०६१ सम्पातिना स्वकथानिरूपणम्

तद्दारुणं कर्मेन्द्रेण युद्धरूपमनेन दुष्करं सहसा दर्पात्कृतं प्रथममाचचक्षे । तथा तदनन्तरकृतं सूर्यानुगमनं सर्वं प्रकृतविन्ध्यपतनप्रयोजनत्वेनाचचक्षे ॥ ४।६१।१ ॥

तदेवाह भगवन्निति । व्रणयुक्तत्वादिन्द्रयुद्धे वज्रप्रहारजव्रणयुक्तत्वात्परिश्रान्तस्तथा पक्षनाशफलकानुचितकर्मकरणजलज्जया ऽ ऽकुलितेन्द्रियश्चाहं प्रतिभाषितुं सम्यगुत्तरं दातुं न शक्नोमि, तथापि कथञ्चिद्ब्रवीमीति शेषः ॥ ४।६१।२ ॥

सङ्घर्षात्पतनविषयस्पर्धातः । गर्वमोहिताविन्द्रजयगर्वमोहितौ ॥ ४।६१।३ ॥

पणं बद्धा प्रतिज्ञां कृत्वा । प्रतिज्ञामेवाह– रविरिति । रविर्यावदस्तं महार्द्रिं यायात्ततः प्रागावाभ्यां रविरनुयातव्यो ऽनुप्राप्तव्य इति प्रतिज्ञा ॥ ४।६१।४ ॥

युगपत्प्राप्तौ आकाशमिति शेषः । अपश्याव दृष्टवन्तौ ॥ ४।६१।५ ॥

क्वचिदूर्ध्वदिक्प्रदेशविशेषे ॥ ४।६१।६ ॥

आकाशमाकाशपथादर्वाक्तनं भूवर्तिवनम् । शाद्वलसंस्थितं शाद्वलानां बालतृणवद्देशानामिव संस्थानं यस्य तत् ॥ ४।६१।७ ॥

उपलैः सुक्ष्मपाषाणैः ॥ ४।६१।८ ॥

नागा गजाः ॥ ४।६१।९ ॥

तदा सवितरि मध्यं प्राप्ते मोहो दिङ्मोहस्ततो मोहादनन्तरं दारुणा मूर्च्छा सेन्द्रियमनउपप्लवो मूर्च्छा ॥ ४।६१।१० ॥

मोहमूर्च्छे एव प्रकाशयति– न चेति । युगान्ते नियतो नियतदाहो ऽपि लोक आवाभ्यां तत्काले ऽग्निना दग्धो हत इव दृष्टो ऽभूत् ॥ ४।६१।११ ॥

मनश्च मे भूयो ऽभ्यधिकं संश्रयं चक्षुः प्राप्य तेन सह हतं सौरतेजसा प्रतिहतदर्शनशक्तिक्रमभूत् । अस्मिन्सूर्ये पुनश्चक्षुषी मनश्च सन्धाय ॥ ४।६१।१२ ॥

कथं सूर्यो दृष्ट इत्यत्र तत्प्रकारमाह तुल्य इति । पृथ्व्यत्र जम्बूद्वीपावच्छिन्ना बोध्या ॥ ४।६१।१३ ॥

ततः सूर्यदर्शनानन्तरम् अनापृच्छ्य मोहवशादिति शेषः । तं दृष्ट्वेति । मोहात्पतन्तं जटायुं दृष्ट्वा ऽ ऽकाशादात्मानं मुक्तवानिति सूर्यसमीपवर्त्याकाशप्रदेशादात्मानं स्वशरीरं जटायुरक्षणार्थं मुक्तवान् पक्षौ विस्तार्य पतितवानित्यर्थः ॥ ४।६१।१४ ॥

प्रमादाज्जटायुपरित्राणविषयचित्ताभिषङ्गात् तत्र तस्मिन्काले निर्दग्धो निर्दग्धपक्षः अथ वायुपथात्पतन्नहमाशङ्के ऽनुमितवान्, न तु प्रत्यक्षतो दृष्टवानित्यर्थः ॥ ४।६१।१५,१६ ॥

सर्वथा मर्तुमेवेच्छन् शिखरात्पतिष्य इत्याहेति शेषः ॥ ४।६१।१७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकषष्टितमः सर्गः ॥ ४।६१ ॥