००३ लङ्कागमनम्

लम्बशिखरे उन्नतशिखरे लम्बे लम्बाख्यपर्वते, अत एव लम्बतोयदसन्निभे । सत्त्वं सत्त्वगुणमपेक्षितबलं च । रजस्तमःप्रधानरक्षोजयाय सत्त्वगुणाश्रयणम् । मेधावी कालोचितविचारज्ञः ॥ ५।३।१,२ ॥

सागरोपमनिर्घोषां सागरशब्दसदृशरक्षःशब्दवतीम् ॥ ५।३।३ ॥

विटपावत्यलकापुरी । निर्यूहो मत्तवारणः । चारुस्तोरणस्थनिर्यूहो यस्यास्ताम् । पाण्डुरे सुधाधवले द्वारे तोरणं यस्यां ताम् ॥ ५।३।४ ॥

भूजगैराचरितां कृतसञ्चाराम् । भोगवतीं सर्पनगरीम् । सविद्युद्भिर्घनैर्व्याप्ताम् । ज्योतिषां ग्रहर्क्षादीनां गणैर्निषेवितामित्युत्तरान्वयि ॥ ५।३।५ ॥

चण्डमारुतानां परिवहादीनां शब्दो यस्यां तादृशीममरावतीमिव स्थिताम् । अत्रामराः सन्त्यस्यामित्यमरावती द्यौः असञ्ज्ञायामपि “मतौ बह्वचः” इत्यार्षो दीर्घः । न त्विहेन्द्रपुर्यमरावती उक्तलक्षणाभावात् लङ्काया उक्तद्युसादृश्यं च

सालङ्कारराक्षसवत्त्वाद्बलवद्धोषबाहुल्याच्चेति कतकः । शातकुम्भेन स्वर्णमयेन ॥ ५।३।६ ॥

किङ्किणीजालैः क्षुद्रघण्टिकासमूहैः शब्दो यासां ताभिः ॥ ५।३।७ ॥

वैदूर्यमणिभिः कृता वेदिकाश्चत्वरा येषु तादृशैर्द्वारैः ॥ ५।३।८ ॥

मणिस्फटिकमुक्ताभिश्च कृतवेदिकैर्द्वारैः सर्वत उपलक्षिताम् कुट्टिमो निबद्धा भूः निर्यूहो मत्तवारणः राजतामलपाण्डुरै रजतमयामलपाण्डुरोपरिप्रदेशैः । सर्वत्र द्वारं विशेष्यम् ॥ ५।३।९ ॥

वैदूर्यमणिभिः कृतानि सोपानानि येषु तैः । स्फाटिका स्फटिकरचिता अन्तर्मध्यप्रदेशा अपांसवश्च येषु तैर्द्वारैः । चारुसञ्जवनैः सभाभिरुपेतैर्द्वारैः खमुत्पतितैरिव शुभैर्गृहैरुपलक्षितैर्द्वारैः ॥ ५।३।१० ॥

सङ्घुष्टैः कृतघोषैर्द्वारैः ॥ ५।३।११ ॥

वस्वोकसारालका तत्सदृशीम् । ह्रस्व आर्षः । जम्बूनदमयद्वारत्वादिना सादृश्यम् । खमिवोत्पतिताम् । गिरिमूर्ध्नि प्रतिष्ठितत्वात् ॥ ५।३।१२१४ ॥

अनेन धर्षयितुमशक्या किम्, सर्वथा नेत्याह कुमुदेत्यादि । प्रिसद्धा प्रकर्षेण सिद्धगतिका ॥ ५।३।१५ ॥

कुशपर्वण इति कुशपर्वसदृशलोमवत इत्यर्थकमृक्षस्य विशेषणम् । अतिदीर्घकठोरलोमावृतत्वात्कपिमुख्यस्येति विशेषणं च । तस्यैव मम चैव गतिः । अस्यामिति शेषः ॥ ५।३।१६ ॥

रामस्य पराक्रमं लक्ष्मणस्य विक्रान्तं शौर्यं च समीक्ष्येदृश्यपि तदीयबाणैरीषत्करध्वंसेति विचार्य प्रीतिमानभूदविषण्णो ऽभूत् ॥ ५।३।१७ ॥

रत्नवसनोपेतां रत्नप्राकारवाससं च । गोष्ठान्यागाराणि चावतंसो यस्यास्ताम् । गोष्ठं गोशाला । इदं वाजिशालादेरप्युपलक्षणम् । यन्त्राणि प्राकारोपरि स्थापितानि क्षेपण्यादीनि तद्गृहस्तनीम् ॥ ५।३।१८ ॥

तां प्रसिद्धां लङ्काम् । भास्वरैश्च महाग्रहैः चाच्चन्द्रकिरणैः ॥ ५।३।१९ ॥

सा नगरी स्वेन रूपेणाधिष्ठातृदेवतारूपेण युक्ता ददर्श ॥ ५।३।२० ॥

स्वयमेवोत्थिता । अनन्यप्रेरितेति यावत् ॥ ५।३।२१ ॥

अतिष्ठत देवतारूपं प्रकाशितवती ॥ ५।३।२२ ॥

वनालय वानर तत्त्वं सत्यात् ॥ ५।३।२३ ॥

त्वयैषा प्रवेष्टुं न शक्यम् । क्षुदुपहन्तुं शक्यमितिवत् । “न शक्या” इति पाठस्तु सुगम एव ॥ ५।३।२४,२५ ॥

अथ तया पृष्टो हनूमांस्तां प्रति तत्प्रश्नोत्तरकथनं प्रतिज्ञाय, सुरसावदेषा पूज्या वा सिंहिकावद्वध्या वेति निर्णेतुं पृच्छति– का त्वमिति ॥ ५।३।२६,२७ ॥

आज्ञाप्रतीक्षा नियोगपरिपालिका ॥ ५।३।२८,२९ ॥

अथापि का त्वं तत्राह– अहं हीति । स्वयम् स्वदेवतास्वरूपेणेत्यर्थः ॥ ५।३।३० ॥

यत्नवाँल्लङ्काधिष्ठातृत्वेनावगतत्वात्तद्विजयोपाये यत्नवान् ॥ ५।३।३१ ॥

स्त्रीरूपविकृतां विकृतस्त्रीरूपाम् । अथ लब्धप्रश्नोत्तरस्तत्प्रश्नोत्तरमाह– आबभाष इति ॥ ५।३।३२ ॥

द्रक्ष्यामीत्यर्थमिह संप्राप्त इत्यन्वयः । दर्शनं प्रयोजनमुद्दिश्येत्यर्थः ॥ ५।३।३३ ॥

वनं कृत्रिमम्, काननमकृत्रिमम् ॥ ५।३।३४ ॥

भूयो ऽधिकं परुषाक्षरं वाक्यं पुनर्बभाष इति संबन्धः ॥ ५।३।३५,३६ ॥

अनिर्जित्य द्रष्टुं न शक्यमित्युक्ते ऽपि कस्यापि वस्तुनो ऽग्रहणपूर्वकं केवलं दर्शनमात्रे तव का क्षतिरित्याशयेनाह– ततः स इति । स हनूमान् ॥ ५।३।३७ ॥

वेगिता सञ्जातवेगा ॥ ५।३।३८ ॥

महानादं ननादेति निर्भयत्वद्योतनम् ॥ ५।३।३९ ॥

अङ्गुलीः संवर्तयामास । मुष्टिं बबन्धेत्यर्थः ॥ ५।३।४० ॥

वामहस्तमुष्टिबन्धे आशयमाह– स्त्री चेति । तेन प्रहारेण वाममुष्टिकृतसदयताडनेनापीत्यर्थः । विकृताननदर्शना विकृतवक्रदृष्टिः ॥ ५।३।४१,४२ ॥

उद्विग्ना भीतां । अगर्वितं गर्वरहितम् ॥ ५।३।४३ ॥

त्रायस्व मा प्राणनाशं कुर्वित्यर्थः । तत्र हेतुः– समय इति । स्त्री न हन्तव्येति शास्त्रमर्यादायामित्यर्थः ॥ ५।३।४४ ॥

यद्यप्यहं लङ्काधिष्ठातृदेवतात्वाद्दुर्जया, तथापि त्वया निर्जिता ॥ ५।३।४५ ॥

इदं च तथ्यं शृणु । त्वदनुग्रहार्थमुच्यमानमित्यर्थः । वरदानं दत्तम् कृतमित्यर्थः ॥ ५।३।४६ ॥

रक्षसां भयमिति । एवं च मज्जयो ऽयं सर्वरक्षोजयसूचक इति भावः ॥ ५।३।४७ ॥

न तस्यास्ति व्यतिक्रमः भगवद्दत्तवरस्य रावणस्य स्वकृताधिक्षेपक्षुभितनन्दिकेश्वरशापात्तु सद्यः प्राप्तो विनाशः, स्वयंभूवरवशाद्वानरास्कन्दनपर्यन्तं प्रतिबद्ध इति कथात्रानुसन्धेयेति तीर्थः ॥ ५।३।४८,४९ ॥

विधत्स्वानुतिष्ठ ॥ ५।३।५० ॥

शापोपहतां सत्यसङ्कल्पभगवद्वचनेन नन्दिकेश्वरशापेन च प्रापितनाशकालां हरीश्वरस्त्वं प्रविश्य यदृच्छया सर्वत्र रावणान्तःपुरपर्यन्तं यथासुखं गतः सन्सतीमप्रच्युतपातिव्रत्यां जानकीं विमार्गान्वेषय । अनेन च वचनेन सीता ऽकल्मषात्र पुरे वर्तत इत्युपदिष्टम् ॥ ५।३।५१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥ ५।३ ॥