००५ रावणप्रासादवर्णनम्

अग्रे “चन्द्रो ऽपि साचिव्यमिवास्य कुर्वस्तारागणैर्मध्यगतो विराजन् । ज्योत्स्नावितानेन निपत्य लोकानुत्तिष्ठते ऽनेकसहस्ररश्मिः ॥ शङ्खप्रभाक्षीरमृणालवर्णं ह्युद्गम्यमानं ह्यवभासमानम् । ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥ " इति श्लोकद्वयं प्रिक्षिप्तम् ॥

१ ॥ २ ॥

ततो ऽन्तःपुरप्रेवेशोत्तरं रात्रेः प्रथमयामस्य समाप्तकल्पत्वमत्रेति बोध्यम् । मध्यङ्गतं व्योममध्यं तारामध्यं च प्राप्तम् अंशुमन्तं शीतांशुम् भानुमन्तं सूर्ययोगेन प्रकाशवत्किरणवन्तम् । गोष्ठे भ्रमन्तं मत्तं वृषमिव ॥ ५।५।१ ॥

पापानि पापजनकदुःखानि नाशयन्तम् लोकाह्लादजनकत्वात् समेधयन्तं वर्धयन्तम् विराजयन्तं प्रकाशयन्तम् अभितो यान्तमन्तःपुरदर्शनसाधनत्वेन खमध्यं प्राप्तम् ॥ ५।५।२ ॥

भुवि मन्दरस्था भात्यधिकसंनिधाना भवति । पुष्करस्था अह्नीति शेषः । सेदानीं निशाकरस्थेति पर्यायालङ्कारः पादचतुष्टये स्था इत्येकपदयमकं च भुवि मन्दरे प्रदोषे सागरे ऽधिकलक्ष्मीसंनिधानमृषिवचनादेवावसेयम् ॥ ५।५।३ ॥

हंसो यथेति । किञ्चिदाधारप्रतिष्ठितशुक्लवस्तुत्वमात्रेणाम्बरस्थचन्द्रे सादृश्यमिति कतकः । कुञ्जरो ऽप्यत्र श्वेत एव अम्बरमपि तत्किरणैरेव श्वेतमिति बोध्यम् । अम्बरस्थो ऽम्बरमध्यस्थः ॥ ५।५।४ ॥

परिपूर्णशृङ्गः परिपूर्णकलङ्करूपहरिणशृङ्ग इत्यर्थः । जाम्बूनदबद्धेति स्वरूपकथनमात्रम् ॥ ५।५।५ ॥

विनष्टः शीताम्बुतुषाररूपः शीतलजलबिन्दुसंपर्करूपः पङ्को यस्य तम् । तत्त्वं च वर्षाकालस्यातीतत्वाद्वस्तुतो हिमकाले ऽपि विनष्टः शीतलजलबिन्दुसंपर्करूपः पङ्को यस्य तमित्यर्थः । हिमालयस्यातिदूरत्वादिति भावः । विनष्टेति द्वितीयार्थे प्रथमामङ्गीकृत्येदम् । महाग्रहस्य सूर्यस्य ग्राहेण किरणसङ्क्रमेण विनष्टो विनाशितः पङ्कस्तमो येन सः, अत एव प्रकाशलक्ष्म्याश्रयेण हेतुना निर्मलाङ्को व्यक्तस्फुरल्लाञ्छनो रराज गगनमध्यं प्राप्येति शेषः ॥ ५।५।६ ॥

शिलातलं गुहाबहिःस्थम् ॥ ५।५।७ ॥

प्रकाशयुक्तचन्द्रस्योदयेनोर्ध्वमागमनेन नष्टो नाशितो ऽन्तर्गृहे ऽपि दोषस्तिमिरजो येन तथाभूतः प्रदोषो रजनीमुखं यामादूर्ध्वतनम् प्रवृद्धा वर्धिता रक्षसां पिशिताशनरूपा दोषा येन पिशितभक्षणस्य दोषत्वमविहितजीवहिंसाहेतुत्वात् । रामाणामभिरामविषयको रामणविषयक ईरितो निरस्तश्चित्तदोषः प्रणयकलहरूपो येन स्वर्गस्य सुखस्य प्रकाशो यतः, अत एव भगवान्पूज्यो रराजेत्यनुकर्षः ॥ ५।५।८ ॥

सुपृक्ता भेदग्रहाविषयाः । “स्ववृत्ताः” इति पाठे स्वं स्वीयं सहजपातिव्रत्यलक्षणं वृत्तं चारित्रं यासां ताः । नक्तञ्चरा उलूकादयो राक्षसाश्च तथा विहर्तुं प्रवृत्ताः ॥ ५।५।९ ॥

ऐश्वर्यादिमत्ताः प्रमत्ता मद्यादिना येषु तानि, अत एव समाकुलानि रक्षसां गृहाणि रथाश्चेति सर्वयानोपलक्षणम् । भद्रासनं स्वर्णपीठम् ॥ ५।५।१० ॥

आक्षिपन्त्युत्तरप्रत्युत्तरं कुर्वन्ति । अधिविक्षिपन्ति परस्परमित्यनुकर्षः । मत्तप्रलापानधिकं विक्षिपन्ति मुञ्चन्ति भर्त्सयन्ति वा । मत्तानि रक्षांसीत्याकर्षः । अधिक्षिपन्ति तिरस्कुर्वन्ति ॥ ५।५।११ ॥

वक्षांसि विक्षिपन्ति परस्परमास्फालयन्ति । गात्राणां हस्तादीनां कान्तासु क्षेपो न्यासः । चित्राणि रूपाणि नानाविधवेषान्विक्षिपन्ति कुर्वन्ति कान्ताप्रीतये संपादयन्ति । धनुषां विक्षेपो विस्फारणम् । ईदृशानि रक्षांसि ददर्श । शत्रन्तान्येतानि ॥ ५।५।१२ ॥

समालभन्त्यः चन्दनादीनीति शेषः । द्वितीयार्थे इमाः प्रथमाः । तत्रासंस्ताश्च ददर्शेति शेषो वा ॥ ५।५।१३ ॥

सुसद्भिः सुतरां सन्तो विभीषणादयस्तै रराज । पुरमिति शेषः । विनिःश्वसद्भिः स्वापेक्षितयोद्धृलाभात् ॥ ५।५।१४ ॥

बुद्धिः प्रधानं प्रधानगुणो येषाम् रुचिरमभिधानं वचनं येषाम् सम्यक्श्रद्दधानानास्तिकान् रुचिराभिधानान्रुचिरनाम्नः । नानाप्रकारं विधानं वेषादेर्येषां तान् ॥ ५।५।१५ ॥

आत्मगुणानुरूपांस्तदुचितव्यवहारवतः । कांश्चित्पुनर्विरूपानपि विद्योतमानान्सुरूपानिव ददर्शेत्यर्थः ॥ ५।५।१६ ॥

वरार्हाः श्रेष्ठविभूषणादियोग्या उत्तमोत्तमरूपाश्च । भावाः कटाक्षादयः । अनुभावः प्रभावः । भावो ऽन्तःकरणम् । तारास्तारकाः ॥ ५।५।१७ ॥

ज्वलन्ती रूपसंपदा ज्वलन्तीरिव । त्रपा लज्जा । प्रमदेन हर्षेणोपगूढाः संबद्धा यथा विहङ्गाः विहङ्गीरिवेत्यर्थः । इन्द्रनीलमणिमयोर्ध्वगेहेषु नीलतमःसदृशेषु शयनात्तत्सादृश्यम् ॥ ५।५।१८ ॥

भर्तुः परा उत्कृष्टत्वेनाभिमताः । धर्मपरा भर्तृसेवालक्षणधर्मतत्पराः । निविष्टा ऊढाः । “निवेशः शिबिरोद्वाहविन्यासेषु” इति कोशः । मदन उपविष्टो यासु मदनाश्रया इत्यर्थः ॥ ५।५।१९ ॥

अप्रावृता उत्तरीयहीनाः काञ्चनराजिवर्णाः कनकरेखाकाराः परार्ध्या उत्तमाः तपनीयवर्णास्तप्तस्वर्णवर्णाः शशलक्ष्मा चन्द्रः कान्तप्रहीणाः प्रियवियुक्ताः रुचिराङ्गवर्णाः सुन्दरदेहकान्तयः प्रथमं ददर्श ॥ ५।५।२० ॥

प्रियान्प्राप्य प्रीतियुक्ता आसन् । सुमनोभिः पुष्पैरभिरामाः, अत एव हृष्टाः परमया शोभया ऽभिरामाः स्वस्वकान्तमनोहरा रामा गृहेषु ददर्श । “प्रसमीक्ष्य रामाः” इति पाठे प्रियान्प्राप्य तान्समीक्ष्य प्रीतियुक्ता रामस्तैः प्रियै रम्यमाणाः, अत एव गृहेषु हृष्टा रामाः । ददर्शेति शेषः ॥ ५।५।२१ ॥

चही पादपूरकौ । वक्रमाला वक्रसमूहाः वक्राः वक्रप्रेक्षणाः । सुपक्ष्माः शोभनपक्ष्मयुक्ता नेत्रमाला ददर्श । शतह्रदानां माला इव भूषणानां माला ददर्श । “वक्राक्षिपक्ष्मा” इति पाठे ऽक्षिपदमधिकम् । वक्रपक्ष्मा इत्येवोचितम् । पक्ष्मसु वक्रत्वमपि किमित्यपि चिन्त्यम् ॥ ५।५।२२ ॥

पथि स्थिते धर्ममार्गस्थे । नत्वेव ददर्शेत्यन्वयः । साधुजातामिति लताविशेषणम् । मनसाभिजातां धात्रा मनसा सृष्टाम् ॥ ५।५।२३ ॥

सनातने वर्त्मन्यविच्छेदप्रवृत्ते पातिव्रत्यमार्गे । राममीक्षते ध्यायति रामेक्षणी ताम् मदनेन रामविषयेणाभिविष्टां व्याप्ताम् श्रीमद्भर्तुर्मनो ऽनुप्रविष्टाम् । अनेन परस्परानुरागो ध्वनितः ॥ ५।५।२४ ॥

उष्णार्दितां विरहतापपीडिताम् अनुसृतास्रेण प्रवृत्तबाष्पेण सह वर्तमानः कण्ठो यस्यास्ताम् अत्र ङीषार्षः । “कण्ठाम्” इति वा पाठः । पुरा रामसंनिधिकाले वराणामुत्तमभूषणानामर्हः, अत एवोत्तमनिष्क उत्तमभूषणः कण्ठो यस्मास्ताम् । अभिरक्तो मधुरस्वरः कण्ठो यस्मास्ताम् । नीलकण्ठी मयूरी ॥ ५।५।२५ ॥

अव्यक्ताभ्रादिना ऽस्पष्टा रेखा रेखाकारो यस्यास्ताम् प्रदिग्धां रूषिताम् क्षतप्ररूढां क्षतेन प्ररूढामुत्पन्नां वर्णरेखां बाणव्रणचिह्नं तद्वद्रामस्येदानीं रावणस्य वा ॥ ५।५।२६ ॥

चिरस्य चिरमित्यर्थे ऽव्ययम् । चिरमन्विष्याप्यपश्यन्नचिरस्य सद्यो मन्द इवान्वेषणाद्यकुशल इव दुःखोपहतो बभूव । अत्र सर्गे यमकालङ्कारः ॥ ५।५।२७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५।५ ॥