अनेकेति ॥ ४।६६।१ ॥
एवमब्रवीदित्येवंशब्दार्थः– वीर वानरेति । वानरलोकस्य वीरेत्यन्वयः । निर्धारणे षष्ठी । यद्वा हे वीर वानरलोकस्य कृत्यमुद्दिश्य किं न जल्पसीत्यन्वयः ॥ ४।६६।२ ॥
बलेन च सम इत्यनुकर्षः ॥ ४।६६।३ ॥
अरिष्टनेमिनः काश्यपस्य नान्तत्वमार्षम् । सर्वपक्षिणामुत्तमो गरुत्मानिव भवान्सर्वोत्तमो विख्यात इत्यन्वयः ॥ ४।६६।४ ॥
महाबल इत्येकत्र बलं शारीरं परत्रान्तरमिति भेदः ॥ ४।६६।५ ॥
“भुजवीर्यबलं तव” इति प्राचीनपाठे तस्य पक्षयोर्यद्बलं तव च यद्भुजवीर्यबलम् । उभयं तुल्यमिति शेषः । ते विक्रमश्च तेजश्च तेन गरुत्मता नापहीयते न न्यूनो भवति ॥ ४।६६।६ ॥
विशिष्टमात्मानमभिजनबलपराक्रमवैभवविशिष्टमात्मानं किं न सज्जसे । समुद्रलङ्घनाय किं न सज्जीकरोषीत्यर्थः ॥ ४।६६।७ ॥
तदेव बोधयति– अप्सरा ऽप्सरसामिति । अप्सरा इत्येकवचनान्तो ऽपि । सन्धिरार्षः । अप्सरा इत्याबन्त आर्ष इत्यन्ये । पुञ्जिकस्थलेति नाम्ना या विख्याता सैव केसरिणः पत्न्यञ्जनेति नाम्ना ख्याता ॥ ४।६६।८ ॥
तस्या वानरपत्नीत्वे हेतुः– अभिशापादिति । ऋषिशापाद्वानरीजन्मा । कपित्वे कपिशरीरत्वे ऽपीत्यर्थः । कामरूपिणी देवतास्वभावानुवृत्तेरिति भावः ॥ ४।६६।९ ॥
कुत्र तज्जन्मेत्यत्राह– दुहितेति ॥ ४।६६।१० ॥
अम्वुदसंनिभे इति पर्वताग्रविशेषणम् ॥ ४।६६।११ ॥
रक्ता दशाः प्रान्ततन्तवो यस्य तत् ॥ ४।६६।१२ ॥
सुसंहतौ सुसंश्लिष्टौ सहितौ परस्परसंसक्तौ पीनौ च स्तनौ ददर्श ॥ ४।६६।१३ ॥
पवनः काममोहितः आसीदिति शेषः ॥ ४।६६।१४ ॥
मारुतस्तां पर्यष्वजत । मन्मथाविष्टसर्वाङ्गः कामाक्रान्तकृत्स्नज्ञानकर्मेन्द्रियः, अत एव तां गतात्मा तद्गर्भप्रविष्टात्मतेजा बभूव । देवत्वाद्विनापि योनिसंबन्धं निजतेजःप्रवेशनमिति बोध्यम् ॥ ४।६६।१५ ॥
एकः पतिर्यस्यास्तद्व्रतं तं धर्मम् ॥ ४।६६।१६ ॥
त्वां न हिंसामि योनिसंबन्धेन तावकमेकपत्नीव्रतं न नाशयामि । अनेन बलात्परपुरुषेणालिङ्गनादावपि न पातिव्रत्यभङ्गः, किं तु योनिभोगेनैवेति सूचितम् ॥ ४।६६।१७ ॥
यद्यस्मात्त्वां परिष्वज्य मनसा मानसभोगेनैव त्वां गतो ऽस्मि स्वतेजसा त्वद्गर्भं प्राप्तो ऽस्मि, तस्मादीदृशस्ते पुत्रो भविष्यति ॥ ४।६६।१८ ॥
मया मारुतेन ॥ ४।६६।१९ ॥
ततस्तुष्टा मनसा महादैवततेजःसङ्क्रमकथनात् गुहायां तत्पर्वतगुहायाम् तदानीमेवेति भावः ॥ ४।६६।२० ॥
फलमिति । जिघृक्षुरुत्पत्योत्प्लुत्य दिवमभ्युत्पतः । “उत्प्लुत्याभ्युत्थितो दिवम्” इति पाठान्तरे उत्प्लुत्य दिवमभ्युत्थित इति योजना । उदयकालिकभास्करस्याम्रफलवद्रक्तवृत्तत्वात्फलबुद्धिविषयत्वम् । यथा जातमात्राजादिबालानां प्राचीनवासनया स्तनपानादौ प्रवृत्तिः तथैवास्य जातमात्रस्य वानरोचितफलादानप्रवृत्तिरिति बोध्यम् ॥ ४।६६।२१ ॥
तस्य रवेस्तेजसा निर्धूतः क्षिप्तो ऽपि ततो वायुबलवत्त्वान्न विषादं गतः ॥ ४।६६।२२ ॥
तूर्णं शीघ्रमन्तरिक्षमुपगतं प्राप्तं त्वां दृष्ट्वेन्द्रेण ते तव शरीरे वज्रं क्षिप्तम् ॥ ४।६६।२३ ॥
तदा तस्मिन्काले ॥ ४।६६।२४ ॥
त्रैलोक्यं न ववौ न गच्छति स्म ॥ ४।६६।२५२७ ॥
वज्रस्य निपातेन चाद्गिरौ निपातेन च । विरुजं तज्जनितपीडाभाववन्तम् तेनाप्यनुत्पादितव्यथमिति यावत् ॥ ४।६६।२८,२९ ॥
मारुतस्यौरस इति तथा दर्शितं प्राक् ॥ ४।६६।३० ॥
कपिराजः सुग्रीवः ॥ ४।६६।३१ ॥
त्रिविक्रमे त्रिविक्रमावतारसमये ॥ ४।६६।३२ ॥
देवशासनात्सञ्चिताः याभिः सागरे प्रक्षिप्यामृतं निर्मथ्यं निर्मथनेन लभ्यम् ॥ ४।६६।३३ ॥
सांप्रतं कालमिति सप्तम्यर्थे द्वितीया । अस्माकमिति निर्धारणे षष्ठी । अस्मिन्काले ऽस्माकं मध्ये भवानेव सर्वगुणान्वित इत्यर्थः ॥ ४।६६।३४ ॥
तद्विजृम्भस्व निःसीमनिजबलविजृम्भणं कुरु ॥ ४।६६।३५ ॥
उत्तिष्ठ लङ्घयस्वेत्यत्र हेतुः– परा हीति । हे हनूमन् परा श्रेष्ठतरा या तव गतिर्लङ्काद्वीपगमनं सा सर्वभूतानामुपकाराय न केवलमस्माकमेवेति शेषः ॥ ४।६६।३६ ॥
विषण्णा अर्थस्य स्वासाध्यत्वाद्दीनाः । किमुपेक्षसे तानिति शेषः ॥ ४।६६।३७ ॥
कपीनामृषभेण । कपिशब्दो ऽत्र छत्रिन्यायेन ऋक्षसाधराणः । रूपं समुद्रतरणोचितमहाविग्रहम् । प्रकृतेस्तद्वश्यत्वाद्रूपमहत्त्वस्वल्पत्वकरणं नानुपपन्नम् । एवं जाम्बवता हनुमदभिजनपराक्रमादिज्ञापनं तस्य सहजबलाविर्भावाय । तथा ज्ञापनं हि तस्य तदाविर्भावकारणमिति दैवकृतः समयः । यद्यपीतरदिक्त्रयप्रेषितवानराणामपि सप्तसमुद्रपरवर्त्युदयास्ताचलादिपर्यन्तगमनमुपदिष्टं तथापि तन्मार्गे समुद्रमध्ये विंशतित्रिंशदादियोजनेषु पर्वतानां सत्त्वात्तदवलम्बेन प्लवने न तथा कष्टम्, इह तु निरवलम्बं शतयोजनप्लवनमन्यासाध्यमिति भावः । अत्रत्या मध्यपर्वतास्तु राक्षसैर्भङ्क्त्वा मज्जिता दुर्गसिद्धये । प्लवाश्च मज्जिताः, अत एवात्र सुग्रीवेण ते नोक्ताः, अत एव चत्वारिंशे सर्गे पूर्वदिक्प्रेषितवानरान्प्रति समुद्रान्तरगतदेशमुपक्रम्य “गिरिभिर्ये च गम्यन्ते प्लवनेन च” इत्युक्तम् ॥ ४।६६।३८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षट्षष्टितमः सर्गः ॥ ४।६६ ॥