर्कयामास संभावयामास । पृथगेकान्ते परममञ्चे ऽतिरूपाया दर्शनात्प्रायेणेयं सीतेति संभावना हनूमतः । तदेवाह– रूपयौवनसंपदा न त्वौचित्यालोचनं कृतवानिति भावः । हर्षो मुखविकासादिः आनन्दो मानसः ॥ ५।१०।५३ ॥

आनन्दं कार्यद्वाराह– आस्फोटयामासेति । आस्फोटपुच्छचुम्बनादि जातिधर्मः । जगाम स्तम्भानित्यनुकर्षः । सर्वा अप्येताश्चेष्टा उपांश्विति बोध्यम् । एवं चेष्टायां हेतुः स्वां कपीनां प्रकृतिं निदर्शयन्निति ॥ ५।१०।५४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे दशमः सर्गः ॥ ५।१० ॥