अथेति ॥ ४।६५।१३ ॥
त्रिंशदित्यर्थे त्रिंशतमित्यार्षम् ॥ ४।६५।४८ ॥
पराक्रमे गमने ॥ ४।६५।९ ॥
वृद्धतमस्तेषामिति निर्धारणे षष्ठी ॥ ४।६५।१० ॥
स्म स्मः इत्यर्थः ॥ ४।६५।११ ॥
एवंगते कृच्छ्रप्राप्तौ । यदर्थं कृतनिश्चयावस्मत्प्रतिष्ठिततयैतद्विषये कृतनिश्चयौ ॥ ४।६५।१२ ॥
सांप्रतं कालं संप्रति काले ॥ ४।६५।१३१६ ॥
एतावता प्लवनेन ॥ ४।६५।१७२० ॥
काममिति । शतसहस्रमपि योजनानां गन्तुं त्वं कामं समर्थः, तथापि स्वामिनस्तवैष विधि प्लवनं न युक्तमित्युच्यते, अस्माभिरिति शेषः । इममेवार्थं प्रपञ्चयति– योजनानामिति । शतसहस्रमिति शेषः । गन्तुं प्रतिनिवर्तितुं च शक्त इत्यर्थः ॥ ४।६५।२१ ॥
प्रेषयिता स्वामी न प्रेष्यः । प्रेष्यैरिति शेषः ॥ ४।६५।२२ ॥
भवान्कलत्रम् । कलत्रवद्दृढस्वीयत्वबुद्ध्या यावत्स्वप्राणबलं परिपाल्य इत्यर्थः । स्वामिभावे स्वामित्वे एतेन लोके कलत्रस्य भर्ता संसारव्यवहारविषये आज्ञाप्यस्तत्प्रभुत्वं च कलत्रस्येति दर्शितम् । तस्मात्स्वामी सैन्यस्य कलत्रवत्परिपाल्यः स्वामिना च कलत्रेण भर्तेव सैन्यमाज्ञाप्यम् एषा गतिः लोकस्येति शेषः ॥ ४।६५।२३ ॥
तदेव स्पष्टमाह– तस्मात्कलत्रवदिति ॥ ४।६५।२४ ॥
नयो निश्चयः । गुणा गुणभूताः अप्रधानभूता इति यावत् । तादृशाः फलोदयाः फलोत्पत्तयः सिध्यन्ति ॥ ४।६५।२५ ॥
साधनपदस्यैव व्याख्या हेतुरिति ॥ ४।६५।२६ ॥
गुरुर्युवराजत्वात् ॥ ४।६५।२७,२८ ॥
यद्यहं न गमिष्यामि, अन्यश्च न गमिष्यति, तदा पुनर्मरणमेव ज्याय इति भावः ॥ ४।६५।२९ ॥
तस्य धीमतो हरिपतेः सन्देशमकृत्वा प्राणानां परिरक्षणं न पश्यामि । तत्रापि लङ्कायामपि गत्वा गमनशक्त्यभावात्तन्न पश्यामीत्यन्वयः ॥ ४।६५।३० ॥
सुग्रीवः प्रसादे ऽत्यर्थकोपे चेश्वरः निग्रहानुग्रहाधिकृत इति भावः । गमने किष्किन्धागमने ॥ ४।६५।३१ ॥
तत्तस्मादस्य कार्यस्य समुद्रलङ्घनस्य गतिः प्राप्तिरन्यथा यथा न भवत्यसिद्धा यथा न भवति हि निश्चयेन तथा भवानेव तदुद्दिश्य सञ्चिन्तयितुमर्हति यतो भवान्दृष्टार्थः बुद्धिमत्त्वाच्चिरवृद्धत्वाच्चापरोक्षीकृतसमस्तकृत्याकृत्यतत्त्वार्थ इत्यर्थः ॥ ४।६५।३२,३३ ॥
कार्यस्य न परिहास्यते । शेषे षष्ठी । अनुष्ठानमिति शेषो वा । एषः, एषो ऽहमित्यर्थः । एनं तम् ॥ ४।६५।३४ ॥
एकान्तमाश्रित्येति । यूथाद्बहिः क्वचिदिति शेषः ॥ ४।६५।३५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ॥ ४।६५ ॥