०५६ सम्पातिना वानरमुखात् जटायुमृत्युश्रवणम्

गिरिस्थले गिरिप्रदेशे ॥ ४।५६।१३ ॥

विधिः क्रियाफलम् । नरं प्राणिनं विधानेन प्राचीनकर्मानुसारेण । यथा तद्यथा तथोच्यत इत्यर्थः । अयमामिषरूपो ऽस्माकं भक्ष्यश्चिरान्मह्यं स्वत एवोपागतः ॥ ४।५६।४ ॥

यतः परम्पराणां पङ्क्तित उपविष्टानां वानराणां मध्ये मृतं मृतं क्रमाद्भक्षिष्ये तत्मादिति पूर्वेण संबन्धः ॥ ४।५६।५ ॥

परमायस्तः परमखिन्नः ॥ ४।५६।६ ॥

सीतापदेशेनेति । सीताव्याजेन प्राप्तप्रायोपवेशानामित्यर्थः । “गृध्रापदेशेन” इति पाठः सुगमः ॥ ४।५६।७ ॥

अज्ञाता ऽचिन्तिता ॥ ४।५६।८ ॥

तिर्यग्योनिभूतानामस्माकमिव तिर्यग्योन्यन्तरस्यापि सीतानिमित्तं विपत्तिर्जातेत्याह– वैदेह्या इति । प्रत्यक्षं ह्रियमाणाया इति शेषः ॥ ४।५६।९ ॥

रामस्य प्रियं कुर्वन्तीत्यनेन तस्मिन्सर्वप्रेमास्पदत्वं सूचयता सर्वात्मत्वं सूचितम् ॥ ४।५६।१० ॥

सार्वात्म्यमेव द्रढयति अन्योन्यमिति । स्नेहकारुण्ययन्त्रिताः रामे इति शेषः । सर्वस्य रामत्वात्तदीयस्नेहेनैव परस्परोपकारकरणमित्यर्थः । स्नेहविषयता रामातिरिक्तेनेत्यनेन सूचितम् । तत उक्तस्नेहादियन्त्रणतः । तस्य रामस्योपकारार्थमित्यस्य प्रवृत्ता इति शेषः ॥ ४।५६।११ ॥

ननु प्राणत्यागेन कथं रामस्य सन्तोष अत आह– प्रियमिति । हि यतो जटायुषा प्राणांस्त्यजता प्रियं कृतमिति रामस्य मतमिति शेषः । तथास्मन्मरणेनापि रामस्तथा मंस्यतीति भावः ॥ ४।५६।१२ ॥

सुखीति । सुखित्वमेव परमगतिप्राप्त्या दर्शयति रावणेनेत्यादि । मुक्तश्चेति । अनेन सर्वतिर्यग्योनिराजत्वं कपीन्द्रस्य सूचितम् । गतश्च परमां गतिम् रामानुग्रहादिति शेषः ॥ ४।५६।१३ ॥

जटायुषो विनाशेन प्रागिति शेषः । यदि पुनर्मुहूर्तमपि युद्धे रावणं निरुन्ध्यात्तदा रामदृग्गोचरो रावणः सीतां न हरेदिति भावः । राज्ञो दशरथस्य च द्राग्विनाशेन । यदि पक्षमात्रमपि राजजीवनं स्यात्तदा रामं प्रत्यानयेदेवेति भावः । वैदेहीहरणं तु स्पष्टमेव वानराणां प्राणसंशयकारणम् ॥ ४।५६।१४,१५ ॥

विकृतमरण्यवासवालिवधरक्षोवधरूपम् । इदं चास्मन्मरणरूपं च कैकेय्या वरदानेनैव कृतमित्यर्थः ॥ ४।५६।१६ ॥

भृशचकितमतिः क्षुभितचित्तः । कृपणं दीनम् ॥ ४।५६।१७ ॥

अस्यैव प्रपञ्चः– तत्त्विति ॥ ४।५६।१८ ॥

को घोषयति । स मया प्रष्टव्य इति शेषः ॥ ४।५६।१९ ॥

प्रश्नमेवाह– कथमिति ॥ ४।५६।२० ॥

गिरिदुर्गाद्भवद्भिरवतारितुमिच्छेयम् आत्मानमिति शेषः । अवतारणफलमाह– यवीयस इति । कनिष्ठस्येत्यर्थः ॥ ४।५६।२१ ॥

श्रोतुमिच्छेयम् युष्मत्समीपमागत्येति शेषः । अन्वयस्तु– यस्य रामः प्रियः पुत्रः स दशरथो मम भ्रातुस्तस्यैव जटायुषः सखा, अतस्तत्स्नेहात्प्रयतमानस्य तस्य जनस्थानवासिनस्तस्य प्रसिद्धविक्रमस्य जटायुषो विनाशः कथमभवदिति तस्य विनाशं श्रोतुमिच्छेयमिति । कथं सखेत्यन्वयस्तु नोचितः, तदुत्तरस्याग्रे ऽभावात् ॥ ४।५६।२२,२३ ॥

स्वस्यावतारणसापेक्षत्वे हेतुमाह सूर्येति । अवतर्तुमवातारयितुम् ॥ ४।५६।२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥ ४।५६ ॥