००९ रावणान्तःपुरवर्णनम्

तस्येति । आलयवरिष्ठस्य लङ्कामध्यवर्तिनो गृहसमूहवतो महागृहस्य ॥ ५।९।१ ॥

अर्धयोजनविस्तीर्णं तिर्यक्प्रमाणम् ॥ ५।९।२,३ ॥

आवासं बहुराक्षससाधारणं वासस्थानम् । राक्षसेन्द्रनिवेशनं तन्मात्रवासस्थानम् ॥ ५।९।४ ॥

परिक्षिप्तं युक्तम् । ईदृशगजादिसत्त्वे ऽप्यसंबाधत्वेनातिविस्तृतत्वं सूच्यते ॥ ५।९।५ ॥

राक्षसीभी राक्षसजातिजाभिः पत्नीभिरावृतम् तथा विक्रम्याहृताभी राजकन्याभिश्चावृतम् ॥ ५।९।६ ॥

पन्नगैर्युतं सागरमिव तत्पश्यति स्म ॥ ५।९।७ ॥

लक्ष्मीः शोभा । रावणगृहे लङ्कायाम् ॥ ५।९।८ ॥

ऋद्धिरैश्वर्यं तद्विशिष्टा ततो ऽप्यधिका ॥ ५।९।९ ॥

तस्य हर्म्यस्यार्धयोजनविस्तीर्णत्वादिधर्मणः । वेश्म सस्त्रीकशयनगृहमिति कतकः । वेश्म पुष्पकाख्यमिति तीर्थः । अत्र तीर्थव्याख्या ज्यायसी । निर्यूहो मत्तवारणः ॥ ५।९।१० ॥

पुनर्हनुमदारोहणशेषतया पुष्पकं वर्णयति– ब्रह्मणो ऽर्थे इति । भगवतो लीलाफलकमित्यर्थः ॥ ५।९।११,१२ ॥

कार्तस्वरहिरण्ये स्वर्मजातिविशेषौ रूप्यस्वर्णे इति कश्चित् । ईहामृगो वृकस्तत्प्रतिमायुक्तैः ॥ ५।९।१३ ॥

कूटागारैर्गुप्तस्वल्पगृहैः शुभागारैर्विहारयोग्यगृहैः ॥ ५।९।१४ ॥

चार्व्यः सुन्दराः प्रवराः श्रेष्ठा वेदिका यस्मिंस्तत् ॥ ५।९।१५ ॥

जालवातायनयोः काञ्चनकार्तस्वरयोर्मध्वासवयोश्च कञ्चिद्भेदं परिकल्प्य निर्वाहः एवमिन्द्रनीलमहानीलयोरपि ॥ ५।९।१६ ॥

निस्तुलाभिर्वर्तुलाभिर्निरुपमाभिर्वा । तलेन कुट्टिमप्रदेशेन ॥ ५।९।१७ ॥

आदित्यतरुणोपमं तरुणादित्यसदृशम् ॥ ५।९।१८ ॥

तत्रस्थः पुष्पकविमानस्थः ॥ ५।९।१९ ॥

संमूर्छिंतं व्याप्तं गन्धवहमनिलमपि तद्गन्धेन रूपवन्तमिव गन्धद्रव्यरूपमिव तद्वायुसंबन्धात्स गन्धः स्वयं महासत्त्वमुत्तमं बन्धुं बन्धुरिव जिघ्रन्नभूत् । गन्धापारोक्ष्यात्तद्वहवायुरप्यपरोक्ष इवाभूत् ॥ ५।९।२० ॥

यत्र स रावणस्तत्र स्थाने इत एहीत्युवचेव उक्तगुणवायुः कर्ता दिव्यगन्धेन रावणशयनगृहं ज्ञातवानित्यर्थः । ततस्तस्मात्पुष्पकादवरुह्य गन्धानुमितां तां रावणशयनशालां प्रस्थितस्तां शालां ददर्श । यत्तु पुष्पकस्यैव सा शाला तत इत्यस्य तदनन्तरमित्यर्थ इति, तच्चिन्त्यम् प्रस्थित इति पदस्वारस्यात्, अर्धयोजनविस्तीर्णमित्यादिना मूलालयप्रदर्शनोपक्रमाच्च । मूलालयं दृष्ट्वा तद्बहिःस्थं पुष्पकमन्विष्य तत्स्थ एव रावणशयनगृहं तद्गृहवर्त्यनुमाय पुष्पकादवरुह्य तं प्रति स्थितस्तां ददर्शेत्येव न्याय्यमिति कतकः । यत्त्वित्यादिनोक्ता व्याख्यैव युक्तेति मम भाति । “अवतीर्य विमानाच्च हनुमान्मारुतात्मजः” इत्यग्रे उपसंहारात् ॥ ५।९।२१ ॥

महाकान्तामतिरमणीयामित्यर्थकं शालाविशेषणम् कान्तां कमनीयम् तां शालमेव विशिनष्टि– मणीत्यादिना श्रियः सञ्जननीमिवेत्यन्तेन । मणिकृतसोपानानि विशेषेण कृतानि यस्याम् ॥ ५।९।२२ ॥

तलं कुट्टिमभूः । दन्तान्तरितरूपिकामिति । दन्तैरन्तरितानि मध्ये मध्ये निर्मितानि रूपाणि यस्यां सा चामीकरैरप्यन्तरितरूपिकामित्यनुकर्षः ॥ ५।९।२३ ॥

बहुत्वबोधनाय पुनः स्तम्भानुवादः बहुत्वं च विपुलत्वम् समन्तात्सुविभूषितैः रत्नादिभिरिति शेषः ॥ ५।९।२४ ॥

अत्युच्चैः पक्षैरिवात्युच्चैः स्तम्भैर्दिवं संप्रस्थितामिवेत्युत्प्रेक्षात्र । कुथया विशालविचित्रकम्भलास्तरणेन । पृथिवीलक्षणं चतुरस्त्रत्वम् ॥ ५।९।२५ ॥

सराष्ट्रगृहशालिनीमिति पृथिवीविशेषणम् ॥ ५।९।२६ ॥

हंसपाण्डुरां हंसवत्पाण्डुराम् ॥ ५।९।२७ ॥

कल्माषी शबलवर्णां वसिष्ठगौः । अनेन सर्वानन्ददायित्वं रिपूणामधृष्यत्वं च सर्वमनोरथपूरकत्वं च सूच्यते । वर्णस्य देहकान्तेः प्रसाधिनीं संपादिकाम् ॥ ५।९।२८ ॥

तां शालां ददर्शेति पूर्वेण संबन्धः । पञ्चभिरिन्द्रियार्थैः शब्दस्पर्शरूपसगन्धैः पञ्चेन्द्रियाणि श्रोत्रत्वक्चक्षूरसनघ्राणानि तर्पयामास हनुमत इति शेषः । रावणपालिता शालेति शेषः । स्वर्गो ज्योतिष्टोमादिकफलभोगभूमिः देवलोको वायुवरुणादिलोकः इन्द्रस्य पुर्यमरावती ॥ ५।९।२९ ॥

परा गान्धर्वी सिद्धिस्तन्मायेत्यर्थः ॥ ५।९।३० ॥

प्रध्यायतो ध्याननिष्ठान् । धूर्तो ऽक्षदेवनस्तत्रातिसमर्थो महाधूर्तः महाधूर्तेन देवनेन पराजितो हि धूर्तो धननाशाद्ध्यायन्निवास्ते काञ्चनान्दीपान्काञ्चनदीपस्तम्भस्थदीपान् विपुलदीपाग्रे क्षुद्रदीपप्रभा इव रावणतेजोभिभूतानपश्यदित्यर्थः ॥ ५।९।३१ ॥

प्रदीप्ताग्निज्वाला ज्वालिता अनेनाग्निमो ऽग्निदाहः सूचितः ॥ ५।९।३२ ॥

कुथासीनमास्तीर्णकुथायां शयानम् ॥ ५।९।३३ ॥

बलवत्प्रसुप्तमपश्यदित्यनुकर्षः ॥ ५।९।३४ ॥

तत्प्रसुप्तं प्रसुप्तजनं रावणगृहं निःशब्दान्तरैर्निर्गतस्वस्वशब्दभेदैर्नूपुरसिञ्जिन्यादिभिर्भूषितम् ॥ ५।९।३५ ॥

निद्रितत्वात्संवृतानि संवृतपक्ष्माणि तादृशानि च तानि दान्तानि ग्लानानि मीलिताक्षीण्यतिसंवृतपक्ष्माणि स्वर्गदेवलोकादेरिव संवृतमीलितयोपरपि भेदो बोध्यः । यद्वा संवृतदान्तानीत्यस्यैव व्याख्यानं निमीलिताक्षीणीति । यद्वा संवृतत्वमोष्ठयोः ॥ ५।९।३६ ॥

क्षपाक्षये पद्मानीव प्रबुद्धानि भूत्वा पुना रात्रौ संवृतपत्राणि पद्मानीव बभूवुरित्यन्वयः ॥ ५।९।३७ ॥

मुखानि दृष्ट्वा हनुमतो जातां संभावनामाह– इमानीति । फुल्लानि प्रार्थयन्तीत्यन्वयः । नियतं नित्यम् ॥ ५।९।३८ ॥

उपपत्त्या युक्त्या । सलिलोद्भवैः पद्मैः ॥ ५।९।३९४१ ॥

पुण्यशेषसमावृतास्तद्युक्ताः सङ्गता एकदेशमिलिताः अनेन सौन्दर्यात्युक्तिरूपो ऽत्युक्त्यलङ्कारः ॥ ५।९।४२ ॥

तदेवाह– ताराणामिति । प्रभा देहकान्तिः वर्णो रूपम्, प्रसादस्त्वौज्ज्वल्यम् ॥ ५।९।४३ ॥

व्यावृत्ताः कचाः पीनस्रजश्च यासां ताश्च प्रकीर्णानीतस्ततः श्लथानि वरभूषणानि यासां ताः पानव्यायामकालेषु पानान्तरकालिकगाननृत्यरत्यादिक्रीडाकालेषूक्तगुणाः, अत एव श्रमान्निद्रोपहतचेतसः ॥ ५।९।४४ ॥

उक्तं भूषणप्रकिरणमेव प्रपञ्चयति– व्यावृत्तेति । उद्भ्रान्ताः स्वस्थानात्स्खलिता नूपुरा यासां ताः । पार्श्वे एकस्मिन्गलिता विस्रस्ता हारा यासां ताः ॥ ५।९।४५ ॥

मुक्ताहारैर्वृताः छिन्नमुक्ताहाराः व्याविद्धं विक्षिप्तं रशनादाम काञ्चीगुणो यासां ताः । एवं भूषणबन्धराहित्येन शयने उपमा । वाहिताः किशोर्य इव कृतभारवहनाः श्रान्ताः किशोर्यो वडवा यथाध्वश्रमापनयनाय लुण्ठनेन व्यत्यस्तपल्ययनबन्धाः शेरते तद्वत् ॥ ५।९।४६ ॥

अकुण्डलधराः कुण्डलधरणरहिताः गलितकुण्डला इति यावत् विच्छिन्ना आमृदिताश्च स्रजो यासां ताः अत्र रेजुरित्यनुकर्षः ॥ ५।९।४७ ॥

अंशवः प्रभाः, किरणास्तदाधाराः । अंशवः सूक्ष्मरश्मयः, किरणाः स्थूलरश्मय इत्यन्ये । वैपरीत्येन स्थिता हारा मुक्ताहाराः ॥ ५।९।४८ ॥

वैदूर्या वैदूर्यमणिमालाः कादम्बाः कलहंसाः अत्र कादम्बशब्देन कारण्डवपदवाच्यो जलकाक उच्यते । अन्यथा वैदूर्योपमानत्वमसङ्गतं स्यात् । हेमसूत्राणि च अत्रापि स्तनमध्योद्गतानीत्यनुकर्षः । चक्रवाकानां

पीतत्वसादृश्यादुपमानत्वम् ॥ ५।९।४९ ॥

स्त्रीषु नानावर्णभूषणानि हंसादिस्थानीयानि । स्त्रीकटीपुरोभागो जघनम् ॥ ५।९।५० ॥

किङ्किणीजालसङ्काशास्तद्वन्मुकुलितनयनास्तत्स्थाने च नद्यां मुकुलितकुमुदानि हेमविपुलाम्बुजत्वेन वक्त्रनिगरणम् उपमाने तु न निगरणम् । “किङ्किणीजालसंबाधाः” इति पाठे किङ्किणीजालसंबाधत्वमुभयत्रापि स्पष्टमेव । शब्दवत्त्वसाधर्म्यात्किङ्किणीशब्देन लहरीणामप्युक्तेः । भवा विलासा एव स्वाप्निकसुरतभावो वा ग्राहो यासां ताः यशो ऽतिगुणवत्त्वकृतयश एव तीरं यासां ताः यशःशब्देन लक्षणया कान्तिरित्यन्ये । सुप्ता नार्यो नद्य इव बभुः ॥ ५।९।५१ ॥

भूषणराजयो विमर्दजनितरेखाः । “भूषणराशयः” इति पाठे ऽप्ययमेवार्थो लक्षणादिना बोध्यः ॥ ५।९।५२ ॥

वक्त्राणामुपर्युपरीत्यन्वयः ॥ ५।९।५३ ॥

व्याधूयमानमंशुकान्तमुत्प्रेक्षते– ता इति । विधेयमपेक्ष्य स्त्रीलिङ्गनिर्देशः । पत्नीनाम्, अर्थाद्रावणस्य । अनेकवर्णवत्सुवर्णतन्तुनिर्मितवाससां पताका इवेत्यन्वयः ॥ ५।९।५४ ॥

शुभार्चिषां कासांचिद्योषितां कुण्डलानि मुखमारुतसङ्कम्पैर्मुखमारुतसंसर्गकृतचलनैर्मन्दं मन्दं ववल्गुः । तेन कुण्डलानामतिलघुता, तेन तासां सौकुमार्यातिशयो व्यङ्गयः ॥ ५।९।५५ ॥

शर्करासव आसवविशेषस्तद्योगात्तद्गन्धः प्रकृत्या च सुरभिः, अत एव सुखस्तासां वदननिःश्वासो रावणं सिषेवे । यद्वा प्रकृत्या असुरभिरपि वायुरिति शेषः । तासां वदननिःश्वासस्तद्युक्तः अर्शआद्यजन्तम् अत एव शर्करासवगन्धो रावणं सिषेवे ॥ ५।९।५६ ॥

रावणाननशङ्काः मदनिद्रोभयजचित्तवैवश्यात् सपत्नीनां च सपत्नीनामपि मुखान्युपाजिघ्रन् ॥ ५।९।५७ ॥

ननु सपत्नीभिः कृतं मुखाघ्राणं ताः कथमसहन्तेत्यत आह– अत्यर्थमिति । अत्यासक्तेरेवास्वतन्त्रा मदापारवश्याच्च तथाभूता वरस्त्रियः सपत्नीभिराघ्रातमुखा अपि सपत्नीनां प्रियमेवाचरन्, ता अपि तासां मुखानि रावणमुखशङ्कयोपाजिघ्रन्नित्यर्थः ॥ ५।९।५८ ॥

पारिहार्यो वलयः उपनिधायोपधानं कृत्वा अंशुकानि चोपनिधायेत्यनुकर्षः ॥ ५।९।५९ ॥

अन्येत्यादिश्लोकद्वये शिश्यिर इति पदं यथायोगं वचनविपरिणामेन योज्यम् । उपनिधायेति पदं च ॥ ५।९।६० ॥

स्नेहो ऽत्र रावणीयः ॥ ५।९।६१ ॥

एकीकृतभुजाः परस्परसंबद्धभुजाः ॥ ५।९।६२ ॥

अत एवाह– अन्योन्येति । माला पुष्पमाला । उपमेये मत्तषट्पदस्थानीयाः कचभारा नेत्रद्वन्द्वानि च ॥ ५।९।६३ ॥

लतानां वनमिवेत्यन्वयः । अन्योन्यसंबन्धेन मालाकारेण ग्रथितमिव ॥ ५।९।६४ ॥

प्रतिवेष्टिता वृक्षाणां नायकानां च शोभनाः स्कन्धा येन तत् अन्योन्यं धावन्तो ये भ्रमरास्तैराकुलम् स्त्रीणामपि पद्मिनीत्वाद्भ्रमराकुलत्वम् केशपाशनेत्रादयो वा तासु भ्रमराः स्त्रीवनं स्त्रीसमूहः ॥ ५।९।६५ ॥

तासां योषितामुचितेषु स्थानेषु सुव्यक्तं प्रतिष्ठितानामपि भूषणाङ्गाम्बरस्रजां विवेकमाधातुं कर्तुं न शक्यम् अपरिमितत्वात् । भूषणभूष्ययोरैकरूप्यात्परस्परसङ्ग्रथितत्वेन सुप्तत्वाच्चेमान्यस्या भूषणानीमान्यन्यस्या इति विवेकः । कर्तुमशक्य इति भ्रान्तिमानलङ्कारो ऽत्र व्यङ्ग्यः ॥ ५।९।६६ ॥

सुखसंविष्टे सुखसुप्ते काञ्चनाः काञ्चनस्तम्भाः दीपा दीपस्थाग्निपुरुषाः कर्तारः स्त्रियः कर्म अनेन रावणे जाग्रति तेषामपि तद्दर्शने भयं सूचितम् ॥ ५।९।६७ ॥

राजर्षयो विप्रदैत्याश्च अस्य ब्रह्मराक्षसत्वादस्ति विप्रकन्याविवाहे ऽधिकारः । कामवशङ्गताः सत्यस्तस्य योषितो ऽभवन् । अनेन तासामप्यनुरागः सूचितः ॥ ५।९।६८ ॥

अस्य बहुस्त्रीप्राप्तिर्बलात्स्वारस्याच्चेत्याह– युद्धेत्यादि । सर्वा इति बाहुल्याभिप्रायम् आसां हरणे एतद्बन्धुभिर्युद्धं भविष्यतीति युद्धकामनापूर्वं हृताः । काश्चित्समदास्तरुण्यो मदनमोहिताः स्वयमेवैनं वृतवत्यः ॥ ५।९।६९ ॥

अस्यैव विवरणम्– न तत्र काश्चिदिति । वीर्योपपन्नेनापि तेन तत्र तासु मध्ये काश्चित्प्रमदाः प्रसह्य न हृताः, किं तु गुणेन निरतिशयैश्वर्यवीर्यसौन्दर्यादिगुणेन स्वत एव लब्धाः । तत्र लङ्कायामन्यकामा च नाहृता, अन्यपूर्वा च नाहृता कथमेवं प्रत्यक्षापलापस्तत्राह विनेति । वरार्हां श्रेष्ठरामार्हाम् ॥ ५।९।७० ॥

उपचार उत्तमाम्बरभूषणमालादिः । कान्तस्य रावणस्य कामनीया मनोज्ञा न तादृशी च न ॥ ५।९।७१ ॥

अथ सीताप्येतत्स्त्र्यन्तर्गता न वेति विकल्प्याद्ये रावणस्य भद्रमेवेति बुद्धिर्हनूमतो जातेत्याह बभूवेति । साधुबुद्धेर्हरीश्वरस्येति बुद्धिर्बभूव इमा महाराक्षसराजभार्याः, यथा तद्भुक्ताः राघवधर्मपत्न्यपीदृशी एतदन्तर्गतैतद्भुक्ता च यदि स्यात्तदास्य रावणस्य सुजातं भद्रमेव भवति रावणभुक्तेति मया निवेदिते सति सीतायां मृतायामिव राघवस्योपेक्षणाद्रावणवधयत्नाप्रसक्तेरिति भावः ॥ ५।९।७२ ॥

यदीत्यनेन सूचितमस्य पक्षस्यात्यन्तासंभावितत्वमाह– पुनश्चेति । पक्षान्तरं च सो ऽचिन्तयत् विचारेण निश्चितवानित्यर्थः । चिन्ताप्रकारः हि प्रसिद्धमेतत् । यत्सीता देवी गुणतः पातिव्रत्यादिगुणैर्विशिष्ट अथ यत इत्यर्थे यतो महात्मा महाबलो लङ्केश्वरः निरवधिकैश्वर्यवैशिष्ट्यमनेन सूचितम् । ईदृशो ऽस्यां जानक्यामनार्यकर्मापहरणरूपं कर्म आत्तरूपः परिगृहीतमायारूपः सन्कष्टं सक्लेशं यथा भवति तथा कृतवान् । यद्येषा ऐश्वर्यादौ सरागा स्यात्तदा स्वरसत एव नयनं स्यात्, न च तदस्ति अस्माभिस्तद्विक्रोशनादेव रावणेन क्लेशपूर्वं नयनस्य चानुभवादित्याशयः । “आर्तरूपः” इति पाठे आर्तं सञ्जातपीडं रूपं यस्येत्यर्थं हनुमद्विशेषणम् । आन्तरपीडासूचकरूप इत्यर्थः ॥ ५।९।७३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे नवमः सर्गः ॥ ५।९ ॥