एवमिति ॥ ४।६२।१ ॥
पक्षप्रपक्षौ सूक्ष्मपक्षमहापक्षौ प्राणाः पुष्टप्राणाः । चक्षुषी उद्भूतशक्तिके ॥ ४।६२।२ ॥
पुराणे नारदादिभिरुच्यमाने भविष्यरामचरितरूपे पुराणे श्रुत्वा विदितं तपसा दृष्टं च ॥ ४।६२।३ ॥
किं तत्राह– राजेत्यादि ॥ ४।६२।४ ॥
तस्मिन्नर्थे ऽरण्यगमनरूपे ॥ ४।६२।५,६ ॥
प्रलोभ्यन्ती प्रलोभ्यमाना ॥ ४।६२।७ ॥
परमान्नं पायसम् ज्ञात्वा निराहारतामिति शेषः । वासवो दास्यति स्वपुरुषद्वारेति शेषः ॥ ४।६२।८ ॥
इन्द्रादिन्द्रपुरुषात्, न तु रावणपुरुषादिति विज्ञायाभूतलस्पर्शित्वादिरूपैर्देवचिह्नैः राम आगत्यैनं हत्वा त्वां नयिष्यति । संवत्सरतृप्तिकरमिदमन्नं भुक्त्वा देवकार्यसिद्धये मनुष्यभावं धृतवत्या प्राणा धर्तव्याः । “देवैरपि मनुष्यभावे आहारं विना जीवितुं न शक्यते” इत्यादिवचनैश्च निश्चित्येत्यर्थः । निर्वपिष्यति दास्यति । ननु त्रेतायामस्थिप्राणवासस्योक्तत्वाज्जीवितुं शक्यत एवेति चेन्न, तथा सत्यपि क्षीणतायां देहवैरूप्ये रावणस्यानुरागभङ्गेन तत्पुण्याक्षये तस्य वधो न स्यादिति रूपलावण्याद्यहानाय तद्दानेनादोषात् । रावणस्य तु तथैव रूपादिदर्शनेन मद्दत्ताहाराग्रहणे ऽपि वन्यफलादीन्याहारं करोतीति बुद्ध्या तस्यां नामनुष्यत्वनिश्चयः । एतेनाहारं विना ऽपि पूर्वरूपादिसत्त्वज्ञानेन तस्य तस्याममनुष्यत्वबुद्धौ तत्संबन्धाद्रामे ऽपि तत्त्वबुद्धौ रामतो रावणवधो न स्यादित्यपास्तम् ॥ ४।६२।९ ॥
दानमन्त्रः– यदीति । यदि जीवति तदाप्युपतिष्ठतु । कालान्तरे देवत्वं गच्छतोः प्राप्नुवतोरप्युपतिष्ठत्विति शेषः ॥ ४।६२।१० ॥
तत्र लङ्कायाम् । गन्तुमेष्यन्त्यागमिष्यन्ति इहेति शेषः ॥ ४।६२।११ ॥
न गन्तव्यम् इमं देशं विहायेति शेषः ॥ ४।६२।१२ ॥
उत्सहेयम् यदि त्वया देवकार्यायेह स्थातव्यं स्यादिति शेषः । पक्षवत्त्वे हि चापल्याद्गन्तव्यमेवेतो ऽन्यत्र त्वयेति भावः ॥ ४।६२।१३ ॥
लोकानामेवेत्येव न, अपि तु तयोर्नृपपुत्रयोस्तत्कार्यं दूतानां सीताबोधनरूपं त्वया ऽपि कार्यं तवापि कर्तुमर्हम् तवापि देवांशत्वेन त्वद्धितमपि तदिति भावः । तत्कार्यस्य लोकसंबन्धित्वं दर्शयति– ब्राह्मणानामिति । तत्कार्यमिति शेषः ॥ ४।६२।१४ ॥
इच्छाम्यहमिति । दृष्टतत्त्वार्थदर्शनो दृष्टं सिद्धं तत्त्वार्थदर्शनं यस्य स महर्षिरेवं भाव्यर्थमब्रवीत्, अतो हेतोरहमपि भ्रातरौ रामलक्ष्मणौ द्रष्टुमिच्छामि । यदि महर्षिरेवं मां प्रति नावक्ष्यत्तदा प्राणांश्चिरं धारयितुं नेच्छे नैच्छम्, अपि तु कलेवरं त्यक्ष्ये इत्येवैच्छमित्यर्थ इति कतकः । अन्ये तु– निशाकरवाक्यमेवेदम्, अहंपदार्थो ऽपि स एवेत्याहुः ॥ ४।६२।१५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ ४।६२ ॥