विमानेषु सप्तभूमिप्रासादेषु । लाघवेन शैध्र्येण ॥ ५।६।१ ॥
राक्षसेन्द्रनिवेशनमाससाद ॥ ५।६।२ ॥
चकाशे चन्द्रसाहित्याद्व्यक्तान्वेषणक्रियो बभूवेत्यर्थः ॥ ५।६।३ ॥
रूप्यकं रजतं तेनोपहितैः शौभार्यं लिखितैः ॥ ५।६।४ ॥
गजास्थितैर्गजारूढैः । महामात्रैर्हस्तिपकैः उपस्थितं युक्तम् असंहार्यैरप्रतिहतवैगैः, स्यन्दनययिभिः स्यन्दनवाहकैः प्रशस्ताश्वैरित्यर्थः ॥ ५।६।५ ॥
सिंहव्याघ्रतनुत्राणत्वादिरथविशेषणम् । दन्तादिविकारा दान्तादयस्तत्स्थप्रतिमास्ता धरद्भिरिति शेषः । घोषवत्त्वं किङ्किणीभिः ॥ ५।६।६ ॥
महतां रथानामावापः स्थानं समन्ताद्यस्मिंस्तत् । महरथानाम् “एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते ॥ " इत्युक्तलक्षणमहारथानां महासनं सदा वासस्थानम् ॥
५।६।७ ॥
दृश्यैर्दर्शनीयः अत एव परमोदारैरतिसुन्दरैः ॥ ५।६।८ ॥
अन्तपालैः पर्यन्तरक्षकैः ॥ ५।६।९ ॥
राक्षसेन्द्राणां महापार्श्वादीनां निवेशनानि यस्मिंस्तत् । भूषणशब्दैः समुद्रस्वनसदृशनिःस्वनम् ॥ ५।६।१० ॥
तद्राजगुणसंपन्नं तैः प्रसिद्धै राजभवनगुणैः छत्रचामरादिभिः संपन्नम् । वरचन्दनैश्च संपन्नमित्यनुकर्षः ॥ ५।६।११ ॥
पर्वसु सुतः सोमो यस्मिन्यज्ञार्थे तत्पर्वसुतम् । राक्षसैः सदा पूजितं स्वपूजनीयदेवताकम् ॥ ५।६।१२ ॥
परिच्छदो ऽलङ्कारः । महात्मनो रावणस्य महद्वेश्म ददर्शेत्यन्वयः ॥ ५।६।१३,१४ ॥
अमन्यत तद्रावणवेश्मेति शेषः । रावणस्य रावणभवनस्य समीपतस्तत्प्राकारप्रदेशेषु ॥ ५।६।१५ ॥
गृहाद्गृहं राजवेश्म । महाप्राकारान्तर्वर्ति प्रधानरक्षसामेकस्य गृहादपरं गृहमित्यर्थः ॥ ५।६।१६ ॥
अस्यैव प्रपञ्चः– अवप्लुत्येत्यादि ॥ ५।६।१७२४ ॥
विद्युज्जिह्वद्विजिह्वानामिति बहुवचनमार्षम् । तयोरित्यर्थः “विद्युज्जिह्वेन्द्रजिह्वानाम्” इति वा पाठान्तरम् ॥ ५।६।२५२८ ॥
उपशायिन्यः । “उपशायोपशायश्च पर्यायशयनार्थकाः” । पर्यायेण शयनस्थानरक्षिका इत्यर्थ इत्याहुः ॥ ५।६।२९ ॥
गुल्मान्राक्षसीसमूहान् ॥ ५।६।३० ॥
हरीनश्वान् ॥ ५।६।३१ ॥
परगजारुजाञ्शत्रुगजानारुजन्ति भञ्जयन्ति तान् ॥ ५।६।३२,३३ ॥
मेघस्तनितनिर्घोषत्वादिविशिष्टान्गजान्ददर्शेत्यन्वयः । सहस्रं वाहिनीरनेकसेनाः ॥ ५।६।३४ ॥
हेमजालैरविच्छिन्नाः सर्वतो भूषिता इति शिबिकाविशेषणम् ॥ ५।६।३५ ॥
शिबिका ददर्शेत्यनुकर्षः । चित्रशालागृहाणि चित्रयुक्तशालावन्ति गृहाणि ॥ ५।६।३६ ॥
दारुनिर्मिताः क्रीडापर्वता दारुपर्वतकानि क्लीबत्वमार्षम् । कामस्य गृहकं रतिगृहकम् दिवागृहकं दिनविहारगृहम् सर्वत्रात्यन्तस्वार्थिकः कन् ॥ ५।६।३७ ॥
मयूरस्थानैः क्रीडामयूरस्थानैः सङ्कुलं व्याप्तम् ॥ ५।६।३८ ॥
निधिजालम् निधिजालवदित्यर्थः । धीरनिष्ठितकर्माङ्गं धीरैर्निर्भयस्थिरचित्तैर्निष्ठितं निर्वर्तितं कर्मणो निधिरक्षादिकर्मणो ऽङ्गं महिषादिबलिरूपं यस्मिन् । कश्चित्तु– कर्मान्तमिति पठित्वा धीरैर्निष्ठितस्यानुष्ठितस्य कर्मणस्तपोरूपस्यान्तं फलरूपमित्यर्थमाह । भूतपतेर्महेश्वरस्य यक्षेश्वरस्य वा ॥ ५।६।३९४१ ॥
मध्वासवयोरवान्तरभेदस्ताभ्यां कृतक्लेदम् आर्द्रमित्यर्थः ॥ ५।६।४२ ॥
घोषवद्भिर्मृदङ्गातिरिक्तैरपि घोषवद्भिर्वाद्यैर्विनादितम् ॥ ५।६।४३,४४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षष्ठः सर्गः ॥ ५।६ ॥