त्रिकूटस्य लम्बापरपर्यायस्य पर्वतस्य तटे स्थितः स्वस्थो भूत्वा लङ्कां ददर्श ॥ ५।२।१ ॥
पुष्पमयः पुष्पमयवानर इव ॥ ५।२।२ ॥
अनिःश्वसञ्श्रमजश्वासरहितः । तदेवाह न ग्लानिमिति । कविवाक्यमेतत् ॥ ५।२।३ ॥
अहं योजनानां बहूनि शतान्यपि क्रमेयं क्रामेयं क्रमितुं शक्तः । शतयोजनमिति सङ्ख्यातं सागरस्यान्तं परं पारं क्रामेयमिति का गणना ममेति । मन्यते स्मेति शेषः । हनुमदभिप्रायानुवादः कवेः ॥ ५।२।४ ॥
जगाम लङ्काम् पर्वतशिखरादवरुह्येति शेषः ॥ ५।२।५ ॥
मध्येन जगाम मध्यमार्गेण वनादीन्पश्यञ्जगाम । नगवन्ति वृक्षवन्ति प्राशस्त्ये मतुप् ॥ ५।२।६ ॥
शैलाँल्लम्बगिरिपादरूपान् ॥ ५।२।७ ॥
स तस्मिंल्लम्बपर्वते तिष्ठँल्लङ्काया वनान्युपवनानि च ददर्श । अपि च स पवनात्मजस्तां लङ्कां नगाग्रे पर्वताग्रस्थितां ददर्श ॥ ५।२।८ ॥
अस्यैव प्रपञ्चः सरलानित्यादि । मुचुलिन्दा जम्बीरा इत्याहुः ॥ ५।२।९ ॥
गन्धपूर्णान्गन्धाढ्यान् ॥ ५।२।१०,११ ॥
रावणतपोबलात्तस्यां सर्वे वृक्षाः सर्वदा पुष्पिता इति न कश्चिद्विरोधः । आक्रीडाः क्रीडापर्वताः इति कतकः, साधारणोद्यानान्याक्रीडा इत्यन्ये । राज्ञामसाधारणान्युद्यानान्याक्रीडा इति तीर्थः ॥ ५।२।१२,१३ ॥
समासाद्य लङ्कां लङ्कासमीपं प्राप्य वक्ष्यमाणविशेषणां लङ्कां ददर्शेत्यन्वयः ॥ ५।२।१४ ॥
सीतापहरणात् सीतां लङ्कायामपहृत्य स्थापनाद्धेतोरित्यर्थः । राक्षसाश्च रक्षणे करणभूताः ॥ ५।२।१५,१६ ॥
प्रतोल्यो रथ्याः । तासां पाण्डुरत्वमुच्चत्वं च तत्रत्यसौधसंबन्धकृतम् । अट्टालकाः प्राकारशिरांसि । पताका ध्वजपटस्तद्युक्तध्वजशोभिताम् ॥ ५।२।१७ ॥
लतापङ्क्तिस्तदाकारचित्रविशेषास्तया विराजितैः शोभमानैस्तोरणैर्युक्तां देव इन्द्रो देवपुरीममरावतीमिव । अनेन परनगरादिकृतक्षोभाभावः सूचित इति बोध्यम् ॥ ५।२।१८ ॥
गिरिमूर्धस्थत्वादाकाशगपुरोपमेयता लङ्कायाः ॥ ५।२।१९ ॥
गिरिमूर्धस्थत्वादेवाकाशे प्लवमानामिव । लङ्कां द्रष्टुर्हनूमत इव तद्वर्णनप्रसक्तस्य कवेरप्याश्चर्यमग्नतया ददर्शेति पुनरुक्तिर्न दोषाय । विस्मयेन पुनः पुनर्ददर्शेति वा तात्पर्यम् ॥ ५।२।२० ॥
लङ्कां स्त्रीत्वेन वर्णयति– वप्रेति । वप्रः प्राकाराभ्यन्तरवेदिका तद्युक्तप्राकारजघनाम् । विपुलाम्बुः समुद्रो वनानि चाम्बरं वासो यस्यास्ताम् । अत्राम्बुशब्देन परिखान्तर्जलमिति तीर्थः ॥ ५।२।२१ ॥
विश्वकर्मणा निर्मितां तेनापि मनसा कृतामिव स्थिताम् । द्वारमुत्तरमासाद्य समुद्रदक्षिणतटे प्लवनेन तस्यैव प्रथमं प्राप्तेः । चिन्ता वक्ष्यमाणप्रकारा ॥ ५।२।२२ ॥
कैलासो निलयः स्थानं यस्यालकाद्वारस्य तत्प्रख्यमुत्तरद्वारम् । उच्छ्रितैर्भवनोत्तमैरम्बरमालिखन्तमिव । आकाशं ध्रियमाणमिवाकाशधारणं कुर्वदिव ॥ ५।२।२३ ॥
एतदग्रे “संपूर्णां राक्षसैर्घोरैर्गुहामाशीविषैरिव” इति पाठः, इतरत्प्रक्षिप्तमिति कतकः । राक्षसैः संपूर्णां नगरीं महतीं गुप्तिं रिपुं रावणं च सागरं च निरीक्ष्य चिन्तयामास सादरं चिन्तयामासेत्यर्थः ॥ ५।२।२४ ॥
चिन्ताप्रकारः आगत्यापीति । अपिना आगमनस्यैवाशक्यता सूचिता । एषैव सागरनिरीक्षणेन सूचिता । सुरैरपि जेतुमशक्या यदतः ॥ ५।२।२५ ॥
इमां त्विति । अविषमां न विद्यते विषमा यतस्ताम् । प्राप्यापीत्यपिना पदातित्वादागमनमेवाशक्यमिति सूच्यते । किं करिष्यति राघवः प्रायो राघवस्यापि दुःसाध्येत्यर्थः ॥ ५।२।२६ ॥
अवकाशो नेति । उपचितार्थत्वाद्बलदर्पपराक्रमसंपन्नत्वात्सुस्निग्धदृढप्रकृतित्वाच्च न सामादीनामवकाश इति भावः ॥ ५।२।२७ ॥
पूर्वम् “आगत्यापीह हरयः” इत्युक्तम्, इदानीं सर्ववानरागमनासंभव एवेत्याह चतुर्णामेवेति ॥ ५।२।२८ ॥
ननु जानकीजीवनज्ञाने तन्मोक्षणाय बलाबलादिचिन्ता, अतस्तद्दर्शनचिन्तैव प्रथमं युक्तेत्याह– यावज्जानामीति । “यावत्पुरा” इति लट् ज्ञास्ये इत्यर्थः । तत्रैव जानकीदर्शनविषये एव प्रथममिति शेषः । प्रथमं तां दृष्ट्वा पश्चाद्यच्चिन्त्यं तत्तदानीमेव चिन्तयामीति शेषः ॥ ५।२।२९ ॥
रामस्याभ्युदयं तदभ्युदयरूपसीतान्वेषणोपायम् ॥ ५।२।३० ॥
चिन्ताप्रकारः अनेनेति ॥ ५।२।३१,३२ ॥
लक्ष्यं कार्यप्रवृत्यानुमेयम् । तच्च तदलक्ष्यं चेन्द्रियागोचरमित्यर्थः । महत्कृत्यं सीतान्वेषणरूपं साधयितुं तेन रूपेण लङ्कापुरीं प्रवेष्टुं प्राप्तकालमुचितम् ॥ ५।२।३३ ॥
तेन रूपेणाप्यन्वेषणं कथं घटेतेति पुनश्चिन्तयति– तां पुरीमिति ॥ ५।२।३४,३५ ॥
नेति । रहिते एकान्ते कथं पश्येयमित्यन्वयः ॥ ५।२।३६ ॥
ननु सीतादर्शने किमर्थमेकान्तापेक्षा तत्राह– भूताश्चेति । भूतार्थाः सिद्धप्रायकार्याणि विक्लवं कातरमविमृश्यकारिणं दूतमासाद्य देशकालाभ्यामुचितप्रवृत्तिहीनाभ्यां विरोधिताः सन्तः सूर्योदये तम इव विनश्यन्ति अतो ऽसहायेन मयैतादृशे देशे काले कार्ये च गुप्तमेव प्रवर्तितव्यमिति भावः ॥ ५।२।३७ ॥
न केवलं कार्यहानिः, किं त्वन्यदपि स्यादित्याह– अर्थानर्थान्तरे इति । अर्थानर्थान्तरे कार्याकार्यविषये निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिर्न शोभते । विक्लवं दूतमासाद्येति शेषः । तदेव द्रढयति– घातयन्तीति । एवं सति लोको मत्स्वामिनं बुद्धिशून्यमपि जानीयादित्याशयः ॥ ५।२।३८ ॥
यदेवम्, अतः कार्यं राजकार्यं न विनश्येत् । वैक्लव्यं बुद्धिहीनता तत्प्रसिद्धिः स्वस्य स्वस्वामिनश्च ॥ ५।२।३९ ॥
रावणानर्थं रावणवधम् ॥ ५।२।४० ॥
अदर्शनेन सञ्चारश्च सर्वथा ऽशक्य इत्याह नहीति ॥ ५।२।४१ ॥
रक्षसामविदितं रक्षोभिरविदितं न किञ्चिदस्ति कृत्रिमरूपमिति शेषः । अतः प्राकृतसहजकपिरूपेणैव स्थातव्यमिति भावः ॥ ५।२।४२ ॥
किं च यावदस्तमयं स्वगोपनमेवोचितमित्याह– इहेति । स्वेन रूपेण संवृतः सन्युक्तः सन्निहाह्नि देशे च यदि तिष्ठामि तदा स्पष्टं परैरवगम्यमानत्वाद्विनाशमुपयास्यामि भर्तुरर्थहानिश्च । तस्मादासायमत्रैव क्वचिद्गिरिगुहायां निःशङ्कं स्थित्वा रजन्यामपि स्वेन रूपेणैव, परन्तु ह्रस्वतां गतो भूत्वा लङ्कामभिपतिष्यामीत्यन्वयः ॥ ५।२।४३,४४ ॥
प्रथमतः पुरीं प्रविश्य ततः सर्वं भवनं रावणगृहं प्रविश्य ॥ ५।२।४५,४६ ॥
वृषान्मूषकान्दशतीति वृषदंशको मार्जारस्तन्मात्रस्तत्प्रमाणः ॥ ५।२।४७ ॥
प्रविवेश पुरीमिति प्रवेशपूर्वकान्वेषणसङ्क्षेपोक्तिः ॥ ५।२।४८ ॥
तृतीयान्तेषु उपलक्षितामिति शेषः ॥ ५।२।४९ ॥
सप्तेति । भूमीनां समूहैः सप्तसङ्ख्यावयवयुक्तैरुपलक्षिताम् । स्फटिकसङ्कीर्णैः स्फटिकरत्नखचितैः स्थलैरित्यर्थः । स्थलं भूः । “तलैः” इति पाठे ऽपि स एवार्थः । तैस्तैः प्रासादैरिति शेषः ॥ ५।२।५० ॥
रक्षसां तोरणानि रक्षोगृहद्वारस्थतोरणानि ॥ ५।२।५१ ॥
अचिन्त्यामश्क्यान्वेषणचिन्ताम् । अयं विषादहेतुः । अद्भुताकारामिति हर्षहेतुः ॥ ५।२।५२ ॥
पाण्डुरा सुधाधवला आविद्धा परस्परसंविद्धा विमानानां सप्तभूमिकप्रासादानां माला ऽस्यामस्ति तां प्रविवेशेति शेषः ॥ ५।२।५३ ॥
मध्यगतः खमध्यगतः । अनेकसहस्रेत्यनेन पूर्णत्वम् । अनेकेत्यस्यैव सहस्रेत्यनेन विवरणम् । उत्तिष्ठते आर्षस्तङ् । ज्योत्स्नावितानेन लोकान्वितत्यावार्य सम्यगवलोकनसाधनतया ऽस्य हनूमतः साचिव्यं साहाय्यं कुर्वन्निव । ननु खमध्यगतस्य प्रदोषे उदयो ऽष्टम्यां न तदा पूर्णत्वम्, पूर्णस्य तु न खमध्यगतस्योदय इति चेन्न । शुक्लैकादश्यां खमध्यसमीपगतत्वेन मध्यगतत्वोपचारात्पूर्णत्वं च पूर्णकल्पत्वेन व्यवहृतम् । यद्वानेकन्यूनाः सहस्रं रश्मयो यस्येति मध्यमपदलोपितत्पुरुषगर्भो बहुव्रीहिः । अत एव रात्रिशेषे हनूमत्यशोकवनिकास्थे सीतासविधे रावणस्यागमनकाले दीपिकावर्णनं कृतम् । तेन हि तदा चन्द्रास्तानुमानम् । सा चेयं मार्गशीर्षस्य फाल्गुने लङ्कां प्रविष्टायाः सीतायाः “वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम” इति हनूमन्तं प्रति वचनात् । हरणदिन एव च सीताया लङ्काप्रवेशनं रामभयादिति स्पष्टमेव ॥ ५।२।५४ ॥
पोप्लूयमानं भृशं प्लवमानम् ॥ ५।२।५५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥ ५।२ ॥