अथ गृहीतमहाविग्रहस्य हनूमतो वानरबलाश्वासनाय निजबलप्रख्यापनपूर्वं समुद्रलङ्घनाय महेन्द्रपर्वतारोहणमाह– तमिति । जृम्भमाणं वर्धमानम् । ते वानराः ॥ ४।६७।१,२ ॥
कृतोत्साहम्, त्रिलोकीविक्रमणे इति शेषः ॥ ४।६७।३ ॥
समाविद्ध्यास्फाल्य ॥ ४।६७।४६ ॥
अम्बरीषं भ्राष्ट्रं तदुपपम्, अत एव दीप्तं प्रज्वलत् । अङ्गारवर्णप्रतप्तभ्राष्ट्रोपममिति यावत् । स्वयं च विधूमः पावक इवाशोभत । “अम्बरीषोपमं दीप्तं विधूम इव पावकः” इति प्राचीनः पाठः ॥ ४।६७।७,८ ॥
आरुजन्नत्यन्तं भिन्दमानः । हुताशनसखः सखोच्यमानगुणो यो वायुर्गमनशीलो ऽनिलो ऽस्ति ॥ ४।६७।९ ॥
तस्य मारुतस्याहमौरसः पुत्रः प्लवने गुणेन तत्समो ऽस्मि ॥ ४।६७।१० ॥
मेरुं गिरिमसङ्गेन मध्ये विश्रामा क्वचित्क्षणमपि स्थितिराहित्येनैव सहस्रशः परिगन्तुमुत्सहे एकेनैव वेगेन सहस्रवारं प्रदक्षिणं कर्तुं शक्नोमीत्याशयः ॥ ४।६७।११,१२ ॥
समुत्थितो ऽतिक्रान्तवेलः ॥ ४।६७।१३ ॥
पक्षिसेवितं पक्षिराजं वैनतेयमाकाशे पतन्तमहमपि सहस्रशः परिगन्तुं शक्तः । तस्यैकपातं यावदहं सहस्रवारं पतितुं शक्त इति यावत् ॥ ४।६७।१४ ॥
उदयगिरेः प्रस्थितमनस्तमितमेव गन्तुं गत्वा स्प्रष्टुमुत्सहे ॥ ४।६७।१५ ॥
ततस्तं स्पृष्ट्वा पुनः प्रत्यावृत्य भूपर्यन्तमागत्य भुवमस्पृष्ट्वैव पुनस्तदभिमुखं गन्तुमुत्सहे । प्रवेगेन प्रस्तुतैकयत्नेन । एवं च शतयोजनगमनागमनयोर्न कश्चित्प्रयास इति ध्वनितम् ॥ ४।६७।१६ ॥
आकाशगोचरा ग्रहर्क्षादयः ॥ ४।६७।१७,१८ ॥
लतानां विविधं पुष्पं पादपानां च पुष्पं हरिष्यामीत्यन्वयः । तच्च पुष्पं वायुवेगेनाहृतं मामनुयास्यति ॥ ४।६७।१९ ॥
स्वातेः पन्था इति । स्वातिपथश्छायापथ इत्युच्यते स तु प्रकीर्णबहुनक्षत्रः । मम पन्था अपि प्रकीर्णबहुपुष्पकः । चरन्तं माग्रमध्ये इत्याकाशं प्रत्युत्पतिष्यन्तमेव ॥ ४।६७।२० ॥
निपतन्तं परे पारे इति शेषः । द्रक्ष्यन्ति अनेनोत्पतनपतनयोरेककालत्वोक्त्या ऽतिवेगः सूचितः ॥ ४।६७।२१ ॥
अम्बरं ग्रसमानमिव मां द्रक्ष्यध्वमित्यन्वयः ॥ ४।६७।२२ ॥
वैनतेयस्य वेति । त्रयाणामेवैषा सर्वभूतातिशायिनी शक्तिः, नान्यस्येति भावः । प्लुतं मां तौ ऋते यदनुव्रजेत्तद्भूतं न पश्यामि ॥ ४।६७।२३ ॥
विद्युदुपमया शौघ्र्येण बहुदेशव्याप्तिर्ध्वन्यते ॥ ४।६७।२४ ॥
तदा त्रिविक्रमावतारकाले ॥ ४।६७।२५ ॥
“सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः” इति न्यायेनाह बुद्ध्येति । निश्चयात्मकान्तःकरणेनेत्यर्थः । तथा मे मनश्चेष्टा मनोव्यापारो ऽनुमानरूपः । किं पश्यसि किंविषया च ते मनश्चेष्टेत्यत्राह– द्रक्ष्यामीति । ४।६७।२६ ॥
वेगजवौ पर्यायौ । अयुतमित्यनेनाप्रमेयबलत्वं प्रकाश्यते, न तु परिच्छेदः । वस्तुतस्तदभावात् । रावणो ऽपि वक्ष्यति “न मारुतेरस्ति गतिप्रमाणम्” इति ॥ ४।६७।२७ ॥
वासवस्येति । वासवहस्ते स्वर्गिभोग्यममृतं ब्रह्मणो हस्ते च योगिभोग्यममृतम् । तदानयनवचो ऽत्युक्त्यलङ्कारपरम् ॥ ४।६७।२८ ॥
समुत्क्षिप्य स्वस्थानादुत्पाटनपूर्वकं गृहीत्वा । यद्वा ततः परतो ऽपि गच्छेयमित्यर्थः ॥ ४।६७।२९,३० ॥
वेगवन्निति संबुद्धिः ॥ ४।६७।३१ ॥
त्वत्संबन्धिन्यां कल्याणवृद्धौ रुचुरभिलाषो येषां ते । यद्वा तव कल्याणं वाञ्छितारः ॥ ४।६७।३२ ॥
वृद्धमतमाशीर्वादः ॥ ४।६७।३३ ॥
तव यावदागमनमेकपादेन स्थास्यामः त्वरया प्रियं श्रोतुमेकपादेन स्थित्वा तपश्चरिष्याम इत्यर्थः ॥ ४।६७।३४,३५ ॥
प्लवने सति मम वेगं न को ऽपि धारयिष्यति । शिलासङ्कटं शिलासमूहः अत एव एतानि स्थिराणि शिखराणीत्यन्वयः ॥ ४।६७।३६,३७ ॥
धातुनिष्पन्दो धातुसमूहः ॥ ४।६७।३८ ॥
मारुतप्रख्यस्तत्सदृशः ॥ ४।६७।३९ ॥
मृगैः सेवितं शाद्वलं तृणबद्देशो यस्य ॥ ४।६७।४० ॥
सलिलोत्पीडो निर्झरः ॥ ४।६७।४१ ॥
उच्छ्रितो महाबलो हनूमान्महेन्द्रस्य महद्भिः शृङ्गैर्विचचार शृङ्गाच्छृङ्गान्तरं जगाम ॥ ४।६७।४२ ॥
ररास स्ववर्तिप्राणिशब्देनेति शेषः ॥ ४।६७।४३,४४ ॥
पाने संसर्गे च कर्कशैरत्यासक्तैः । गन्धर्वाणां तथात्वं च स्वभावः ॥ ४।६७।४५ ॥
शैलशृङ्गस्य शिलानामुत्पातः पतनं यस्मिन्सः ॥ ४।६७।४६४८ ॥
मनसा जगाम सस्मारेत्यर्थः ॥ ४।६७।४९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ॥ ४।६७ ॥
इति श्रीवाल्मीकिरामायणे विवृतित्रयसनाथं किष्किन्धाकाण्डं समाप्तम् ।