एतैरिति । मां प्रशस्य भाविदेवकार्यसाधकत्वेन स्तुत्वा ऽभ्यनुज्ञाप्यामन्त्र्य ॥ ४।६३।१ ॥
पर्वतकन्दरादहं शनैः शनैर्विसर्पित्वा निःसृत्य विन्ध्यं विन्ध्यशिखरम् ॥ ४।६३।२ ॥
एतस्य कालस्य मुनिसंवादानन्तरकालस्य साग्रं वर्षशतं गतम् शतशब्दो ऽनन्तवाची तेन किञ्चिदधिकाष्टवर्षसहस्राणीत्यथः, प्राक्तथैव तेनोक्तेः ॥ ४।६३।३ ॥
वितर्कैर्विचारैः । सन्तापः प्रक्षादिहीनजीवनजः ॥ ४।६३।४ ॥
निवर्तये स्मेति शेषः । मम प्राणानां रक्षणे तेन या मे बुद्धिर्दत्तेत्यन्वयः ॥ ४।६३।५ ॥
रावणस्य वीर्यं बुध्यता मत्पुत्रवीर्यादल्पमिति जानता ॥ ४।६३।६ ॥
कथं न त्रातेति सन्तर्जितः । ननु सीतेत्यज्ञानादरक्षणमत आह तस्या इति । हा राम हा लक्ष्मणेत्येवमात्मकं तस्या विलपितं श्रुत्वा तौ रामलक्ष्मणौ सीताविनाकृताविति सिद्धानां वचः श्रुत्वा ऽनया विना कृतौ रामलक्ष्मणाविति सुज्ञानम् एषा रामपत्नीति च सुज्ञानमिति भावः ॥ ४।६३।७ ॥
तस्माद्दशरथस्नेहादवश्यकर्तव्यं प्रियं मे पुत्रेण नोत्पादितम् ॥ ४।६३।८ ॥
अरुणच्छदैररुणवर्णपत्रैः ॥ ४।६३।९१२ ॥
सिद्धिप्रत्ययः कार्यसिद्धिविश्वासः ॥ ४।६३।१३ ॥
गतिं जिज्ञासुरुत्थितपक्षैः प्राग्वत्खगतिं विज्ञातुमिच्छुः विक्रमसाध्ये ऽभ्युदय सीताधिगमनरूप उन्मुखाः ॥ ४।६३।१४ ॥
प्रतिलब्धं प्राप्तं पौरुषं पौरुषप्रवृत्तिकालो यैस्ते । अभिजिदभिमुखामभिजिन्नक्षत्रसंमुखां दिशं दक्षिणाम् । यद्वाभिजित् बाहुलकात्कर्मणि क्विप् । अभिजेतव्यो रावणः संमुखो यस्यां तां दिशम् ॥ ४।६३।१५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ॥ ४।६३ ॥