तत इति ॥ ४।६०।१ ॥
जनितप्रत्ययः एष्यन्त्यन्वेषका इति निशाकरमुन्युक्तरीत्या रामदूतागमनदर्शनान्निशाकरोक्तपक्षप्ररोहादिदर्शनाच्च निशाकरवचसि विश्वस्तः । हर्षात्पक्षलाभजनितहर्षादात्मानमुपासीनमङ्गदं प्रति पुनरब्रवीत् ॥ ४।६०।२ ॥
तथ्यं मैथिलीं जानामीति मद्वाक्यं सत्यं यथा भवद्भिः प्रतिपत्तव्यं तथा सङ्कीर्तयिष्यामि ॥ ४।६०।३ ॥
सूर्यरश्मिभिर्निर्दग्धः, अत एव विवशः । षड्रात्रात्परं लब्धसञ्ज्ञः विह्वलन्निव परमार्त एव सन् ॥ ४।६०।४६ ॥
कन्दराण्युदरे यस्य स चासौ कूटवान् शृङ्गवानित्यर्थः ॥ ४।६०।७ ॥
यस्मिन्नाश्रमे उग्रतपाभवदिति सन्धिरार्षः ॥ ४।६०।८ ॥
निशाकरे ऋषौ स्वर्गते तेन विना ऽत्र गिरौ वसतो ममाष्टौ वर्षसहस्राणि गतानीति शेषः ॥ ४।६०।९ ॥
अथ तत्स्थितिकालिकीं तद्दर्शनप्रवृत्तिमाह अवतीर्येति । तीक्ष्णदर्भां तीक्ष्णाग्रा दर्भा यस्याम् ॥ ४।६०।१० ॥
तमृर्षिं द्रष्टुकामो ऽस्मि द्रष्टुकामो ऽभूवमित्यर्थः । अत एव दुःखेन तदभ्याशमभ्यागतः ननु तद्वासो ऽत्रेति त्वया कथं ज्ञातमत आह– जटायुषेति । अधिगतः प्राप्तः सेवित इत्यर्थः ॥ ४।६०।१११३ ॥
उदङ्मुखमुपावृत्तं समुद्रे स्नात्वोदङ्मुखतया प्रत्यावृत्तम् ॥ ४।६०।१४ ॥
तस्य स्वसेवायोग्यत्वप्रदर्शनाय तिर्यग्योनिसेव्यत्वं तपोमहिमजं दर्शयति– तमृक्षा इति ॥ ४।६०।१५ ॥
प्राप्तमाश्रममागतम् ॥ ४।६०।१६,१७ ॥
ते रोम्णां वैकल्यं दृष्ट्वा नावगम्यते न प्रत्यभिज्ञायते भवानित्यर्थः । वैकल्यमेवाह– अग्निदग्धौ ताविव अत एव शरीरके ऽल्पे शरीरे प्राणाः चाद्विक्रमबले अपि ते दग्धकल्पाः ॥ ४।६०।१८ ॥
अथ प्रत्यभिज्ञामूलामभिज्ञामाह– गृध्राविति ॥ ४।६०।१९ ॥
अवितो ज्ञातः । गृह्णीतामगृह्णीताम् ॥ ४।६०।२० ॥
किं कीदृशम् । व्याधिसमुत्थानमिति षष्ठीतत्पुरुषः । अयं दण्डो व्रणकरः प्रहारः केन धृतः केन कृतः ॥ ४।६०।२१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षष्टितमः सर्गः ॥ ४।६० ॥