०६४ वानरैः सागरतीरगमनम्

आख्याता आख्यातसीतावृत्तान्ताः । सङ्गता मिलिताः ॥ ४।६४।१ ॥

रावणक्षयं रावणक्षयं रावणनाशं रावणगृहं चाद्दिश्योक्तं वचनं श्रुत्वा ॥ ४।६४।२ ॥

तं देशं सागरतीररूपं देशमभिगम्य । यत्रेत्यादिः । यत्र महतो लोकस्य सचन्द्रार्कग्रहस्य कृत्स्नं प्रतिबिम्बं स्थितं तं समुद्रं ददृशुः । “प्रतिबिम्बमवस्थितम्” इति प्राचीनः पाठः । “प्रतिबिम्बमिव स्थितम्” इत्याधुनिकपाठो न युक्तः । कृत्स्नलोकप्रतिबिम्बभावाप्रसिद्धेः ॥ ४।६४।३ ॥

तस्य च दक्षिणसमुद्रस्योत्तरां दिशमाश्रित्य संनिवेशमवस्थितिस्थलं चक्रुः ॥ ४।६४।४ ॥

प्रसुप्तमिव चान्यत्र निस्तरङ्गप्रदेशे । अन्यतो ऽन्यत्र पर्वतमात्रैस्तत्सदृशैर्जलराशिभिरूर्मिभिः ॥ ४।६४।५,६ ॥

ब्रुवन्नब्रुवन् ॥ ४।६४।७ ॥

हरिसत्तमो ऽङ्गदः ॥ ४।६४।८ ॥

विषादो दोषवत्तर इत्यस्य विवरणम्– विषादो हन्तीत्यादि ॥ ४।६४।९ ॥

विषादं प्रसहते प्रसह्य विषादे प्रवर्तते । तेजसा हीनस्य विषादवशादिति भावः ॥ ४।६४।१०१३ ॥

अनुमान्याभिपूज्य ॥ ४।६४।१४ ॥

सत्यसन्धं सत्या सन्धा सीताप्रत्यर्पणप्रतिज्ञा यस्य तादृशम् ॥ ४।६४।१५२० ॥

व्यपदेशकुले विगतो ऽपदेशः कलङ्को यस्मात्तादृशे कुले । पूजिता राज्ञा महाबलत्वेन सत्कृताः ॥ ४।६४।२१ ॥

सङ्गः प्रतिबन्धः । ब्रुवध्वं ब्रूध्वम् ॥ ४।६४।२२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ४।६४ ॥