००८ पुष्पकविमानवर्णनम्

अथ विशिष्य पुष्पकं वर्णयितुमाह– स इति । मणिरत्नैर्मणिश्रेष्ठैश्चित्रितं प्रतप्तजाम्बूनदजालानां तन्मयगवाक्षाणां कृत्रिमं कृतिर्यस्मिंस्तत्तस्य भवनस्य रावणगृहस्य मध्ये महद्विमानं पुष्पकं ददर्श ॥ ५।८।१ ॥

अप्रमेयप्रतिकारकृत्रिममप्रमेयैरपरिच्छेद्यसौन्दर्यादिभिः प्रतिकारैः प्रतिमादिभिः कृत्रिमं निर्वृत्तचित्रशोभम् । पाठान्तरं त्वसांप्रदायिकमिति कतकः । विश्वकर्मणा च स्वयं साध्विति कृतम् मन्निर्मितेष्विदमतिसाध्वित्यनुमोदितमित्यर्थः । दिवमाकाशं गते वायुपथे प्रतिष्ठितम्, वायुपथस्यैवादित्यपथत्वात्तस्य चिह्नभूतम् ॥ ५।८।२ ॥

तत्र तादृशं किञ्चिन्न यत्प्रयत्नतो न कृतम्, अपि तु सर्वं प्रयत्नकृतमेवेत्यर्थः । यदवयवजातं महार्घरत्नवन्न बहुमूल्यरत्नवन्न नियताः प्रतिष्ठितास्ते सुरेषु सुरविमानेष्वपि न । महाविशेषो गुणाधिक्यम् ॥ ५।८।३ ॥

तपसोपवासादिना समाधानेन भगवति चित्तसमाधानेन लब्धो यः पराक्रमस्तेन रावणार्जितम् । मनःसमाधानेन यत्र विचारो गमनस्य तत्र सञ्चरणशीलं मनःसङ्कल्पितदेशगमनशीलम् । संस्थानविशेषा रचनाविशेषाः । ततस्ततस्तस्मात्तस्मादाहृतेन तुल्येन दिव्यविमाननिर्माणोचितेन विशेषेण विशिष्टपदार्थेन निर्मितम् ॥ ५।८।४ ॥

मनःसमाधाय स्वामिमनो ऽनुरुध्य तु शीघ्रगामित्वादिधर्मकं दुरासदम् पापिभिरिति शेषः । “दुरावरम्” इति पाठे शत्रुभिर्दुर्निवारमित्यर्थः । महर्द्धिनाम् दीर्घाभावश्छान्दसः । एवं तुल्यगामिनमित्यत्र पुंस्त्वम् । विमानशब्दो ऽर्धर्चादिर्वा । अग्र्यमुदां महासुखानां पुण्यकृतामेवालयमास्पदम् इवशब्द एवार्थे । अत्र तस्याचेतनत्वे ऽपि तदभिमानिदेवतायाश्चित्तज्ञत्वादिति बोध्यम् ॥ ५।८।५ ॥

विशेषं गतिविशेषमालम्ब्य । विशेषे व्योमलक्षणदेशविशेषे संस्थितम् विचित्राणामाश्चर्यवस्तूनां कूटं समवायभूतम् बहुभिः कूटैः शालाभिर्मण्डितम् गिरेर्विचित्रावान्तरशृङ्गवच्छिखरमिव ॥ ५।८।६ ॥

उच्यमानविशेषणा भूतगणा यद्वहन्ति तद्विमानं तत्र ददर्शेत्यन्वयः । विवृत्तानि निघूर्णानि विध्वस्तानि त्यक्तनिमेषाणि विशालानि लोचनानि येषाम् । निशाचरा निशास्वप्यहरविशेषं चरन्ति ते ॥ ५।८।७ ॥

वसन्तपुष्पोत्करचारुदर्शनं वसन्तकालिकपुष्पसमूहेन चारुदर्शनम् ॥ ५।८।८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे ऽष्टमः सर्गः ॥ ५।८ ॥