स इति ॥ ५।४।१ ॥
प्राकारमद्वारेणावपुप्लुवे । शत्रोः पुरं ग्रामं गृहं वा । “अद्वारेण प्रविशेच्छत्रुविनाशाय” इति नीतिस्मृतेरिति भावः ॥ ५।४।२ ॥
अद्वारेण प्रवेशे ऽपि सव्यं पादं वामपादं प्रथमतश्चक्रे, यतः स तु प्रथमनिक्षिप्तवामपादस्तु शत्रूणां मूर्धन्येव निहितो भवति । तथा विजयप्रदो भवतीति भावः । उक्तं च– “प्रयाणकाले स्वगृहप्रवेशे विवाहकाले ऽपि च दक्षिणाङ्ध्रिम् । कृत्वा ऽग्रतः शत्रुपुरप्रवेशे वामं निदध्याच्चरणं नृपालःऽ इति ॥ ५।४।३ ॥
महापथं राजमार्गम् ॥ ५।४।४ ॥
हसितैरट्टहासैरुत्पन्ना ये उत्कृष्टनिनदास्तूर्यघोषैः पुरस्कृतास्तैरुपलक्षिताम् ॥ ५।४।५ ॥
वज्राणामङ्कुशानां निकाशाः प्रतिमा येषु गृहेषु तैर्बभासे । वज्रनिर्मितानि जालानि गवाक्षाणि तद्विभूषितैर्गृहैः ॥ ५।४।६ ॥
पद्मादिसञ्ज्ञकं संस्थितं संस्थानं येषां तैः ॥ ५।४।७ ॥
वर्धमानगृहैर्वर्धमाननामकसंस्थानवद्गृहैः । “चतुःशालं चतुर्द्वारं सर्वतोभद्रसञ्ज्ञितम् । पश्चिमद्वाररहितं नन्द्यावर्ताह्वयं तु तत् ॥ दक्षिणद्वाररहितं वर्धमानं धनप्रदम् । प्राग्द्वाररहितं स्वस्तिकाख्यं पुत्रधनप्रदम् ॥ " इत्युक्तेः । हितंकर इत्यार्षः ॥
५।४।८ ॥
चरंस्तां ददर्शेत्यन्वयः ॥ ५।४।९ ॥
विविधाकृतिरूपाणि विविधा आकारा रूपाणि वर्णाश्च येषां तानि भवनानि ददर्शेति पृर्वेणान्वयः । त्रिस्थानस्वरभूषितमुरःकण्ठशिरोरूपस्थानत्रयजैर्मन्द्रमध्यतारस्वरैर्भूषितम् ॥ ५।४।१०,११ ॥
सोपाननिनदान्सोपानसञ्चरत्कान्ताजनकाञ्चीमञ्जीरनिनदान् । यद्वा सोपानेषु पदाघातजशब्दान् । आस्फोटितं विलासार्थं करास्फालनं तज्जन्यनिनादान् । क्ष्वेडितान्सिंहनिनादान् ॥ ५।४।१२ ॥
मन्त्रान्वेदमन्त्रान् । स्वाध्याये ऽदृष्टार्थे निरतान् ॥ ५।४।१३,१४ ॥
मध्यमे गुल्मे मध्यमकक्ष्याप्रदेशे । चरान्नगरवृत्तान्तावेदकगूढचारान् । दीक्षितजटिलमुण्डा गृहिवनियतयः गोजिनं गवाजिनं तद्वाससः अम्बरवाससो विवाससः । ननु लङ्काया भारतखण्डाद्बहिर्भावेन कर्मभूमित्वाभावात्कथं तत्र रक्षसां दीक्षितत्वमिति चेन्न । नित्यकर्मस्वन्यदेशेप्यधिकारात् । रावणादेस्तपोमाहात्म्यात्तत्र काम्यकर्मसिद्धिरपीत्यन्यत् । “यथा त्वष्टुरमेन्द्रमेव सोममाजह्रे” इत्यादिशतपथोक्तरीत्या । एतेन देवानामीषद्विकृतानपि यज्ञान्दर्शयतीति भाष्यरीत्या चाङ्गवैकल्ये ऽप्यनुष्ठितात्कर्मणो पृत्रोत्पत्तिरूपकामनासिद्धिस्तथा प्रकृते देशरूपाङ्गवैकल्ये ऽपि तत्सिद्धिः । रक्षसामपि देवयोनित्वात् ॥ ५।४।१५ ॥
अरिष्टनिवारणपूर्वकमनुष्ठाननिर्वाहाय दर्भमुष्टिप्रहरणत्वं केषाचित् “यथा वज्रं हरेः पाणौ तथा विप्रकरे कुशाः” इति स्मृतेः । कृत्याद्युत्पादनद्वारा शत्रुमारकतयाग्निकुण्डानामायुधत्वम् । कूटो ऽयस्कारकूट आयुधविशेषः ॥ ५।४।१६ ॥
एकपयोधरान्परभागे सूक्ष्मसंनिवेशस्तेनापि रहितान् । विकटान्विकटाङ्गान् ॥ ५।४।१७,१८ ॥
नातिदीर्घातिह्रस्वाकारान् । वृत्तभङ्गो रेफहकारसंयोगपरो गुरुर्लघुकार्यकारीति न ॥ ५।४।१९ ॥
छन्दोभङ्ग आर्षः ॥ ५।४।२० ॥
वृक्षायुधा वक्रलकुटाद्यायुधाः । पट्टिशाशनी आयुधविशेषे । क्षेपणी भिन्दिपालः ॥ ५।४।२१ ॥
यथास्वैरचरान्यथेष्टं स्वैरविहारं गतान् ॥ ५।४।२२ ॥
अव्यग्रं सावधानम् । आरक्षमासमन्तादन्तःपुररक्षकं सैन्यम् । मध्यमं मध्यमकक्ष्यास्थितम् ॥ ५।४।२३ ॥
अन्तःपुराग्रतो रावणान्तःपुरगृहस्याग्रतः । तद्गृहमारक्षावस्थितिगृहं दृष्ट्वा । स प्रकृतः प्रसिद्धः कपिः ॥ ५।४।२४ ॥
राक्षसेन्द्रस्य गृहमुच्यमानविशेषणं ददर्श । पुण्डरीकावतंसाभिः श्वेतपद्मभूषिताभिः ॥ ५।४।२५,२६ ॥
विमानैः पुष्पकादिभिः । विचित्रवर्णादिमत्त्वादद्भुतत्वं हयानाम् । हयगजैर्हयाकारैर्गजैः स्वल्पगजैरिति यावत् ॥ ५।४।२७ ॥
द्वारमित्यस्य ददर्शेति शेषः ॥ ५।४।२८ ॥
विवेशाससाद ॥ ५।४।२९ ॥
हेमतप्तवर्णं स्वर्णं तत्सहितेन जाम्बूनदेन षोडशवर्णस्वर्णेन निर्मितं चक्रवालं प्राकारमण्डलं यस्य । महार्हमुक्तामणिभिर्भूषितो ऽन्तःशिरोभागो यस्य । परार्ध्याभ्यामुत्तमाभ्यां कालागुरुचन्दनाभ्यामर्हो ऽर्हणं पूजा यस्य तदन्तःपुरमाविवेश । स हनुमान् ॥ ५।४।३० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥ ५।४ ॥