००७ हनुमता पुष्पकविमानदर्शनम्

अथ रावणप्रधानगृहं वर्णयति– स इति । व्यासक्तानि संबद्धानि वैदूर्यखचितानि च सुवर्णजालानि स्वर्णगवाक्षाणि यस्मिंस्तत् । सविहङ्गजालमिति गृहमेघयोर्विशेषणम् ॥ ५।७।१ ॥

प्रधानैः प्रशस्तैः शङ्खादिभिः शालन्ते शोभन्ते तादृशीर्निवेशनानां शाला अवान्तरगृहाणि ददर्श । पुनश्च विशालाश्चन्द्रशाला ददर्श । वेश्माद्रिष्वौन्नत्यादद्रितुल्यवेश्मसु । चन्द्रशालाः शिरोगृहाणि, चन्द्रकान्तमणिबद्धशाला वा ॥ ५।७।२ ॥

वसु धनम् । स्वबलेत्यत्र स्वशब्दो रावणवाची कुबेराद्रावणेन लङ्काया आच्छिद्य गृहीतत्वात् । यद्वा स्वशब्दो हनुमद्वाची । स्वबलेनार्जितानि लब्धप्रवेशानि ॥ ५।७।३ ॥

प्रयत्नेनाभितः सम्यगाहितानि यथायोगं स्थापितानि प्रयत्नाभिसमाहितानि विश्वकर्मकृतान्यपि मायया विचित्ररचनादक्षेण मयेन निर्मितानीव ॥ ५।७।४ ॥

गृहोत्तमं प्रधानगृहेष्वप्युत्तमम् अप्रतिरूपरूपं निरूपमरूपम् ॥ ५।७।५ ॥

प्रकीर्णं पातितम्, रत्नकीर्णं रत्नपूर्णम्, रजसा पुष्परजसा ॥ ५।७।६ ॥

नारीप्रवेकैर्नारीश्रेष्ठैः इवश्चार्थे । तडिद्भिरर्च्यमानं युज्यमानमम्भोधरं मेघमिव । हंसश्रेष्ठैर्वाह्यमानमूह्यमानं विमानमिव ॥ ५।७।७ ॥

नानावर्णैरयुक्तो ऽपि तद्युक्तः कृतो युक्तीकृतः स चासौ चारुमेघश्च तद्वद्विचित्रं विमानं पुष्पकाख्यम् ॥ ५।७।८ ॥

यत्र पुष्पके मही अनेकजनानामाधारस्थानं पर्वतराज्या पूर्णम् । प्रवतादयश्चात्र मणिस्वर्णादिनिर्मिताः, न त्विदं चित्ररूपमिति भ्रमितव्यम् अनन्तवानरसेनाया निर्बाधं तत्रावस्थानस्य वक्ष्यमाणत्वात् । किं च स्वामीच्छानुसारेण सङ्कोचविकासौ तस्य वक्ष्यति स्वेच्छया हनुमद्देहवत् । वितानं समूहः । एकावल्यत्रालङ्कारः ॥ ५।७।९ ॥

कृतानि अस्य यत्रेत्यादि शेषः ॥ ५।७।१० ॥

पुष्पाह्वयं नाम ददर्शेत्यन्वयः । वेश्मोत्तमानां देववेश्मभूतविमानानां मध्ये उच्चमानं सौभाग्यपरमकाष्ठां प्राप्तम् ॥ ५।७।११ ॥

कृताश्चेति । तत्र विमान इति शेषः । नानावसुभी रुप्यस्वर्णाद्यैः । जात्यानुरूपा जातितुरङ्गसदृशाः । तुरगविशेषणं चैतत् ॥ ५।७।१२ ॥

प्रवालजाम्बूनदकृतानि पुष्पाणि पक्षेषु येषाम् । आवर्जिताः सङ्कुचिता जिह्मा वक्राः पक्षा येषां ते । साक्षात्कामस्य पक्षा इव येषां पक्षा भान्ति तदुद्दीपकत्वात् । तादृशा उच्यमानगुणा विहङ्गास्तत्र कृताः ॥ ५।७।१३ ॥

नियुज्यमाना व्याप्रियमाणाः । वक्ष्यमाणाया लक्ष्म्या अभिषेके इति शेषः । हस्तः शुण्डा । पद्माकरविहारिगजाकारनिर्माणात्सकेसरत्वमुत्पलपत्रहस्तत्वं च तेषां तादृशा गजास्तत्र कृता बभूवुरिति शेषः, पद्मिनि पद्मवत्सरसि ॥ ५।७।१४ ॥

इतीवैवंप्रकारं चारुकन्दरं चारुगुहं नगमिव पर्वतमिव चारुदर्शनं तद्गृहमभिगम्य सविस्मयः बभूवेति शेषः । हिमात्ये वसन्ते परमसुगन्धिचारुकन्दरं नगमिव वृक्षमिव कन्दरो ऽत्र कोटरः । पुनश्चाभिगम्य सविस्मयो ऽभूदिति शेषः । परिच्छेदानवगमादिति भावः ॥ ५।७।१५ ॥

अभिपत्याभिपत्य चरन्सञ्चरन् । पतिगुणवेगनिर्जितां पतिगुणवेगेन पतिगुणनिरन्तरध्यानेन निर्जितां निर्जितदुःखामदृश्यादृष्ट्वा दुःखितो ऽभूदिति शेषः । आर्षो ल्यप् ॥ ५।७।१६ ॥

बहुविधभावितात्मनो नानाप्रकारेण सर्वजगत्पूजितस्वभावस्य स्वभाववाच्यात्मशब्दः । कृतात्मनो शिक्षितान्तःकरणस्य सुवर्त्मनः शोभननीतिमार्गवर्तिनः सचक्षुषः श्रुतिस्मृतिन्यायरूपचक्षुःसहितस्य ॥ ५।७।१७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः ॥ ५।७ ॥