०५९ सम्पातिना सीतावर्णनम्

तत इति । ते प्लवगर्षभा अमृतास्वादं गृध्रराजाभिभाषितं निशम्य हर्षादेव तद्वदतो ऽनुतदन्तो हृष्टा बभूवुरित्यर्थः । वदत इत्यत्र नुमभाव आर्षः ॥ ४।५९।१ ॥

अब्रवीत् लङ्कायां सीतादर्शनं त्वदेकसाक्षिकमान्यसाक्षिकमपि वेति दार्ढ्यायापृच्छदित्यर्थः । भूतलादुत्थाय प्रायोपवेशं त्यक्त्वेत्यर्थः ॥ ४।५९।२ ॥

प्रश्नमेवाह– क्वेति । सीतां को हरति स्म, ह्रियमाणा च केन दृष्टा, त्वयान्येनापि वा, हृता च क्व वा वर्तते इति सर्वं भवानाख्यातु । सामान्यतः श्रुत्वा प्रायोपवेशादुत्थितानां विशिष्य वदत्वित्यर्थः ॥ ४।५९।३ ॥

को जानकीहर्ता स्वयं रामबाणानां विक्रमं न चिन्तयतीत्यन्वयः ॥ ४।५९।४ ॥

प्रतिसंमुक्तांस्त्यक्तप्रायोपवेशान् । सीताश्रुतिसमाहितान्सीताविषयवृत्तान्तश्रवणे सावधानान्पुनराश्वासयन्नन्यसाक्षिकताप्रदर्शनेन भूयः स्वोक्तार्थं प्रत्यापयन् ॥ ४।५९।५ ॥

वैदेह्या हरणं यथा मे मया श्रुतम्, येन च ममाख्यातम्, यत्र सा ऽ ऽयतलोचना वर्तते इति श्रुतम्, तदपीहेदानीं श्रूयताम् ॥ ४।५९।६ ॥

तदेवाह– अहमिति । दुर्गे दुर्गमे क्षीणः प्राणो बलं पराक्रमश्च यस्य सः ॥ ४।५९।७,८ ॥

तीक्ष्णकामाः “स्त्रीकामा वै गन्धर्वाः” इति श्रुतेः । यथा कामादिविषये गन्धर्वादेस्तैक्ष्ण्यं स्वभावात्तत एव स्वभावादेव वयं पतगाः तीक्ष्णक्षुधा इत्यर्थः ॥ ४।५९।९ ॥

यस्मादेवम्, अतः क्षुधार्तस्य, अत एवाहारकाङ्क्षिणो ममाहारार्थं सूर्ये ऽहन्यह्नि सूर्ये सूर्योदयकाले गतो मम पुत्रः सायमनामिषः प्राप्त आगतः ॥ ४।५९।१० ॥

यत एवम्, अतः स मम प्रीतिवर्धनो मयाहारसंरोधात्पीडितो दुर्वचनेन खेदं प्रापितः सन्मामनुमान्य क्षमापयित्वा यथातत्त्वमिदं वक्ष्यमाणं वचनमब्रवीत् ॥ ४।५९।११ ॥

सुसमाश्रितः स्थितः ॥ ४।५९।१२ ॥

पन्थानं संनिरोद्धुमवसमित्यन्वयः ॥ ४।५९।१३ ॥

सूर्योदयसमप्रभामुदयकालिकसूर्यसमप्रभाम् ॥ ४।५९।१४ ॥

तौ स्त्रीपुरुषौ । कृतनिश्चयः इमावेव हत्वा पितुरभ्यवहारार्थं नेष्यामीति कृतनिश्चय इत्यर्थः । ततस्तेन विनीतेन सता साम्नैव पन्थानमभियाचितो ऽस्मि । अत एवासौ त्यक्त इति शेषः ॥ ४।५९।१५ ॥

तत्र हेतुः– नहि सामेति ॥ ४।५९।१६ ॥

अथ सस्त्रीकस्य तस्य गमनानन्तरं खेचरैर्भूतैः सिद्धचारणादिभिः सभाजितः पूजितो ऽस्मि ॥ ४।५९।१७ ॥

“दिष्ट्या जीवति सीता” इति पाठः । दिष्ट्या सीता त्वद्दृष्टिपथं प्राप्ता जीवति स्म त्वया तद्धननस्येषत्करत्वात् एवं पूजयित्वा मां महर्षयो ऽब्रुवन् । असौ त्वया दृष्टः पुरुषः सकलत्रः कथञ्चित्कुशली गतः, अतो ऽसंशयं ते स्वस्त्यस्त्विति कतकः । अन्ये तु– “दिष्ट्या जीवसि तातेति” इति पाठः । हे तात त्वं दिष्ट्या रावणं प्राप्यापि जीवसीत्यब्रुवन् । यतो ऽसौ सकलत्रः, अतो ऽसंशयं त्वां संशयमप्रापय्य गतः अतस्ते स्वस्ति जातमित्यर्थमाहुः ॥ ४।५९।१८ ॥

अथ स हर्ता रावण इति सा रामभार्येति चाहं प्रतिवेदितः ॥ ४।५९।१९ ॥

अतो ऽहं भ्रष्टाभरणत्वादिगुणां रामभार्यां पश्यन्स्थित इत्येष तावन्मे कालात्ययः कालातिपातहेतुरिति समग्रमेतदर्थं वाक्यविदां वरः सुपार्श्वो मे प्रत्यवेदयत् । तच्छ्रुत्वापीति । सामान्यतः पूर्वं मया दृष्टमपि पुत्राद्धर्ता रावणो हृता रामपत्नीति निश्चित्य श्रुत्वा ऽपि ॥ ४।५९।२०२२ ॥

वाग्बुद्धिभ्यां साध्यो यो गुण उपकारलक्षणस्तन्मात्रवर्तशीलेन ॥ ४।५९।२३ ॥

पौरुषाश्रयं पराक्रमप्रतिष्ठाभूतम् । किं चैष उपकारो न केवलं भवत्प्रयोजन एव, अपि तु स्वप्रयोजनफलो ऽपीत्याह– वाङ्मतिभ्यामिति । दाशरथेः कार्यमुद्दिश्य वः सर्वेषां वाङ्मतिभ्यां यत्प्रियं करिष्यामि तन्ममैव कार्यम् अत्र संशयो न ॥ ४।५९।२४ ॥

तत्तस्मान्मया भवतां कार्यसिद्धेरसंशयं दृष्टत्वाद्भवन्तो ऽवश्यं कार्ये यतन्तामिति शेषः ॥ ४।५९।२५ ॥

विहिताः विधात्रेति शेषः ॥ ४।५९।२६ ॥

त्राणनिग्रहे त्राणे निग्रहे च पर्याप्ताः । समाहारद्वन्द्वः । यद्यपि दशग्रीवो लोकदृष्ट्या प्रबलः, तथापि भवतां रामलक्ष्मणसहायत्वेनैव समर्थानां सुकर एवेति भावः ॥ ४।५९।२७ ॥

कालसङ्गः कालविलम्बः । सज्जन्ते ऽलसा भवन्ति ॥ ४।५९।२८ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥ ४।५९ ॥