त्यक्तजीवितैस्त्यक्तजीवनाशभयैः । सबाष्पो ऽक्षुपूर्णनयनः । “सबाष्पान्” इति पाठान्तरम् ॥ ४।५८।१ ॥
आख्याताख्यातवन्तः ॥ ४।५८।२ ॥
तदपि भ्रातृवधमपि ॥ ४।५८।३ ॥
अद्य शक्तिर्नास्तीत्यनेन पूर्वं महती शक्तिरासीदिति सूचितम् । तदेवाह– पुरेति । पुरा पूर्वं वृत्रवधे वृत्ते सति स जटायुरहं च जयैषिणौ वृत्रवधेनेन्द्रस्यातिप्रबलत्वं निर्णीय तज्जयैषिणौ भूत्वा प्रथममाकाशमार्गेण स्वर्गं गतौ । ततो गरुडवद्भृशं जवेन तं विजित्यावृत्त्य प्रत्यावृत्त्या ऽ ऽदित्यं दर्पादुपयातौ स्वः । अथ तमुपयातयोरावयोर्मध्ये जटायुः सवितरि मध्यं प्राप्ते ऽवसीदति स्मेति कतकः । अन्ये तु जयैषिणौ परस्परौ येनोत्पत्त्यादित्यः प्रथमं प्राप्यते स आवयोः प्रबल इति प्रतिज्ञापूर्वमिति शेष इत्याहुः । तेषामावृत्त्येति पदस्येन्द्रप्रसङ्गस्य चासङ्गतिः ॥ ४।५८।४,५ ॥
छादयामास । अपरोक्षे ऽपि लिडुत्तम आर्षः ॥ ४।५८।६ ॥
निर्दग्धपक्षः सूर्यकिरणैरिति शेषः । भ्रातुर्जटायुषः प्रवृत्तिमित्यन्वयः ॥ ४।५८।७ ॥
जटायुषो भ्रात्रेत्यन्वयः ॥ ४।५८।८ ॥
यदि जटायुषो रामभक्तस्य भ्राता, यदि च मत्कथितं रामवृत्तान्तरूपं वस्तु ते त्वया श्रुतम्, यदि च तस्य रक्षसो निलयं जानासि तर्ह्याख्याहीति प्रार्थने लोट् ॥ ४।५८।९ ॥
अदीर्घदर्शिनं भाव्यनर्थविचारासमर्थं रावणमन्तिके दुरे वा तिष्ठन्तं यदि जानासि तदा नः शंस ॥ ४।५८।१०,११ ॥
रामस्य साह्यम् रामकार्यप्रवृत्तानां युष्माकं सहायत्वमित्यर्थः ॥ ४।५८।१२ ॥
वारुणाँल्लोकान् जलप्रधानाल्लोकान् । त्रैविक्रमांस्त्रिविक्रमावतारे आक्रान्तान्भूरादिलोकान् । देवासुरविमर्दास्तद्युद्धानि । हिश्चार्थे । अमृतस्य मन्थनं च अनेन च ब्रह्माहरादिक्षणमारभ्यैतत्क्षणपर्यन्तं सर्ववृत्तान्तज्ञत्वं स्वस्य निवेदितम् ॥ ४।५८।१३ ॥
रामस्येदं कार्यं प्रथममवश्यं मया कर्तव्यम्, परन्तु जरादिमत्त्वादाशक्यमिति भावः ॥ ४।५८।१४१७ ॥
तां तु रावणह्रियमाणत्वेन दृष्टाम् । सीतात्वेन ज्ञाने हेतुः– रामस्य परिकीर्तनम् ॥ ४।५८।१८,१९ ॥
सा च लङ्केशः शतयोजने शतयोजनात्परतः स्थिते समुद्रस्य द्वीपे तिष्ठतीति शेषः । तस्मिन्द्वीपे सा लङ्कापुरी विश्वकर्मणा निर्मिता ॥ ४।५८।२०२२ ॥
तस्यां मैथिलीं द्रक्ष्यथ ॥ ४।५८।२३ ॥
एतदग्रे “लङ्कायामभिगुप्तायां सागरेण समन्ततः । संप्राप्य सागरस्यान्ते संपूर्णे शतयोजने । आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् । तत्र वै त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः” । इत्यादिश्लोकद्वयं प्रक्षिप्तमिति कतकः । देवयोनित्वेन दिव्यज्ञानेन यूयं तां दृष्ट्वा प्रत्यागमिष्यथेत्यपि पश्यामि । अतो निःसंशयं गच्छतेति शेषः । अथ स्वस्य देवयोनित्वप्रदर्शनशेषतया पक्षिमार्गानाह– आद्य इति । पन्था आकाशमार्गः । अन्ये धान्यजीविनः पारावतादयः ॥ ४।५८।२४ ॥
बलिभोजाः काकाः, वृक्षफलाशनाः शुकादयः, भासाः पक्षिविशेषाः ॥ ४।५८।२५ ॥
बलवीर्येत्यदि हंसविशेषणम् ॥ ४।५८।२६ ॥
वैनतेयाद्विनतापुत्रादरुणात् “तस्माज्जातो ऽहमरुणात्संपातिस्तु ममाग्रजः” इत्यरण्ये जटायुवाक्यात् एवं दिव्यज्ञानेन युष्मद्वृत्तज्ञानम् ॥ ४।५८।२७ ॥
युष्मत्सहायकरणं च वैरशुद्ध्या स्वप्रयोजनमपीत्याह– गर्हितमिति । येन रावणेन परदारहरणरूपं गर्हितं कर्म कृतं तस्य पिशिताशिनो भ्रातृकृतं वैरमुदिश्य यत्प्रतिकार्यं तच्च मे कृतं भवेत् । युष्मत्प्रवर्तनेनेति शेषः ॥ ४।५८।२८ ॥
ननु कथं लङ्कास्था सीतेति त्वया ज्ञाता तत्राह– इहस्थ इति । सौपर्णं सुपर्णलिङ्गकचक्षुष्मतीविद्यासिद्धिजम् सा च विद्या बह्वृचब्राह्मणे तृतीयपञ्चिकायामुक्ता ॥ ४।५८।२९ ॥
तस्मादुक्तविद्यासिद्धेः । निसर्गेणाहारवीर्येण च मांसविशेषाहारबलेन च । आङभिविधौ । साग्रात्किञ्चिदधिकाद्योजनशतात् ॥ ४।५८।३० ॥
अस्माकं तु निसर्गेण जातिस्वभावेन दूरतो दूरवर्तिदर्शनबलसंपादकेन भक्ष्यविशेषेण वृत्तिर्विहिता धात्रेति शेषः । कुक्कुटादीनां तु स्वावासवृक्षमूल एव तावद्दूरदृष्टिमात्रसंपादिका च वृत्तिर्विहिता ॥ ४।५८।३१ ॥
गमिष्यथ किष्किन्धामिति शेषः ॥ ४।५८।३२ ॥
नेतुं नाययितुम् ॥ ४।५८।३३३५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे ऽष्टपञ्चाशः सर्गः ॥ ४।५८ ॥